SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषे [५. कालवर्गः मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः २४३ पौषे तैषसहस्यों द्वौ तपा माघेऽथ फाल्गुने २४४ स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः २४५ वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् २४६ आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः २४७ स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः २४८ स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके २४९ बाहुलोजौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् २५० वसन्ते पुष्पसमयः सुरभिीष्म उष्मकः २५१ निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः २५२ स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम् २५३ षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् २५४ मार्गशीर्षः, सहाः, मार्गः, आग्रहायणिकः इति ४ मार्गशीर्षस्य ॥-पोषः, तेषः, सहस्यः, इति ३ पोषस्य ॥-तपाः, माघः, इति २ माघस्य ॥-- फाल्गुनः, तपस्यः, फाल्गुनिकः, इति ३ फाल्गुनस्य ॥-चैत्रः चेत्रिकः, मधुः, इति ३ चैत्रस्य ॥-वैशाखः, माधवः, राधः, इति ३ वैशाखस्य॥-- ज्येष्ठः, शुक्रः, इति २ ज्येष्ठस्य ॥--शुचिः, आषाढः, इति २ आषाढस्य ॥-श्रावणः, नभाः, श्रावणिकः, इति ३ श्रावणस्य । तत्र नभाः सान्तः ॥-- नभस्यः, प्रौष्ठपदः, भाद्रः, भाद्रपदः, इति ४ भाद्रपदस्य ॥-आश्विनः, इषः, आश्वयुजः, इति ३ आश्विनस्य ॥ कार्तिकः, बाहुल:, ऊर्जः, कार्तिकिकः, इति ४ कार्तिकस्य ॥-हेमन्त इत्येकः ऋतुः ।।-शिशिर इत्यपरः ऋतुः । स च पुं-नपुंसकलिङ्गः ॥-वसन्तः, पुष्पसमयः, सुरभिः, इति ३ वसन्तस्य- ग्रीष्मः, उष्मकः, निदाघः, उष्णोपगमः, उष्णः, ऊष्मागमः, तपः, इति ७ ग्रीष्मस्य । 'तप' अकारान्तः पुंसि ॥-प्रावृट, वर्षाः, इति २ वर्षोंः । तत्र 'प्रावृट्'शब्दः षान्तः स्त्रियाम् । 'वर्षा' शब्दस्तु स्त्रीलिङ्गो भूनि नित्यं बहुवचनान्त इत्यर्थः ॥-शरत् इत्येक ऋतुः, स स्त्रीलिङ्गो दकारान्तः ॥-अमी हेमन्तादयः षडपि ऋतवः । 'ऋतु'शब्दः पुंलिङ्गः । ते च हेमन्तादयो मार्ग For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy