SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ अमरकोषेर [३. विशेष्यनिघ्नवर्गः वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् २२०५ रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते २२०६ स्याद्विनाशोन्मुखं पक्कं ह्रीणहीतौ तु लज्जिते २२०७ वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः २२०८ प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं श्रुतम् २२०९ संगूढः स्यात्संकलितोऽवगीतः ख्यातगहणः २२१० विविधः स्याद्बहुविधो नानारूपः पृथग्विधः २२११ अवरीणो धिकृतश्चाप्यवध्वस्तोऽवचूर्णितः २२१२ अनायासकृतं फाण्टं स्वनितं ध्वनितं समे २२१३ बद्धे संदानितं मूतमुदितं संदितं सितम् २२१४ निष्पक्के कथितं पाके क्षीराज्यहविषां शृतम् २२१५ निर्वाणो मुनिवह्नयादौ निर्वातस्तु गतेऽनिले २२१६ -समुदक्तम् , उद्धृतम् , इति २ उन्नीतस्य । वेष्टितम् , वलयितम् , संवीतम् , रुद्धम् , आवृतम् , इति ५ वेष्टितस्य ।। --- रुग्णम् , भुमम् , इति २ व्यथितस्य ॥-निशितम् , क्ष्णुतम् , शातम् , तेजितम्, इति ४ तीक्ष्णीकृतस्य शस्त्रादेः। विनाशोन्मुखं पक्कं स्यात् १॥-हीणः, ह्रीतः,लजितः, इति ३ संजातलजस्य॥ वृत्तः, वृतः, व्यावृत्तः, इति ३ कृतवरणस्य ॥---संयोजितः, उपाहितः, इति २ संयोगं प्रापितस्य ।।-प्राप्यम् , गम्यम् , समासाद्यम् , इति ३ प्राप्तुं शक्यस्य ॥ स्यन्नम् , रीणम् , स्नुतम् , स्रतम् , इति ४ प्रस्नुतस्य ॥-संगूढः, संकलितः, इति २ योजितस्याङ्कादेः ॥---अवगीतः, ख्यातगर्हणः, इति २ निन्दितस्य ॥-विविधः, बहुविधः, नानारूपः, पृथग्विधः, इति ४ नानारूपस्य ॥--अवरीणः, धिकृतः, इति २ निन्दितमात्रस्य ॥-अवध्वस्तः, अवचूर्णितः, इति २ चूर्णीमतस्य । अनायासकृतं फाण्टं स्यात् १ ॥-स्खनितम् ध्वनितम् , इति २ाब्दतस ॥-बद्धम् , संदानितम् , मूतम् , उद्दितम् , संदितम् , सितम्, इति ६ बद्धस्य॥-निष्पकम् , कथितम् , इति २ साकल्येन पक्कस्य। क्षीरादीनां पाके शतमिति १ । निर्वाण इति १ मुनिवह्नयादी प्रयुज्यते, For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy