________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
अमरकोषे
[९. क्षत्रियवर्गः
कौक्षेयको मण्डलायः करवालः कृपाणवत् १६४६ त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः १६४८ द्रुघणो मुद्रघनौ स्यादीली करवालिका
१६४९ भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः १६५१ स्याच्छस्त्री चासिपुत्री च छुरिका चासिधेनुका वा पुंसि शल्यं शहना सर्वला तोमरोऽस्त्रियाम् १६५३ प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः १६५४ सर्वाभिसारः सर्वोघः सर्वसनहनार्थकः
१६५५ लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनाविधिः १६५६ यत्सेनयाभिगमनमरौ तदभिषेणनम्
१६५७ यात्रा ज्याऽभिनियोणं प्रस्थानं गमनं गमः १६५८ असिः, रिष्टिः, कोक्षेयकः, मण्डलाग्रः, करवालः, कृपाणः, इति ९ खङ्गस्य । खड्गस्य मुष्टौ त्सरुरिति १ । तस्य खड्गस्य मुष्टेः निबन्धनं मेखला स्यात् १॥-फलकः, फलम् , चर्म, इति ३ चर्मणः।-अस्य फलकस्य यो मुष्टिः स संग्राहः १॥द्रुघगः, मुद्गरः, घनः, इति ३ मुद्गरस्य ॥-ईली, करवालिका, इति २ हवखङ्गाकृतेरेकधारस्य शस्त्रस्य ॥-मिन्दिपालः, सृगः, इति २ अश्मप्रक्षेपसाधनस्य ॥-परिघः, परिघातिनः, इति २ लोहबद्धहस्तप्रमाणलगुडस्य ॥ कुठारः, खधितिः, परशुः, परश्वधः, इति ४ कुठारस्य ॥-तत्र कुठारः स्त्रीपुंसयोः ॥-शस्त्री, असिपुत्री, छुरिका, असिधेनुका, इति ४ रिकायाः ॥-शल्यम् , शङ्खः, इति २ बाणाग्रस्य। शङ्कुः ना पुमान् ॥-सर्वला, तोमरः, इति २ मन्थदण्डाकारशस्त्रभेदस्य ॥ प्रासः, कुन्तः, इति २ प्रासस्य॥ कोणः, पालिः, अश्रिः, कोटिः, इति ४ खड्गादिप्रान्तभागस्य ॥-सर्वामिसारः, सर्वोघः, सर्वसंनहनम् , इति ३ चतुरङ्गसैन्यसंनहनस्य। अस्त्रभृतां राज्ञां नीराजने शस्त्रादिसमर्पणविधिः स लोहाभिसार इति १। अरौ यत्सेनया सहाभिगमनं तदभिषेणनं स्यात् १॥यात्रा, व्रज्या, अभिनिर्याणम् , प्रस्थानम् , गमनम् , गमः,
For Private and Personal Use Only