SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० अमरकोषे कौलटेरः कौलटेयो भिक्षुकी तु सती यदि तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता जनयित्री प्रसूर्माता जननी भगिनी स्वसा ननान्दा तु स्वसा पत्युर्नत्री पौत्री सुतात्मजा भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् प्रजावती भ्रातृजाया मातुलानी तु मातुली पतिपत्त्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरी [ ७. मनुष्यवर्गः ११२६ ११२७ ११२८ ११२९ ११३० ११३१ ११३२ ११३३ ११३४ ११३५ ११३६ ११३७ असतीसुतः, कौलटेरः, कौलटेयः, इति ५ कुलटापुत्रस्य ॥ - यदि तु सती मिक्षुकी मिक्षार्थिनी तर्हि तस्या आत्मजः कौलटिनेयः, कौलटेयः, इति २ ॥ कुलानि भिक्षार्थं अटति, न तु जारार्थं तस्याः कुलटायाः पुत्रः कौलटेयः, इतरस्याः कौलटेर इति मेदः ॥ - आत्मजः, तनयः, सूनुः, सुतः, पुत्रः, इति ५ पुत्रस्य ॥-अमी आत्मजादयः सर्वे स्त्रियां वर्तमाना दुहितरं आहुः ॥ - अपत्यम्, तोकम्, इति २ पुत्रे दुहितरि च क्लीबलिङ्गे एव ॥ - औरसः, उरस्यः, इति २ सवर्णायां ऊढायां स्वस्माज्जाते पुत्रे ॥ - तातः, जनकः, पिता, इति ३ पितुः ॥ -- जनयित्री, प्रसूः, माता, जननी, इति ४ जनन्याः ॥ - भगिनी, वसा, इति २ स्वसुः । या पत्युः खसा सा ननान्दा इति १ ॥ - नप्त्री, पौत्री, इति २ सुतस्य सुतायाश्वात्मजायाः ॥ भ्रातृवर्गस्य भार्याः परस्परं यातरः स्युः इति १ ॥ -- प्रजावती, भ्रातृजाया, इति २ भ्रातुर्जायायाम् ॥ मातुलानी, मातुली, इति २ मातुलभार्यायाः । पत्युः पत्न्याश्च प्रसूर्माता श्वरित्युच्यते इति १ ॥ --- तयोः पतिपन्योः पिता श्वशुर इत्युच्यते १ ॥ - पितुः भ्राता पितृव्यः १ ॥ मातुः भ्राता मातुल इत्युच्यते १ ॥ - पत्न्याः भ्रातरः श्याला इति १ ॥ - स्वामिनः पत्युर्भ्रातरि For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy