SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रिस्वरकाण्डः। २९ अम्बष्ठा स्यादम्ललोण्यां पाठायूथिकयोरपि । कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङ्गलौ।।७७० कमठः कच्छपे दैत्यविशेषे मुनिभाजने । जरठः कर्कशे जीर्णे नर्मठौ षिड्चूचुकौ ॥ ७७१ प्रकोष्ठः कूपराधस्ताद्भूपकक्षान्तरेऽपि च । हस्ते च विस्तृतकरे प्रतिष्ठा गौरवे स्थितौ ॥ ७७२ छन्दोजातौ योगसिद्धौ मकुष्ठौ धान्यमन्थरौ । लघिष्ठो भेलकेऽत्यल्पे स्याद्वरिष्ठस्तु तित्तिरौ ७७३ वरिष्ठं मरिचे ताने वरोरुतमयोरपि । वैकुण्ठो वासवे विष्णौ श्रीकण्ठः कुरुजाङ्गले ॥ ७७४ शंकरे चाथ साधिष्ठोऽत्यायें दृढतमेऽपि च । कारण्डो मधुकोशेऽसौ कारण्डवे दलाटके ।। ७७५ कूष्माण्डौ गणकर्कारू कूष्माण्ड्यावम्बिकौषधी । कोदण्डः कार्मुके देशभेदे भ्रूलतयोरपि ।। ७७६ गारुडं तु मरकते विषशास्त्रेऽथ तित्तिडः । दैत्यभेदे तित्तिडी तु कालदासे महीरुहे ॥ ७७७ तिन्तिडी चुके चिञ्चायां निर्गुण्डी सिन्दुवारकः । नीलशेफाल्यब्जकन्दः प्रचण्डः स्यात्प्रतापिनि॥ वलक्षकरवीरेऽपि प्रकाण्डः स्तम्बशस्तयोः । स्कन्धमूलान्तरे च द्रोः पिचण्डोऽवयवे पशोः||७७९ उदरे चाथ पूत्यण्डो गन्धैणे गन्धकीटके । भेरुण्डौ भीषणखगौ भेरुण्डा देवताभिदि ॥ ७८० मारण्डोऽण्डे भुजङ्गानां मार्गे गोमयमण्डले । मार्तण्डस्तरणौ कोडे वरण्डो वेदनामये ॥ ७८१ अन्तरावेदौ संघ च वैतण्डा शारिका क्षुरी । वर्तिर्वारुण्डस्तु कर्णदृग्मले सेकभाजने ॥ ७८२ गणिस्थराजे वितण्डा कच्छीशाके शिलाह्वये । करवीर्या वादभेदे शिखण्डो बर्हचूडयोः ॥ ७८३ सरण्डः स्यात्कृकलासे भूषणान्तरधूर्तयोः । अध्यूढ ईश्वरेऽध्यूढा कृतसापत्न्ययोषिति ॥ ७८४ आषाढो मलयगिरौ व्रतिदण्डे च मासि च । उपोढ ऊढे निकटेऽप्युदृढः पीवरोढयोः॥ ७८५ प्ररूढो जरठे वृद्ध प्रगाढो दृढकृच्छ्रयोः । वारूढः शबले वस्त्राञ्चलेऽग्नौ पञ्जरेरौ ॥ ७८६ विरूढोऽङ्करिते जाते विगूढो गीगुप्तयोः । समूढः पुञ्जिते सद्योजाते भुग्नेऽनुपप्लुते ॥ ७८७ 'संरूढोऽङ्कुरिते प्रौढेऽरुणोऽर्केऽनूरुपिङ्गयोः। संध्यारागे 'बुंधे कुष्टे निःशब्दाव्यक्तरागयोः ॥ ७८८ अरुणा त्रिवृति श्यामामञ्जिष्ठातिविषासु च । अभीक्ष्णं तु भृशं नित्यमीरिणं शून्य ऊषरे ॥ ७८९ १. 'अम्बठा' ग-घ. २. 'योग' ग-ध. ३. 'कृष्माण्डी त्वम्बिकौषधी' ख. ४. 'विषोद्भवे । तरण्डो बिसिनीसूत्रबद्धवस्तुनि भेलके । तित्तिडो दैत्यभेदे स्याद्यमदासेऽथ तित्तिडी । कालदोषे पादपे च तिन्तिडी चुचिञ्चयोः । द्रविडो वेधमुख्ये स्यान्नीवृदन्तरशङ्मयोः । निर्गुण्डी नीलशेफाली सिन्दुवारोऽब्जकन्दुकः । प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि । प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः । पिचण्डो जठरे प्रोक्तः पशोरवयवेऽपि च । पूत्यण्डः स्याद्गन्धमृगे सर्पमिद्गन्धकीटयोः । भेरुण्डौ' ख. ५. 'तिन्तिडीके' ग-घ. ६. 'सिन्धुवारकः' ग-घ. ७. 'तरोः' ग-घ. ८. 'मेरुण्डा' ग-घ. ९. 'मारण्डस्तु भुजङ्गाण्डे' ख. १०. 'वदनव्यथा' ख. ११. 'वेदिसंधौ' ख. १२. 'अवतनोतीति वतण्डा' इति टीका, वरण्डा' ख-ग-ध. १३. 'गणिराजद्वारपिण्ड्योर्वार्तण्डः खग उष्ट्रिणि । वितण्डा वादभेदे स्यात्कच्छीशाके शिलाह्वये । करवीर्यामपि प्रोक्तः शिखण्डो' ख. १४. 'सरति सरण्डः' इति टीका. 'शरण्डः' ग-घ. १५. 'वतिनां दण्डे मासे च मलयाचले' ख. १६. 'जठरे' ग-ध, १७. 'अररे' ख. 'अररिः कपाटम्' इति टीका. १८. 'संमूढो मूत्रिते घने । अभीक्ष्णं तु भृशे नित्येऽप्यरुणोऽनूरुपिङ्गयोः । संध्या- ख. १९. 'कुष्टभेदे' ग-घ. २०. 'व्याकुले कपिले वर्णे रक्तवर्णेऽपि वाच्यवत् । अरुणा' ख. २१. 'त्रिवृता' ख. २२. 'अरणिस्तु भवेदमिमन्ये निर्मथ्यदारुणि । इन्द्राणी तु शचीसिन्दुवारयोः करणे स्त्रियाः । ईरिणं तूषरे शून्येऽपीक्षणं दर्शने दृशि । अषणा तु कणायां स्यादूषणं मरिचे मतम् । एषणी व्रणमार्गानुसारिण्यां च तुलाभिदि । कङ्कणं करभूषायां हस्तसूत्रे च शेखरे। कत्तुणं रौहिषं फङ्गा कल्याणं हेम्नि मङ्गले । करणः शूद्यां विटपुत्रे करणं क्षेत्रगात्रयोः । गी For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy