SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२४ पतयः ३०९-३२५] प्रथमं काण्डम् ३१ शिक्षेत्यादि श्रुतेरङ्गमोंकारप्रणवौ समौ ३१८ इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः ३१९ आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् ३२१ प्रबन्धकल्पना कथा प्रवलिका प्रहेलिका ३२२ स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ३२३ समस्या तु समासार्थो किंवदन्ती जनश्रुतिः वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादथाह्वयः ३२५ वेदा मिलितास्त्रयी ज्ञेया तत्र 'ऋ'शब्दः, झीलिङ्गः ॥—शिक्षेल्यादि श्रुतेवेदस्याङ्गं ज्ञेयम् । शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दोविचिदिरियेप पडतो वेद उच्यते'।- ओंकारः, प्रणवः, इति २ समो॥ इतिहासः, पुरावृत्तम्, इति २ पूर्वचरितस्य महाभारतादः ॥-उदात्ताद्यास्त्रयः स्वरा उच्यन्ते । ( 'उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः' ) ॥--आन्वीक्षिकी इति १ तर्कविद्यायां गातमादिप्रणीतायाम् । दण्डनीतिः इति १ अर्थशास्त्रे बृहस्पत्यादिप्रणीते ॥ -आख्यायिका, उपलब्धार्था, इति अनुभूतार्थप्रतिपादकस्य वासवदत्तादेः ।।-यत् पञ्चलक्षणं तत् पुराणमुच्यते। ('सर्गश्च प्रतिसर्गश्च वशो मन्वन्तराणि च । वंश्यानुचरितं चेव पुगणं पञ्चलक्षणम्')।-प्रबन्धस्य वाक्यविस्तरस्य या कल्पना रचना सा कथा नाटकरामायणादेः ॥-प्रवह्निका, प्रहेलिका, इति २ यथा परैः संदिह्यते तादृशगुप्ताभिधानस्य । यथा'पानीयं पातुमिच्छामि त्वत्तः कमललोचने । यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम् ॥' [ दास्यसि दातुमिच्छसि इति व्यक्तोऽर्थः, दास्यसि दासी+असि इति गूढोऽर्थः ] इति ॥-या मन्वादिभिः प्रणीता धर्मसंहिता धर्मबोधार्थ रचिता संहिता सा स्मृतिः ॥ समाहृतिः, संग्रहः, इति २ संग्रहग्रन्थस्य ॥-या समासार्था पूरणीयार्था सा समस्या। यथा - 'शतचन्द्रं नभस्थलम्' । तत्पूरणं यथा-'दामोदरकराघातविह्वलीकृतचेतसा । दृष्टं चाणूरमल्लेन' इति ॥ किंवदन्ती, जनश्रुतिः, इति २ लोकप्रवादस्य ॥-वार्ता, प्रवृत्तिः, वृत्तान्तः, उदन्तः, इति ४ यथास्थितलोकवृत्तकथनस्य ॥-आलयः, आख्या, For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy