SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 11 2: 11 अभिधानसंग्रहः । ( ७ ) श्री हेमचन्द्राचार्यविरचितः अभिधानचिन्तामणिपरिशिष्टः । Acharya Shri Kailassagarsuri Gyanmandir निर्वाणे स्याच्छीतीभावः शान्तिर्नैश्चिन्यमन्तिकः । शिष्ये छात्रो भद्रे भव्यं काम्यं सुकृतसूनृते ।। १ इत्याचार्य हेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे देवाधिदेवकाण्डः प्रथमः ॥ ३ ॥ २ ४ फलोदयो मेरुपृष्टं वासवावाससैरिकौ । दिदिविर्दीदिविर्द्युश्च दिवं च स्वर्गवाचकाः ॥ निलिम्पाः कामरूपाश्च साध्याः शोभाचिरायुषः । पूजिता ममहिताः सुवाला वायुभाः सुराः ॥ ३ द्वादशाक वसवोऽष्टौ विश्वेदेवास्त्रयोदश । षट्त्रिंशत्तुषिताश्चैव षष्टिराभास्वरा अपि ॥ पत्रिंशदधिके माहाराजिकाश्च शते उभे । रुद्रा एकादशैकोनपञ्चाशद्वायवोऽपि च ॥ चतुर्दशतु वैकुण्ठाः सुशर्माणः पुनर्दश । साध्याश्च द्वादशेत्याद्या विज्ञेया गणदेवताः || सूर्ये वाजी लोकबन्धुर्भानेमिर्भानुकेसरः । सहस्राङ्को दिवापुष्टः कालभृद्रात्रिनाशनः ॥ पपीः सदागतिः पीतुः सांवत्सररथः कपिः । दृशानः पुष्करो ब्रह्मा बहुरूपश्च कर्णसूः ॥ वेदोदयः खतिलकः प्रत्युपाण्डं सुरावृतः । लोकप्रकाशनः पीथो जगदीपोऽम्बुतस्करः || अरुणे विपुलस्कन्धो महासारथिराश्मनः । चन्द्रस्तु मास्तपोराजौ शुभांशुः श्वेतवाहनः || जर्णः सृप्रो राजराजो यजतः कृत्तिकाभवः । यक्षराडौषधीगर्भस्तपसः शयतो बुधः ॥ स्यन्दः खसिन्धुः सिन्धूत्थः श्रविष्टारमणस्तपा । आकाशचमसः पीतुः क्लेदुः परिचिक्लिदो ||१२ परिज्वा युवनो नेमिचन्दिरः स्नेहरेकभूः । भौमे व्योमोल्मुकैकाङ्गौ गीः पतिस्तु महामतिः ।। १३ प्रख्याः प्रचक्षाः वाग्वाग्ग्मी गौरो दीदिविगीरथौ । शुक्रे भृगुः शनौ पङ्गः श्रुतकर्मा महाग्रहः || १४ श्रुतश्रवोऽनुजः कालो ब्रह्मण्यश्च यमः स्थिरः । क्रूरात्मा चाथ राहौ स्यादुपराग उपप्लवः ॥ १५ केतावृर्ध्वकचो ज्योतीरथग्रहाश्रयौ भुवे | अगस्त्ये विन्ध्यकूटः स्यादक्षिणाशारतिर्मुनिः ॥ १६ सत्याग्निर्वारुणिः क्राथिस्तपनः कलसीसुतः । व्युष्टे निशालय (न्त ) गोसग निशा चक्रभेदिनी ॥ १७ निषद्वरी निशीथ्या निट् घोरा वासरकन्यका । शताक्षी राक्षसी याम्या वृताचिस्तामसी तमिः || १८ शार्वरीक्षणिनीनक्तापैशाचीवासुरा शा । दिनात्ययः प्रदोषे स्यान्ते वृत्रो रजोवलम् ॥ ११ १९ For Private and Personal Use Only ६ ७ ८ १. 'पूजिला: ' ख. २. 'वना: ' ख. ३. 'भद्राः ' ख. ४. 'यक्षराजो' ख. ५. 'स्तथा' ख. ६. ‘स्नेदुरेकभूः’ख. ७. 'गीपतिः' ख. ८. 'निशि' ख. ९. 'उमा' ख.
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy