SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ अमरकोषे ** पाकौ पक्तिशिशू मध्यरले नेतरि नायकः पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः खेटक ग्रामफलकौ धीवरेऽपि च जालिकः पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः करिण्यां चापि गणिका दारकौ बालभेदकौ अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ' मयूखस्त्विट् करज्वालास्वलिबाणौ शिलीमुखौ शङ्खो निधौ ललाटास्नि कम्बौ न स्त्रीन्द्रियेऽपि खम् २३७१ घृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ आशुगौ वायुविशिखौ शरार्कविहगाः खगाः पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः पशवोऽपि मृगा वेगः प्रवाहजवयोरपि परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि गजेsपि नागमातङ्गावपाङ्गस्तिलकेऽपि च २३७० २३७२ २३७३ २३७४ २३७५ २३७६ २३७७ [ ५. नानार्थवर्ग: For Private and Personal Use Only *** त्विट्करज्वालासु मयूखः । भ्रमरशरौ शिलीमुखौ । निधौ ललाटास्प्रि कम्बौ च शङ्खः । इन्द्रिये 'अपिशब्दादाकाशे शून्येऽपि खम् । घृणिः ज्वाला 'अपि शब्दाच्चूडायां प्रपदे बर्हिचूडायां च शिखा । शैलवृक्षौ नगसंज्ञकावगसंज्ञकौ च । वायुविशिखौ आशुगौ । बाणार्कपक्षिणः खगशब्दवाच्याः । पक्षिसूर्ययोः । चकाराच्छालिप्रमेदे पतङ्गः । क्रमुके वृन्दे च पूगः । पशुषु 'अपिशब्दात् मृग मार्गणायां च मृगः । प्रवाहजवयोः 'अपि ' शब्दाद्विष्ठादेर्बहिर्निर्गमेऽपि वेगशब्दः स्यात् । कुसुमसंबन्धिनि रेणी, स्नानीये गन्धचूर्णविशेषे, आदिना सुरतादिश्रमशान्तये कामशास्त्राद्युक्ते यत्कर्पूरादि चूर्णे, 'अपि' शब्दादुपरागे, रजसि परागः । नागमातङ्गौ गजे वर्तेते । 'अपिशब्दात्काद्रवेयनाग
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy