SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्क्ङ्क्यः ६३४-६५४ ] द्वितीयं काण्डम् गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः 'दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः खनिः स्त्रियामाकरः स्यात् पादाः प्रत्यन्तपर्वताः उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका धातुर्मनः शिलाद्यद्वेगैरिकं तु विशेषतः निकुञ्जकुञ्ज वा क्लीवे लतादिपिहितोदरे ५. वनौषधिवर्गः अटव्यरण्यं विपिनं गहनं काननं वनम् महारण्यमरण्यानी गृहारामास्तु निष्कुटाः आरामः स्यादुपवनं कृत्रिमं वनमेव यत् अमात्यगणिका गेहोपवने वृक्षवाटिका पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् ६१ ६४५ ** For Private and Personal Use Only ६४६ ६४७ ६४८ ६४९ ६५० ६५१ ६५२ ६५३ ६५४ आकरः, - गुहा, गह्वरम्, इति २ देवखाते अकृत्रिमे बिले बिलविषये ॥ गिरेः, सकाशाच्युताः, पतिता ये स्थूलपाषाणास्ते गण्डशैला इत्युच्यन्ते ॥ —खनिः, इति २ रत्नाद्युत्पत्तिस्थानस्य ॥ -- पादाः, प्रत्यन्तपर्वताः, इति २ पर्वतसमीपस्थात्पपर्वतानाम् ॥ अद्वेरधः संनिहिता भूमिरुपत्य केत्युच्यते ॥ - अद्रेरूर्ध्वा या भूमिः साऽधित्यका इति ॥ - अद्वेर्यन्मनः शिलादि स धातुरित्युच्यते । आदिना हरितालखर्णताम्रादिग्रहः । गैरिकं विशेषतो धातुः —निकुञ्जः, कुञ्जः, इति २ लतादिपिहितोदरे लताद्याच्छादितगर्भे स्थाने ॥ " ६५०-९८९. अटवी, अरण्यम्, विपिनम्, गहनम्, काननम्, वनम्, इति ६ अरण्यस्य । तत्राटवी स्त्रियाम् ॥ - महारण्यम्, अरण्यानी, इति २ महतो वनस्य । भरण्यानी स्त्रियाम् ॥ - -गृहारामाः, निष्कुटाः, इति २ गृहसमीप - कृत्रिमवनेषु ॥ - यत् कृत्रिमं कृत्या निरृत्तं वनं तत्र आरामः, उपवनम्, वृक्षवाटिकेति १ अमात्यानां वेश्यानां च यद्गृहोपवनं तत्र ॥ - यत् राज्ञः साधारण प्रमदाभिरन्यैर्वा सह क्रीडाद्यर्थं वनं तत्र आक्रीडः, उद्यानम् इति २ ॥ - "
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy