SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४८ Acharya Shri Kailassagarsuri Gyanmandir अमरकोषे द्विगुणाकृते तु सर्व पूर्व शम्बाकृतमपीह द्रोणाढकादिवापादौ द्रौणिकाढकिकादयः खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु पुंनपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु कैदारकं स्यात्कैदार्य क्षेत्रं कैदारिकं गणे लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः प्राजनं तोदनं तोत्रं खनित्रमवदारणे दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम् निरीशं कुटकं फालः कृषको लाङ्गलं हलम् गोदारणं च सीरोऽथ शम्या स्त्री युगकीलकः ईषा लाङ्गलदण्डः स्यात् सीता लाङ्गलपद्धतिः पुंसि मेधिः खलेदारु न्यस्तं यत्पशुबन्धने आशुत्रीहिः पाटलः स्याच्छितशुकयवौ समौ [ १०. वैश्यवर्गः For Private and Personal Use Only १७२५ १७२६ १७२७ १७२८ १७२९ १७३० १७३१ १७३२ १७३३ १७३४ १७३५ १७३६ १७३७ " द्विःकृष्टे शम्बा कृतमित्यपि १ । द्रोणाढका दिवापादौ द्रौणिकाढकिकादयः स्युः । खारीवापः खारीक इति १ । उत्तमर्णादयः खारीकान्ताः त्रिलियाम् ॥वप्रः, केदारः, क्षेत्रम्, इति ३ क्षेत्रस्य । क्षेत्रस्य गणे कैदारकम्, कैदार्यम्, क्षेत्रम्, कैदारिकम् इति ४ ॥ - लोष्टम् लेष्टुः इति २ मृत्तिकाखण्डस्य । लोष्टं पुंस्यपि ॥ - कोटिशः, लोष्टभेदन:, इति २ लोटभञ्जनमुद्गरस्य ॥ -- प्राजनम्, तोदनम्, तोत्रम् इति ३ वृषादेस्ताडनोपयोगिनस्तोत्रस्य खनित्रम्, अवदारणम्, इति २ कुद्दालादेः ॥ - दात्रम्, लवित्रम् इति २ लवित्रस्य ॥ - आबन्धः, योत्रम्, योक्त्रम् इति ३ युगबन्धनोपयोगिन्यां रज्जौ ॥ -- फलम्, निरीशम्, कुटकम्, फाल:, कृषकः, इति ५ लाङ्गलस्याधः स्थिते लोहमय काष्ठे ॥ - लाङ्गलम् हलम्, गोदारणम्, सीरः, इति ४ हलस्य ॥—शम्या, युगकीलकः, इति २ युगस्य कीलके । लाङ्गलस्य दण्ड ईषा स्यात् १ । लाङ्गलपद्धतिः हलरचिता रेखा सीता स्यात् १ । पशुबन्धने यत्काष्टं न्यस्तं तत्र मेधिः, खलेदारु, इति २ ॥ आशुः व्रीहिः, पाटल:, इति ३ व्रीहेः ॥
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy