SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ काण्डम्-५ लिङ्गादिसंग्रहवर्गः । करगण्डोष्टदोर्दन्तकण्ठकेशनखस्तनाः । अहाहान्ताः क्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः ॥१४६६ श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः। कशेरुजतुवस्तूनि हिला तुरुविरामकाः ॥ १४६७ कषणभमरोपान्ता यद्यदन्ता अमी अथ । पथनयसटोपान्ता गोत्राख्याश्चरणाहयाः ॥ १४६८ नाम्न्यकर्तरि भावे च घञजनङ्गघाथुचः । ल्युः कर्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः१४६९ द्वन्द्वेऽश्ववडवावश्ववडवा न समाहृते । कान्तः सूर्येन्दुपर्यायपूर्वोऽयःपूर्वकोऽपि च ॥ १४७० वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः । पुलो न्यूङ्खः समुद्गश्च विट पट्टधटाः खटाः ॥ १४७१ कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत् । गडुः करण्डो लगुडो वरण्डश्च किणो घुणः ॥ १४७२ दृतिसीमन्तहरितो रोमन्थोद्गीथबुद्दाः । कासमोऽव॒दः कुन्दः फेनस्तूपौ सयूपकौ ॥ १४७३ आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः । पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः ॥ १४७४ वेतालभल्लमल्लाश्च पुरोडाशोऽपि पट्टिशः । कुल्माषो रभसश्चैव सकटाहः पतद्ग्रहः ॥ १४७५ द्विहीनेऽन्यच्च ग्वारण्यपर्णश्वभ्रहिमोदकम् । शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बलम् ॥ १४७६ फलहेमशुल्बलोहसुग्वदुःख शुभाशुभम् । जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् ॥ १४७७ कोट्याः शतादिसंख्यान्या वा लक्षा नियुतं च तत् । ट्यच्कमसिसुसन्नन्तं यदनान्तमकर्तरि १४७८ त्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम् । पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः ॥१४७९ द्वन्द्वैकवाव्ययीभावौ पथः संख्याव्ययात्परः। षष्टयाश्छाया बहूनां चेद्विच्छायं संहतौ सभा ॥१४८० शालार्थापि परा राजामनुष्यार्थादगजकात् । दासीसभं नृपसभं रक्षःसभमिमा दिशः ।। १४८? उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने । कोपज्ञकोपक्रमादि कन्धोशीनरनामसु ॥ १४८२ भावे नणकचिद्भयोऽन्ये समूहे भावकर्मणोः । अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां वहः परः ॥ १४८३ क्रियाव्ययानां भेदकान्येकलेऽप्युक्थतोटके । चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम् ॥ १४८४ राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः । माणिक्यभाष्यसिन्दूरचीरचीवरपिञ्जरम् ॥ १४८५ लोकायतं हरितालं विदलस्थालबाल्हिकम् । पुनपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः ॥ १४८६ मोदकस्तण्डकष्टकः शाटकः कर्पटोऽर्बुदः । पातकोद्योगचरकतमालामलका नडः ॥ १४८७ कुष्टं मुण्डं शीधु युस्तं क्ष्वेडितं क्षेमकुट्टिमम् । संगमं शतमानार्मशम्बलाव्ययताण्डवम् ॥ १४८८ कवियं केन्दकार्पासं पागवारं युगंधरम् । यूपं प्रग्रीवपात्रीवे यूपं चमसचिक्कसौ ॥ १४८९. अर्धर्चादौ वृतादीनां पुंस्त्वाचं वैदिकं ध्रुवम् । तन्नोक्तमिह लोके ऽपि तच्चेदस्त्यस्तु शेषवत् ।। १४९० स्त्रीपुंसयोरपत्यान्ता द्विचतुःषट्पदोग्गाः । जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः ॥ १४९१ ऊर्मिर्वराटकः खातिर्वर्णको झाटलिर्मनुः । मूषा सृपाटी कर्कन्धूर्यष्टिः शाटी कटी कुटी ॥ १४९२ स्त्रीनपुंसकयोर्भावक्रिययोः व्यक्वचिञ्च वुञ् । औचित्यमौचिती मैत्री मैत्र्यं वुमागुदाहृतः ॥ १४९३ षष्टयन्तप्राक्पदाः सेनाछायाशालासुरानिशाः । स्याद्वा नृसेनं श्वनिशं गोशालमितरे च दिक् १४९४ आवन्नन्तोत्तरपदो द्विगुश्वासि नश्च लुप् । त्रिखटं च त्रिखट्टी च त्रितक्षं च त्रितक्ष्यपि ॥ १४९५ त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ । परं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् ।। १४९६ अर्थान्ताः प्राद्यलंप्राप्तापन्नपूर्वाः परोपगाः । तद्धितार्थो द्विगुः संख्यासर्वनामतदन्तकाः ॥ १४९७ १ दन्त्यादिरापे. २ 'कर्म' इति क्वचित्पाठः-इति मुकुटः. For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy