SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः १८२२-१८४७] द्वितीयं काण्डम् खनति तेन तद्वोढाऽस्येदं हालिकसैरिको १८३५ धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः १८३६ उभावेकधुरीणैकधुरावेकधुरावहे १८३७ स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः १८३८ माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी १८३९ अर्जुन्यन्या रोहिणी स्यादुत्तमा गोषु नैचिकी १८४० वर्णादिभेदात्संज्ञाः स्युः शबलीधवलादयः १८४१ द्विहायनी द्विवर्षा गौरेकाब्दा त्वेकहायनी १८४२ चतुरब्दा चतुर्हायण्येवं व्यब्दा त्रिहायणी १८४३ वशा वन्ध्याऽवतोका तु स्रवद्गर्भाथ संधिनी १८४४ आक्रान्ता वृपभेणाथ बेहद्गर्भोपघातिनी १८४५ काल्योपसर्या प्रजने प्रष्ठाही बालगर्भिणी १८४६ स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका १८४७ शाकटः, इति ३ । तेन खनतीत्याद्यर्थे हालिकः, सैरिकः, इति २ ॥---- धूर्वहः, धुर्यः, धौरेयः, धुरीगः, धुरंधरः, इति ५ धुरंधरवृषभस्य ॥एकधुरीणः, एकधुरः, एकधुरावहः, इति ३ य एकामेव धुरं वहति तस्य । यः सर्वामपि धुरै वहति स सर्वधुरीण इति १ ॥-माहेयी, सौरमेयी, गौः, उस्रा, माता, शृङ्गिणी, अर्जुनी, अध्या, रोहिणी, इति ९ गवि । या गोषु उत्तमा सा गोंचिकीति १ । वर्णावयवप्रमाणादीनां भेदात् गवां संज्ञाः शबली, धवला, इत्यादयः । द्विवर्षा गौर्द्विहायनी इति । एकाब्दा गौः एकहायनी इति १ । चतुरब्दा गौश्चतुर्हायणी इति १ । त्रिवर्षा त्रिहायणी स्यात् १॥-वशा, बन्ध्या, इति २ वन्ध्यायाः॥-अवतोका, स्रवद्गर्भा, इति २ अकस्मात्पतितगर्भायाः। वृषभेण मैथुनार्थे आकान्ता संधिनी १ । विहन्ति गर्भ इति वृषोपगमनाद्गर्भोपघातिनी वेहदित्युच्यते १ । स्त्रियाम् । प्रजने काल्या गौरुपसर्या इति १। बालगर्भिणी प्रष्ठौही इति १ ॥-अचण्डी, सुकरा, इति २ अकोपनायाः ॥बहुसूतिः, परेष्ठका, इति २ बहुप्रसवायाः ॥-चिरप्रसूता, बष्कयणी, इति For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy