SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ अमरकोषः [द्वितीयकाण्डे 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् । भेदो दण्डः साम दानमित्युपायचतुष्टयम् ॥ २०॥ साहसं तु दमो दण्डः, "साम सान्त्वमथो समौ। "भेदोपजापावूपधा धर्माधैर्यत्परीक्षणम् ॥ २१ ॥ पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः। “विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ॥ २२ ॥ रहश्वोपांशु चालिङ्ग, रहस्यं तद्भवे त्रिषु। १°समौ विस्रम्भविश्वासौ, "भ्रषो भ्रंशो यथोचितात् ॥ २३ ॥ ५२अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् । १३युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥ न्याय्यं च त्रिषु षट्, १४सम्प्रधारणा तु समर्थनम् । १५अववादस्तु निर्देशो निदेशः शासनं च सः॥ २५ ॥ शिष्टिश्चाजा च, संस्था तु मर्यादा धारणा स्थितिः। १ आगोऽपराधो मन्तुश्च, १"समे तूहानबन्धने ॥ २६ ॥ (१) राज्ञः कोशदण्डज प्रभाव: प्रतापः कथ्यते । [ प्रताप के २ नाम । ] (२) उपायचतुष्टयस्यकैकं नाम । [१ साम, २ दाम ( दान ), ३ दण्ड, और ४ भेद । ] ( ३ ) दण्डस्य नामत्रयम् । [ दण्ड के ३ नाम । ] ( ४ ) साम्नो नामद्वयम् । [ साम के २ नाम । ] ( ५ ) भेदस्य नामद्वयम् । [ फूट-डालना के २ नाम । ] ( ६ ) अमात्यादेः परीक्षणस्यकं नाम । [उपधा । ] (७) चतुष्कर्णमन्त्रस्यकं नाम । [ गुप्त राय ( सलाह )। ] (८) एकान्तस्य नामानि । उपांशु इत्यव्ययम् । [एकान्त के ७ नाम । ] ( ९) रहसि भवं तस्यकं नाम । [रहस्य ।] ( १० ) विश्वासस्य नामद्वयम् । [ विश्वास के २ नाम । ] (११) अधःपतनस्य नामद्वयम् । [ नीचे गिरने के २ नाम । ] ( १२ ) उचितस्य पञ्च नामानि । तत्र कल्पस्यार्थान्तराणि मेदिन्याम्-'कल्पःशास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने' । [ उचित के ५ नाम । ] ( १३ ) न्यायप्राप्तस्य षड्नामानि तानि त्रिषु भवन्ति । [ ठीक, समीचीन के ६ नाम । ] ( १४ ) उचितानुचितनिर्धारणस्य नामद्वयम् । [ उचित-अनुचित निर्धारण ] ( १५ ) आज्ञायाः षड्नामानि । [ आज्ञा, आदेश के ६ नाम । ] (१६ ) न्यायोचितमर्यादायाः चत्वारि नामानि । मर्यादा के ४ नाम । ] (१७) अपराधस्य नामत्रयम् । [ अपराध के ३ नाम । ] ( १८) बन्धनस्य नामद्वयम् । [ बन्धन के २ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy