SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । कंधग धमनिर्जीवा शिरोधिश्च शिरोधरा । सा त्रिरेखा कम्युग्रीवावटुर्वाटा कृकाटिका ॥ ५८६ कृकस्तु कंधगमध्यं कृकपाची तु वीतनौ । ग्रीवाधमन्यौ प्राग्नीले पश्चान्मन्ये कलम्बिके ॥ ५८७ गलो निगरणः कण्ठः काकलकस्तु तन्मणिः । अंसो भुजशिरः स्कन्धो जत्रु संधिरुरोंऽसगः ॥५८८ भुजो बाहुः प्रवेष्टो दोर्बाहाथ भुजकोटरः । दोर्मूलं खण्डिकः कक्षा पार्श्व स्यादेतयोरधः ॥ ५८९ कफोणिस्तु भुजामध्यं कफणि: कूपरश्च सः । अधस्तस्या मणिबन्धात्प्रकोष्टः स्यात्कलाचिका ।। ५९० प्रगण्डः कूपरासान्तः पञ्चशाखः शयःशमः । हस्तः पाणिः करस्यादौ मणिबन्धो मणिश्च सः ॥ ५९? करभोऽस्मादाकनिष्टं करशाखाङ्गुली समे । अङ्गुरिश्चाङ्गुलोऽङ्गुष्टस्तर्जनी तु प्रदेशिनी ॥ ५९२ ज्येष्टा तु मध्यमा मध्या सावित्री स्यादनामिका । कनीनिका तु कनिष्ठावहस्तो हस्तपृष्टतः ।। ५९३ कामाशो महाराज: करजो नखरो नखः । करशूकोभुजाकण्टः पुनर्भवपुनर्नवौ ॥ ५९४ प्रदेशिन्यादिभिः सार्धमङ्गुष्ठं वितते सति । प्रादेशतालगोकर्णवितस्तयो यथाक्रमम् ॥ ५९५ प्रसारिताङ्गुलौ पाणौ चपेटः प्रतलस्तलः । प्रहस्तस्तालिकस्तालः सिंहतालस्तु तौ युतौ ॥ ५९६ संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुस्तुर्मुचुट्यपि । संग्राहश्वार्धमुष्टिः स्यात्खटकः कुन्जितः पुनः ॥ ५९७ पाणिः प्रसृतः प्रसूतिस्तौ युताव अलि: पुनः । प्रसृते तु जलाधारे गण्डूषश्शुलुकश्चलुः ॥ ५९८ हस्तः प्रामाणिको मध्येमध्यमाङ्गुलिकृर्परम् । बद्धमुष्टिरसौ रनिररनिनिष्कनिष्टिकः।। ५९९ व्यामव्यायामन्यग्रोधास्तिर्यग्बाह प्रसारितौ । ऊर्वीकृतभुजापाणिनरमानं तु पौरुषम् ॥ ६०० दन्नद्वयसमात्रास्तु जान्वादेस्तत्तदुन्मिते । रीढकः पृष्टवंशः स्यात्पृष्ठं तु चरमं तनोः ।। ६०१ पूर्वभाग उपस्थोऽङ्कः क्रोड उत्सङ्ग इत्यपि । कोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् ॥ ६०२ स्तनान्तरं हृवृदयं स्तनौ कुचौ पयोधरौ । उरोजौ च चूचकं तु स्तनान्तशिखामुखाः॥ ६०३ तुन्दं तुन्दिगर्भकुक्षी पिचण्डो जठगेदरे । कालखण्डं कालखझं कालेयं कालकं यकृत् ॥ ६०४ दक्षिणे तिलकं क्लोम वामे तु रक्तफेनजः । पुष्पस: स्थादथ प्लीहा गुल्मोऽत्रं तु पुरीतति ॥ ६०५ रोमावली रोमलता नाभिः स्यात्तुन्दकृपिका । नाभेरथो मृत्रपुटं वस्तिमूत्राशयोऽपि च ॥ ६०६ मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः । श्रोणिः कलत्रं कटीरंकाञ्चीपदं ककुद्मती ॥ ६०७ नितम्बारोही स्वीकट्याः पश्चाज्जधनमश्रतः । त्रिकं वंशाधस्तत्पार्श्वकपको तु कुकुन्दरे ॥ ६०८ पतौ स्फिजौ कटिप्रोथौ वराङ्गं तु च्युतियुलि: । भगोऽपत्यपथो योनिः स्मगन्मन्दिरकृपिके ॥ ६०९ स्त्रीचिह्नमथ पुंश्चिह्न मेहनं शेपशेपसी । शिश्नं मेढ़ः कामलता लिङ्गं च द्वयमप्यदः ॥ ६१० गुह्यप्रजननोपस्था गुह्यमध्यं गुलो मणिः । सीवनी तदधःसूत्रं स्याँदण्डं पेलमण्डकः ॥ ६११ मुष्कोऽण्डकोषो वृषणोऽपानं पायुर्मुदं च्युतिः । अधोमर्म शकृहारं त्रिबलीकवुली अपि ॥ ६१२ विटपं तु महावीज्यमन्तरा मुष्कवङ्गणम । ऊरुसंधिर्वणः स्यात्सक्भ्यूरुस्तस्य पर्व तु ॥ ६१३ जानुनलकीलोऽष्टीवान्पश्चाद्भागोऽस्य मन्दिरः । कपोली खग्रिमो जङ्घा प्रसूता नलकिन्यपि ॥६१४ प्रतिजङ्घा त्वग्रजङ्घा पिण्डिका तु पिचण्डिका । गुल्फस्तु चरणग्रन्थिqटिको वुण्टको घुटः ॥ ६१५ चरणः क्रमणः पादः पदंहिश्चलनः क्रमः । पादमूलं गोहिरं स्यात्पाणिस्तु घुटयोरधः ॥ ६१६ पादाग्रं प्रपदं सिप त्वङ्गुष्टाङ्गुलिमध्यतः । कूच क्षिप्रस्योपयहिस्कन्धः कृर्चशिरः समे ॥ ६१७ ___१. कुर्परोऽपि. २. संहताल इत्यपि. ३. चलुकोऽपि. ४. यौगिकत्वादुरसिजवक्षोजादयः. ५. स्तनशब्दस्य वृ. न्तादिभिरन्वयः. ६. तेन स्मरमन्दिरं, स्मरकापका. ७. आण्डोऽपि. ८. पेलकोऽपि. ९, अभिरपि. For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy