SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पङ्कयः ५९० - ६१० ] द्वितीयं काण्डम् भित्तिः स्त्री कुड्यमेकं यदन्तर्न्यस्तकीकसम् गृहं गेहोदवसितं वेश्म सद्म निकेतनम् निशान्तपस्त्यसदनं भवनागारमन्दिरम् गृहाः पुंसि च भूम्येव निकाय्यनिलयालयाः वासः कुटी द्वयोः शाला सभा संजवनं त्विदम् चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा आवेशनं शिल्पिशाला प्रपा पानीयशालिका मठरछात्रादिनिलयो गञ्जा तु मदिरागृहम् गर्भागारं वासगृहमरिष्टं सूतिकागृहम् 'कुट्टिमोsस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्' वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः > Acharya Shri Kailassagarsuri Gyanmandir , ५७ 7 इति ३ यष्टिकाकण्टकादिरचित वेनस्य ॥ - नगरादेः प्रान्तभागे या वृतिर्वेष्टनं वेणुकण्टकादीनां तत्प्राचीनमित्युच्यते ॥ -- भित्तिः, कुड्यम् इति २ भित्तेः ॥ - तत् कुड्यम् अन्तर्न्यस्त कीकसं चेत् एडूकसंज्ञम् ॥ – गृहम्, गेहम्, उदवरितम्, वेश्म, सद्म, निकेतनम्, निशान्तम्, पस्त्यम्, सदनम् भवनम् अगारम्, मन्दिरम् गृहाः, निकाय्यः, निलयः, आलय:, इति १६ गृहस्य ॥ - वासः, कुटी, शाला, सभा, इति ४ सभागृहस्य ॥ - संजवनम्, चतुःशालम्, इति २ अन्योन्याभिमुखशालाचतुष्कस्य ॥ - पर्णशाला, उटजः इति २ मुनिगृहस्य || - चैत्यम्, आयतनम् इति २ यज्ञायतनभेदस्य ॥ - वाजिशाला, मन्दुरा, इति २ अश्वशालायाः ॥ -- आवेशनम् शिल्पिशाला, इति २ स्वर्णकारादीनां शालायाः ॥ -- प्रपा, पानीयशालिका, इति २ जलशालायाः ॥ - छात्रा दिनिलयः शिष्यादीनां गृहं मठ इत्युच्यते । आदिना कापालादिसंग्रहः ॥ -- गजा, मदिरागृहम् इति २ मद्यस्थानस्यगर्भागारम्, वासगृहम्, इति २ गृहमध्यभागस्य ॥ अरिष्टम्, सूतिकागृहम्, इति २ प्रसवस्थानस्य ॥ - वातायनम्, गवाक्षः, इति २ गवाक्षस्य ॥ " For Private and Personal Use Only ६०० ६०१ ६०२ ६०३ ६०४ ६०५ ६०६ ६०७ ६०८ ६०९ *** ६१०
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy