SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषे [४. संकीर्णवर्गः २२५५ साकल्यासङ्गवचने पारायणतुरायणे २२५३ यदृच्छा स्वैरिता हेतुशून्या त्वास्या विलक्षणम् २२५४ शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् २२५६ वशक्रिया संवननं मूलकर्म तु कार्मणम् २२५७ विधूननं विधुवनं तर्पणं प्रीणनावनम् २२५८ पर्याप्तिः स्यात्परित्राणं हस्तवारणमित्यपि २२५९ सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा २२६० आक्रोशनमभीषङ्गः संवेदो वेदना न ना २२६१ संमूर्च्छनमभिव्याप्तिर्याच्या भिक्षार्थनार्दना २२६२ वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने २२६३ आप्रच्छन्नमथाम्नायः संप्रदायः क्षये क्षिया २२६४ अपरस्परा इति १ । साकल्यवचनं पारायणमिति १ । आसङ्गवचनं तुरायणमिति १॥-यदृच्छा, स्वैरिता, इति २ स्वच्छन्दतायाः । हेतुशून्या आस्या स्थितिर्विलक्षणं स्यात् १॥-शमथः, शमः, शान्तिः, इति ३ चित्तोपशमस्य। दान्तिः, दमथः, दमः, इति ३ इन्द्रियनिग्रहस्य । वृत्तं कर्म तदवदानमिति । काम्यदानं तत्प्रवारणमिति १॥-वशक्रिया, संवननम् , इति २ वशीकरणस्य १। ओषधीनां मूलैरुच्चाटनादि यत्कर्म तत्कार्मणमिति १ ॥-विधूननम् , विधुवनम् , इति २ कम्पनस्य । तर्पणम् , प्रीणनम्, अवनम्, इति ३ तृप्तः।--पर्याप्तिः, परित्राणम् , हस्तवारणम्, इति ३ वधोद्यतनिवारणस्य ॥--सेवनम् , सीवनम् , स्यूतिः, इति ३ सूचीक्रियायाः ॥-विदरः, स्फुटनम् , भिदा, इति ३ द्विधाभावस्य ॥-आक्रोशनम् , अभीषङ्गः, इति २ गालिप्रदानस्य ॥ --संवेदः, वेदना, इति २ अनुभवस्य । तत्र वेदना न पुमान् ।।-संमूर्छनम् , अभिव्याप्तिः, इति २ सर्वतोव्याप्तेः ॥-याच्ञा, भिक्षा, अर्थना, भर्दना, इति ४ याचनस्य ॥-वर्धनम् , छेदनम् , इति २ कर्तनस्य ।।---आनन्दनम् , सभाजनम् , आप्रच्छन्नम् , इति ३ स्वागतसंप्रश्नादिना विहितस्यानन्दनस्य ॥-आम्नायः, संप्रदायः, इति २ गुरुपरम्परागतस्य समुपदेशस्य ॥ For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy