SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९५ पतयः २२७४-२२९५] तृतीयं काण्डम् प्रवाहस्तु प्रवृत्तिः स्यात् प्रवहो गमनं बहिः वियामो वियमो यामो यमः संयामसंयमौ हिंसाकर्माऽभिचारः स्याजागर्या जागरा द्वयोः विघ्नोऽन्तरायः प्रत्यूहः स्यादुपन्नोऽन्तिकाश्रये निर्वेश उपभोगः स्यात् परिसर्पः परिक्रिया विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः संक्षेपणं समसनं पर्यवस्था विरोधनम् परिसर्या परीसारः स्यादास्या त्वासना स्थितिः विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम् संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् २२८५ २२८६ २२८७ २२८८ २२८९ २२९० २२९१ २२९२ २२९३ २२९४ २२९५ विडम्बनस्य ॥-अर्थस्य धनादेरपगमे व्यय इति १॥-प्रवाहः, प्रवृत्तिः, इति २ जलादीनां निरन्तरगतेः । यद्वहिर्गमनं स प्रवह इति १॥-वियामः, वियमः, यामः, यमः, संयामः, संयमः, इति ६ संयमस्य योगाङ्गस्य । हिंसाकर्म जारणमारणादि अभिचारः स्यात् १॥-जागो, जागरा, इति २ जागरणस्य । तत्र जागरा स्त्री-पुंसयोः॥-विघ्नः, अन्तरायः, प्रत्यूहः, इति ३ विघ्नस्य । समीपभूत आश्रये उपघ्न इति १ ।।-निर्देशः, उपभोगः, इति २ उपभोगस्य ॥-परिसर्पः, परिक्रिया, इति २ परिजनादिवेष्टनस्य ॥विधुरम् , प्रविश्लेषः, इति २ अत्यन्तवियोगस्य ।।-अभिप्रायः, छन्दः, आशयः, इति ३ अभिप्रायस्य ॥-संक्षेपणम् , समसनम् , इति २ अविस्तारस्य ॥पर्यवस्था, विरोधनम्, इति २ विरोधस्य ॥-परिसो, परीसारः, इति २ परितःसरणस्य ॥-आस्या, मासना, स्थितिः, इति ३ आसनस्य - विस्तारः विग्रहः, व्यासः, इति ३ विस्तृतेः । विस्तारः, शब्दसंबन्धी चेत् विस्तर इति १॥-संवाहनम् , मर्दनम्, इति २ अङ्गमर्दनस्य ॥-विनाशः, मदर्शनम्, इति २ तिरोधानस्य ॥-संस्तवः, परिचयः, इति २ परिचितो ॥-प्रसरः, विसर्पणम्, इति २ प्रणादिप्रसरणस्य ॥-नीवाकः, प्रयामः, For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy