SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ अमरकोषे कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु च पटुर्द्वी वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः दण्डोsस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः सर्पमांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः क्ष्वेडा वंशशलाकापि नाडी नालेऽपि षट्क्षणे काण्डोsस्त्री दण्डबाणार्ववर्गावसरवारिषु स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने भृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः शक्तस्थूलौ त्रिषु दृढौ व्यूढी विन्यस्तसंहतौ [ ५. नानार्थवर्ग: २४१३ २४१४ २४१५ २४१६ २४१७ २४१८ २४१९ २४२० २४२१ २४२२ २४२३ २४२४ 2 प्रचुरे, मुक्तानिर्मितयोश्च कष्टे सृष्टम् । कृच्छ्रं दुःखम् गहनं दुरधिगमान्तःप्रान्तम्, उमे कष्टे । दक्षोऽनलसः, अमन्दस्तीक्ष्णः, अगदो रोगहीनः, एते पटवः ॥ द्वौ कष्टपटू वाच्यलिङ्गौ । शिवे 'अपि ' शब्दान्मयूरेऽपि नीलकण्ठः । अन्तर्जठरं जठरस्यान्तरम् । कुसूलो धान्यागारम् । अन्तर्गृहं गृहाभ्यन्तरं च एतेषु कोष्ठः । पुंसि । निष्पत्तिर्निष्पादनम् । नाशः अदर्शनम् । अन्तः प्रध्वंसः निष्ठा । उत्कर्षे स्थितौ मर्यादायां दिशि च काष्ठा । अतिशस्ते सुप्रशस्ते, अपिशब्दादतिवृद्धे, अग्रजे मासि च ज्येष्ठः । अतियूनि बाले । अनुजेऽपि कनिष्ठः । लगुडेपि - शब्दादश्वेऽपि दण्डः । गोलो मृदादिगुडकः, इक्षुपाकः इक्षुविकारेऽपि गुडः । सर्पः मांसात्पशुर्व्याघ्रः । उभे व्याडौ । गौर्धेनुः । भूः । वाक् । एते डलयोरैक्यादिडा इलाश्च । इला बुधपत्नी च । वंशशलाका पञ्जराद्यर्था वा शूर्पाद्यर्था - वेणुशलाका क्ष्वेडा । 'अपि' शब्दाद्विषे पुंसि । षट्क्षणमिते काले नाले 'अपि' शब्दाच्छिरादिषु च नाडी । दण्डादिषु षट्सु काण्डः । स च पुंनपुंसकयोः । अश्वाभरणे । अमत्रे पात्रे । मूलं यद्वणिग्धनं तत्र च भाण्डम् । भृशमत्यर्थ प्रतिज्ञास्वीकारयोर्बाढम् । मृशकृच्छ्रयोर्हदेऽपि प्रगाढम् । शक्तः समर्थः तत्र स्थूळे For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy