SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषे [५. नानार्थवर्गः तक्षको नागवर्धक्योरः स्फटिकसूर्ययोः २३४३ मारुते वेधसि बने पुंसि कः कं शिरोऽम्बुनोः । २३४४ स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके २३४५ उलूके करिणः पुच्छमूलोपान्ते च पेचकः २३४६ कमण्डलौ च करकः सुगते च विनायकः २३४७ किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः २३४८ प्रतिकूले प्रतीकस्विष्वेकदेशे तु पुंस्ययम् २३४९ स्याद्भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च २३५० ज्योनिकायां च घोषे च कोशातक्यथ कट्रफले २३५१ सिते च खदिरे सोमवल्कः स्यादथ सिहके २३५२ तिलकल्के च पिण्याको बाह्रीकं रामठेऽपि च २३५३ महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः २३५४ रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु २३५५ जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः २३५६ तक्षकः । स्फटिकसूर्ययोरर्क इति । मारुते वेधसि ब्रने क इति पुंसि । शिरसि जले च के इति क्लीबम् । तुच्छधान्ये संक्षेपे भक्तसिक्थके पुलाक इति । करिणः पुच्छमूलोपान्ते गुदाच्छादकमांसपिण्डे उलूके च पेचकः। कमण्डलौ चकाराद्वर्षोंपले दाडिमादौ च करकः । सुगते चकाराद्विघ्नराजे गरुडे च विनायकः । हस्ते वितस्तो च किष्कः । शूककीटे चकारादलौ कटे वृक्षविशेषेऽष्टमराशौ च वृश्चिकः । प्रतिकूले च प्रतीकः । तत्र प्रतिकूले त्रिषु । अवयवे पुंसि । भूनिम्बे कत्तृणे भूस्तृणे च भूतिकं स्यात् । ज्योत्स्निकायां घोषे च कोशातकी । कट्फले शुक्लखदिरे च सोमवल्कः । सिहके तिलकल्के निःस्नेहतिलचूर्णे च पिण्याकः । रामठे चकाराद्वाहीके देशेऽश्वे धीरे च बाहीकमिति । महेन्द्रे गुग्गुलौ उलूके व्यालग्राहिणि च कौशिकः । रुक् तापः शङ्का अत्र आतङ्क इति । खल्पे अपि. शब्दानीचकनिष्टदरिद्रेष्वपि क्षुल्लकः । क्षुल्लकत्रिषु । शशाङ्कः कुशव जैवातकः । अश्वखुरे 'अपि'शब्दात्पक्षिभेदे च वर्तकः व्याघ्र 'अपि'शन्दादमी दिग्गजादै For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy