SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५४ Acharya Shri Kailassagarsuri Gyanmandir अमरकोषे समानौ मरुधन्वानौ द्वे खिलाप्रहते समे त्रिष्वथ जगती लोको विष्टपं भुवनं जगत् लोकोऽयं भारतं वर्ष शरावत्यास्तु योऽवधेः देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तर: प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यदेशस्तु मध्यमः आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः नीवृज्जनपदो देशविषयौ तूपवर्तनम् त्रिष्वागोष्ठान्नडप्राये नान्नडल इत्यपि कुमुद्वान् कुमुदप्राये वेतस्वान् बहुवेतसे शाद्वलः शादहरिते सजम्बाले तु पङ्किलः जलप्रायमनूपं स्यात् पुंसि कच्छस्तथाविधः [ २. भूमिवगः ५६७ ५६८ ५६९ For Private and Personal Use Only ५७० ५७१ ५७२ ५७३ ५७४ ५७५ ५७६ ५७७ 2 ऊषवान्, ऊषरः, इति २ क्षारमृद्विशिष्टस्य । द्वावप्यन्यलिङ्गौ ॥ - स्थलम्, स्थली, इति २ अकृत्रिमस्थानस्य ॥ - मरुः, धन्वा, इति २ मरुदेशस्य ॥ - खिलम्, अप्रहतम्, इति २ अकृष्टस्य क्षेत्रादेः ॥ - जगती, लोकः, विष्टपम्, भुवनम्, जगत् इति ५ भूतलस्य ॥ - अयं जम्बुद्वीपवर्ती दृश्यमानो लोकः भारतनामकं वर्षं ज्ञेयम् ॥ - शरावत्या अवधेः यः प्राग्दक्षिणः प्राक्सहितो दक्षिणो देशः स प्राच्य इति ॥ - शरावत्या अवधेयः पश्चिमोत्तरः पश्चिमसहित उत्तरो देशः स उदीच्य इति ॥—प्रत्यन्तः, म्लेच्छदेशः, इति २ शिष्टाचाररहितस्य कामरूपादेः ॥ - मध्यदेशः, मध्यमः, इति २ मध्यदेशस्य ॥ - आर्यावर्तः, पुण्यभूमिः, इति २ विन्ध्यहिमाचलयोरन्तरस्य - ॥ नीवृत्, जनपदः, इति २ जनैर्वास्यमानराष्ट्रस्य मगधादेः ॥―देशः विषयः, उपवर्तनम् इति ३ ग्रामसमुदायलक्षणस्य देशमात्रस्य ॥ - अथ गोष्ठशब्दमभिव्याप्य वक्ष्यमाणास्त्रिषु लिङ्गेषु । नद्वान्, नवल:, इति २ नडबहुले देशे ॥ - कुमुद्वान्, इति १ कुमुदप्राये ॥ - वेतखान् इति १ बहुवेतसे ॥ - शादैर्बालतृणैर्हरिते देशे शाद्वल इति ॥ —सजम्बाले कर्दमयुक्ते देशे पङ्किल इति ॥ – जलप्रायम्, अनूपम्, इति २ जलबहुलदेशस्य ॥ - अनुगता आपोऽत्र अनूपं, 'नानाद्रुमलतावीरुन्नि र्जरप्रान्तञ्चीतलैः । वनेर्व्याप्तमनूपं तत् सस्यैर्त्रीहियवादिभिः ॥' तथाविधः , "
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy