SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषः [प्रथमकाण्डे 'शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ । 'इतिहासः पुरावृत्तसुदात्ताधास्त्रयः स्वराः॥४॥ "आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः। आख्यायिकोपलब्धार्था, "पुराणं पञ्चलक्षणम् ॥५॥ 'प्रबन्धकल्पना कथा, प्रबलिका प्रहेलिका। १°स्मृतिस्तु धर्मसंहिता, "समाहृतिस्तु सङ्ग्रहः ॥६॥ १२समस्या तु समासार्था, किंवदन्ती जनश्रुतिः । ( १ ) शिक्षेत्यादिश्रुतेरङ्गम् । तद्यथा-- 'शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दोविचितिरित्येतैः षडङ्गो वेद उच्यते' ।। इति । [ वेदाङ्ग का नाम । ] ( २ ) ॐकारस्य द्वे नामनी। [ ओंकार के २ नाम । ] ( ३ ) इतिहासस्य द्वे नामनी । [ इतिहास के २ नाम । ] (४) उदात्तादिस्वराणामेकं नाम । तद्यथा-- "उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । चतुर्थः प्रचितो नोक्तो यतोऽसौ छान्दसः स्मृतः' ।। इति । [ उदात्त आदि स्वरों के नाम । ] ( ५ ) आन्वीक्षिकी तर्कविद्या। अर्थशास्त्रं राजनीतिशास्त्रं दण्डनीतिरिति । [ तर्कविद्या और दण्डनीति का नाम । ] (६) ज्ञातविषया कथा आख्यायिका कथ्यते । (सत्यकथा ।) (७) पुराणं पञ्चलक्षणास्मकम् । तद्यथा-- 'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च। वंशानुचरितञ्चैव पुराणं पञ्च लक्षणम्' ॥ इति । [पुराण का नाम । ] (८) प्रबन्धकल्पना कथेत्युच्यते । [ कहानी वा उपन्यास । ] ( ९) प्रहेलिकाया द्वे नामनी । [ पहेली के २ नाम । ] ( १०) मनुप्रभृतिरचितधर्मशास्त्रस्य नामद्वयम् । [धर्मशास्त्र के २ नाम । ] (११) सङ्ग्रहस्य द्वे नामनी । सङ्ग्रहस्य स्वरूपम्-- 'विस्तरेणोपदिष्टानामर्थानां सूत्र-भाष्ययोः । निबन्धो यः समासेन सङ्ग्रहं तं विदुर्बुधाः ।। इति । [ संग्रह के २ नाम । ] (१२) द्वे समस्याया.। [ समस्या के २ नाम । ] (१३) किंवदन्त्या द्वे नामनी । [ किंवदन्ती ( कहावत ) के २ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy