SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९८ Acharya Shri Kailassagarsuri Gyanmandir अमरकोषे उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः आचार्यानी तु पुंयोगे स्यादय क्षत्रियी तथा उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा वीरपली वीरभार्या वीरमाता तु वीरसूः जातापत्या प्रजाता च प्रसूता च प्रसूतिका स्त्री नग्नका कोटवी स्याहृतीसंचारिके समे कात्यायन्यर्धवृद्धा या काषायवसनाऽधवा सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका असिक्की स्यादवृद्धा या प्रेष्याऽन्तःपुरचारिणी वारस्त्री गणिका वेश्या रूपाजीवाऽथ सा जनैः सत्कृता वारमुख्या स्यात् कुट्टनी शम्भली समे विप्रश्नका त्वीक्षणिका दैवज्ञाऽथ रजस्वला [ ७. मनुष्यवर्गः ११०२ ११०३ ११०४ For Private and Personal Use Only ११०५ ११०६ ११०७ ११०८ ११०९ १११० ११११ १११२ १११३ जातीयायाः ॥ - उपाध्याया, उपाध्यायी, इति २ स्वयं या अध्यापिका तस्याम् । तथा स्वतः स्वयं मन्त्रव्याख्याकृदाचार्या स्यादिति १ । पुंयोगे आचार्यस्य स्त्रीत्येवंरूपेऽर्थे आचार्यानीति १ । तथा अर्यस्य स्त्रीत्यर्थे अर्थीति १ । एवं क्षत्रियस्य स्त्रीत्यर्थे क्षत्रियी इति १ । उपाध्यायानी, उपाध्यायी, इति २ उपाध्यायस्य भार्यायाम् । स्त्रीपुंसलक्षणा स्तनश्मश्रुरूपेण स्त्रीपुंसचिन युक्ता पोटा इति १ ॥ - वीरपत्नी, वीरभार्या, इति २ वीरस्य भार्यायाः ॥ - वीरमाता, वीरसूः, इति २ वीरस्य मातरि ॥ - जातापत्या, प्रजाता, प्रसूता, प्रसूतिका, इति ४ प्रसूतायाः । या नमिका नमा स्त्री सा कोटवीति १ ॥ दूती, संचारिका, इति २ दूतिकायाः, अर्धवृद्धा काषायवस्त्रा अधवेति विशेषणत्रयविशिष्टा या सा कात्यायनीत्युच्यते इति १ ॥ - या परवेश्मस्था स्वतन्त्रा केशप्रसाधनादिशिल्पकारिणी चेति विशेषणत्रयोपेता तस्यां सैरन्ध्रीति नाम १ । अवृद्धा प्रेष्याऽन्तःपुरचारिणीति च विशेषणत्रयोपेता या साऽसिनो स्यादिति १ ॥ — वारस्त्री, गणिका, वेश्या, रूपाजीवा, इति ४ वेश्यायाः । सा वेश्या गुणवत्त्वाज्जनैः सत्कृता सती वारमुख्या स्यात् इति १ ॥ कुट्टनी, शम्भली, इति २ परनारीं पुंसा योजयित्र्याम् ॥ विप्रनिका, ईक्षणिका, दैवज्ञा, इति ३ "
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy