SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org हेमचन्द्रः । अयं श्रेताम्बर जैनाचार्य श्री हेमचन्द्रः कदा कतमं भूमिमण्डलं मण्डयामासेति जिज्ञासायामनेकग्रन्थपर्यालोचने प्रवृत्ते Dr. P. Peterson महाशयानां Fifth Report पुस्तके - 'तत्पट्टपूर्वाद्विसहस्ररश्मिः सोमप्रभाचार्य इति प्रसिद्धः । श्रीमसुरे कुमारपालदेवस्य चेदं न्यगदच्चरित्रम् ॥' इति सोमप्रभाचार्यविरचितहेमकुमारचरित्रकाव्यतः, Acharya Shri Kailassagarsuri Gyanmandir 'स्तुमस्त्रिसंध्यं प्रभुहेमसुरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुर्व्यधित प्रबोधम् ॥ सत्त्वानुकम्पा न महीभुजां स्यादित्येष क्लृप्तो वितथः प्रवादः । जिनेन्द्रधर्मं प्रतिपद्य येन श्लाघ्यः स केषां न कुमारपालः ॥ इति सोमप्रभकथिते कुमारनृपहेमचन्द्रसंवादे | जिनधर्मप्रतिबोधे प्रस्तावः पञ्चमः प्रोक्तः ॥ इति सोमप्रभविरचितकुमारपालमतिबोधकाव्यतः. 'शिष्यो जम्बुमहामुनेः प्रभव इत्यासीदमुष्यापि च श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः । संभूतो मुनिभद्रवाहुरिवंद्वौ तस्य शिष्योत्तमौ संभूतस्य च पादपद्ममधुलिट्थी स्थूलभद्राह्वयः ॥ वंशक्रमागत चतुर्दशपूर्वरत्नकोशस्य तस्य दशपूर्वधरो महर्षिः । नाम्ना महागिरिरिति स्थिरतागिरीन्द्रो ज्येष्ठान्तिषत्समजनिष्ट विशिष्टलब्धिः || शिष्योऽन्यो दशपूर्वभृन्मुनिवृषो नाम्ना सुहस्तीत्यरुट् यत्पादाम्बुजसे वनात्समुदिते राज्ये प्रबोधर्धिकाः । चक्रे संप्रतिपार्थिवः प्रतिपुरग्रामाकरं भारतेऽस्मिन्नर्थे जिनचैत्यमण्डितमिलापृष्ठं समन्तादपि ॥ अजनि स्थित- सुप्रतिबुद्ध इत्यभिधयार्य सुहस्तिमहामुनेः । शमधनो दशपूर्वधरान्तिषद्भवमहातरुभञ्जनकुञ्जरः ॥ महर्षिसंसेवितपादसंनिधेः प्रचारभागालवणोदसागरम् । महान्गणः कोटिक इत्यभूत्ततो गङ्गाप्रवाहो हिमवद्गिरेरिव ॥ तस्मिन्गणे कतिपयेष्वपि यातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी । उद्दामतुम्बवनपत्तनवज्रशाखावज्रं महामुनिरजायत वज्रमूरिः ॥ दुर्भिक्षे समुपस्थिते प्रलयवद्धीमत्वभाज्यन्यदा भीतं न्यस्य महर्षिसंघमभितो विद्यावदातः पटे । योऽभ्युद्धृत्य कराम्बुजेन नभसा पुर्यामनैषीन्महा पुर्या मञ्जु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ।। तस्माद्वज्राभिधा शाखाभूत्कोटिकगणद्रुमे । उच्च नागरिकामुख्यशाखात्रितयगोचरा ।। तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायतो गच्छश्चन्द्र इत्याख्ययाभवत् ॥ १. अस्य जिनधर्मप्रतिबोधकाव्यस्य निर्माणसमयस्तु - ' शशिजलधिसूर्यवर्षे शुचिमासे र विदिने सिताष्टम्याम् | जिनधर्मप्रतिबोधः कुप्तोऽयं गुर्जरेन्द्रपुरे ॥' इति वदता ग्रन्थकचैव १२४१ (A, D. 1184 ) विक्रमसंवत्सरात्मक उक्तः २. 'इति च' इति भवेत्. ३. सुस्थितः सुप्रतिबद्ध:, इति मुनिद्रयम्. For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy