SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वनौषधिवर्ग: ४] रत्नप्रभाव्याख्यासमेतः ४. अथ वनौषधिवर्गः 'अटव्यरण्यं विपिनं गहनं काननं वनम् । २महारण्यमरण्यानी, गृहारामास्तु निष्कुटाः ॥१॥ ४आरामः स्यादुपवनं कृत्रिमं वनमेव यत् । "अमात्यगणिकागेहोपवने वृक्षवाटिका ॥२॥ 'पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् । स्यादेतदेव प्रमदवनमन्तः पुरोचितम् ॥३॥ 'वीथ्याऽऽलिरावलिः पङ्क्तिः श्रेणी, लेखास्तु राजयः। १°वन्या वनसमूहे ११स्यादडुरोऽभिनवोद्धिदि ॥४॥ १२वृक्षो महीरुहः शाखी विटॅपी पादपस्तरुः । अनोकहः कुटः सालः पलाशी द्रु-द्रुमा-ऽगमाः ॥ ५॥ १३वानस्पत्यः फलैः पुष्पातैरपुष्पाद वनस्पतिः। १५ओषध्यःफलपाकान्ताः,१६स्यादवन्ध्यः फलेग्रहिः ॥६॥ (१) काननस्य षड् नामानि । [ वन के ६ नाम । ] (२) महारण्यस्य नामद्वयम् । [ घने वन के २ नाम ] ( ३) गृहोद्यानस्य नामद्वयम् । [ घर के बगीचा के २ नाम । ] ( ४ ) उपवनस्य नामद्वयम् [ बगीचा के २ नाम ।] (५) अमात्यगणिकागृहसमीपस्थोपवनस्यकं नाम । [ मन्त्री तथा वेश्या के घर के पास के बगीचा का नाम 'वृक्षवाटिका' ] ( ६ ) नगरोद्यानस्य नामद्वयम् । [ नगर के मध्य में स्थित राजा के बगीचा के २ नाम । ] ( ७ ) अन्तःपुरोद्यानस्य नाम । [अन्तःपुर का बगीचा 'प्रमदवन' । ] (८) पङ्क्तेः पञ्च नामानि । [ कतार या पंक्ति के ५ नाम । ] ( ९) लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि । इति हैमः । 'राजी रेखायां पङ्क्तौ च' इति हैमः । [ लेखा, रेखा, पंक्ति के नाम । ] ( १० ) वनसमूहस्यकं नाम । [ वनसमूह का नाम ] (११) अभिनवोत्पन्नस्य अङ्कुरस्यैकम् । [ अंकुर का नाम । ] (१२) वृक्षस्य त्रयोदशनामानि । [ वृक्ष के १३ नाम । ] ( १३) पुष्पागमनानन्तरसमुत्पन्नफलयुक्तवृक्षस्यक नाम। [ फूल के बाद फलवाले वृक्षों का नाम । ] ( १४ ) पुष्पं विना फलयुक्तवनस्पतेरेकं नाम । [ फूल के बिना फल वाले वृक्षों का नाम । ] ( १५ ) फलपाकानन्तरं शुष्यतां गोधूमादीनामेकं नाम । [ फलपाक के बाद ही सूख जाने वाले गेहूँ आदि का नाम 'ओषधि' । ] (१६) ऋतुकाले फलप्रदस्य वृक्षस्य नामद्वयम् । [ ऋतुकाल में फल देने वाले वृक्ष के २ नाम ।] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy