SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ अमरकोषे [८. ब्रह्मवर्गः मृतार्थ तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम् १४१३ पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः १४१४ अन्वाहार्य मासिकेंऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् १४१५ पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा १४१६ सनिस्त्वध्येषणा याञाऽभिशस्तिर्याचनार्थना १४१७ षट् तु त्रिष्वय॑मर्घार्थे पाद्यं पादाय वारिणि १४१८ क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि १४१९ स्युरावेशिक आगन्तुरतिथिर्ना गृहागते १४२० 'प्राघूर्णिकः प्राघुणकश्चाभ्युत्थानं तु गौरवम्' ** पूजा नमस्याऽपचितिः सपर्यार्चाहणाः समाः १४२१ वरिवस्यां तु शुश्रूषा परिचर्याप्युपासना १४२२ व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः १४२३ उपस्पशेस्त्वाचमनमथ मौनमभाषणम् १४२४ तत्र अंतिः स्त्री। मृतार्थ तदहे दानं और्वदेहिकं स्यात् १। तत्रिषु ॥-पितृदानम् , निवापः, इति २ पित्रर्थे दानस्य १ शास्त्रतस्तत्कर्म श्राद्धं स्यात् १ । मासिकेऽन्वाहार्यमिति १। अहोऽष्टमोऽशः कुतपः स्यात् १। क्लीबे तु कुतपम् ॥पर्येषणा, परीष्टिः, इति २ श्राद्धे द्विजभक्तिशुश्रूषायाः॥-अन्वेषणा, गवेषणा, इति २ धर्मादिमार्गणस्य ॥–सनिः, अध्येषणा, इति २ अध्येपणायाः ॥-याच्या, अभिशस्तिः, याचना, अर्थना, इति ४ याचनायाः । अर्घार्थे वारिणि अर्ध्यमिति १। पादाय वारिणि पाद्यम् १ । अतिथ्यर्थ आतिथ्यमिति १। अतिथौ यत् साधु तत्र आतिथेयमिति १॥-आवेशिकः, आगन्तुः, अतिथिः, गृहागतः, इति ४ गृहागतस्य । ना पुमान् ॥-पूजा, नमस्या, अपचितिः, सपर्या, अर्चा, अर्हणा, इति ६ "नायाः ॥-वरिवस्या, सुश्रूषा, परिचर्या, उपासना, इति ४ उपासनस्य-व्रज्या, अटा, अट्या, पर्यटनम् , इति ४ पर्यटनस्य । ईपिथे योगमार्गे स्थितिः चर्या स्यात् १॥-उपस्पर्शः, आचमनम्, इति २ आचमनस्य ॥-मौनम् , अभाषणम् , इति २ मौनस्य ॥-आनुपूर्वा, आवृत्, For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy