SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ॥ राजदन्तादिषु परमुपसर्जनं प्रयोक्तव्यम् । पूर्वनिपातापवादः । दन्तानां राजा, राजदन्तः । अनेन दन्तशब्दस्य पूर्वनिपातो बाध्यते । I राजदन्तः । अग्रेवरणम् । लिप्तवासितम् । नग्नमुषितम् । सिक्तसंमृष्टम् । मृ ष्टलुञ्चितम् | अवक्लिन्नपक्वम् । श्रर्पितोसम् । उप्तगाढम् । उलूखलमुसलम् । तण्डुलकिण्वम् । हृषदुपलम् । आरग्वायनबन्धकी । चित्ररथबालीकम् । श्रावन्त्यश्मकम् । शूद्रार्थ्यम् । स्नातकराजानौ । विश्वक्सेनार्जुनौ । अक्षिभ्रुवम् । दारगवम् । धर्मार्थो । अर्थधर्मौ । कामार्थी | अर्थकामौ । शब्दार्थौ ( १ ) । अशब्दौ । वैकारिमतम् । गजवाजम् । गोपालधानपूलासम् । पूलासककरण्डम् | स्थूलपूलासम् | उशीरवीजम् । सिञ्जास्थम् । चित्रास्वाती । भार्यापती । जायापती ( २ ) । जम्पती । दम्पती । पुत्रपती । पुत्रपशू । केशश्मश्रू । श्मश्रुकेशौ । शिरोबीजम् । सर्पिर्मधुनी । मधुसर्पिषी । आयन्तौ । अन्तादी गुणवृद्धी । वृद्धिगुणैौ । इति राजदन्तादयः ॥ १७ - वाऽऽहिताग्न्यादिषु ॥ अ० ।। २ । २ । ३७ ॥ श्राहिताग्न्यादिषु निष्ठान्तस्य विभाषा पूर्वनिपातो भवति पक्षे च परनिपातः । हितोऽग्निर्येन सः । ८ श्राहिताग्निः । श्रग्न्याहितः । जातपुत्रः । पुत्रजातः । जातदन्तः । जातश्मश्रुः । तैलपीतः । घृतपीतः । ऊभार्यः । गतार्थः । आकृतिगणोऽयम् ( ३ )। इत्याहिताग्न्यादयः || १८- कडाराः कर्मधारये ॥ अ० २ । २ । ३८ ॥ कर्मधारये समासे कडारादयः शब्दा विभाषा पूर्व प्रयोक्तव्याः । कडारश्वासौ जैमिनिश्च कडारजैमिनिः । जैमिनिकडारः । इत्यादि । कडारादीनां गुवाचकत्वाद्विशेषणस्य पूर्वनिपातः प्राप्तः स बाध्यते । ( १ ) धम्र्म्मादिषूभयमिति वार्त्तिकेन कृतद्वन्द्वयोर्द्वयोरपि पर्यायेण पूर्व निपातः । अत्र गणान्तेऽपि केशादयो धर्मादिषु द्रष्टव्याः || For Private and Personal Use Only ( २ ) अत्र जायाशब्दस्य जम्भावो दम्भावश्च निपात्यते । अस्मिन् गणे सर्वेषु समासेषूपसर्जनगनुपसर्जनं वा निपात्यते । सर्वेषां च यथाप्राप्तानामपवादः ॥ ( ३ ) अंत्रांकृतिगन गडुकण्ठादयोऽपि द्रष्टव्याः । कण्ठेगडुः । गडुकण्ठः । गडुशिराः । इत्यादि ||
SR No.020015
Book TitleAtha Vedanga Prakash
Original Sutra AuthorN/A
AuthorVaidik Yantralay Ajmer
PublisherVaidik Yantralay Ajmer
Publication Year1910
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy