SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीः ॥ अभिधानसंग्रहः। श्रीमदाचार्यहेमचन्द्रविरचितः अनेकार्थसंग्रहः। ध्यात्वार्हतः कृतैकार्थशब्दसंदोहसंग्रहः । एकस्वरादिषट्काण्ड्या कुर्वेऽनेकार्थसंग्रहम् ॥ १ अकारादिक्रमेणादावत्र कादिक्रमोऽन्ततः । उद्देश्यवचनं पूर्व पश्चादर्थप्रकाशनम् ॥ यत्रैक एव रूढोऽर्थो यौगिकस्तत्र देर्शितः । अनेकस्मिंस्तु रूढेऽर्थे यौगिकं प्रोच्यते न वा ॥ ३ पदानां भङ्गतो योऽस्मिन्ननेकार्थः प्रकाशते । प्रदर्शनीयो नैवासौ तस्यानन्त्यप्रसङ्गतः ॥ ४ को ब्रह्मण्यात्मनि रवौ मयूरेऽनौ यमेऽनिले।। के शीर्षेऽप्सु सुखे) खं स्वः संविदि व्योमनीन्द्रिये॥५ शून्ये बिन्दौ सुखे खस्तु सूर्ये गौरुदके दृशि । स्वर्गे दिशि पशौ रश्मौ वने भूमाविषौ गिरि ॥६ त्वग्वल्कले चर्मणि च न्यग्निम्ने नीचकाययोः। रंक्शोभाकिरणेच्छासु, वाग्भारत्यां वचस्यपि॥ ७ जूराकाशसरस्वत्यां पिशाच्यां जवनेऽपि च।। ज्ञः स्याद्विचक्षणे पद्मासने चीन्द्रमसायनौ ॥ ८ सद्विद्यमाने सये च प्रशस्तार्चितसाधुषु । भः शुक्रे भमुडौ भांशी भूस्तु भूमिरिव क्षितौ ॥ ९ स्थाने च मः पुनः शंभौ मा लक्ष्म्यां वारणेऽव्ययम् । किं क्षेपनिन्दयोः प्रश्न वितर्के ज्या तु मातरि १० मामौर्योझुर्दिने वह्नौ द्यौस्तु स्वर्गे विहायसि । रस्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने ।। ११ ट्रैः कामरूपिणि स्वर्णे धूर्यानमुखभारयोः।। पूः शरीरे चै नगरे श्रीलक्ष्म्यां सरलमे ॥ १२ वेषोपकरणे वेषरचनायां मतौ गिरि । शोभात्रिवर्गसंपत्त्योः स्वः स्रवे निर्झरेऽपि च ॥ १३ वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम् । द्यौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने१४ दृग्दृष्टौ दर्शनेऽध्यक्षे विट्प्रवेशे नृवैश्ययोः । तृट् तृष्णावत्तर्षवच्च भवेल्लिप्सापिपासयोः ॥ १५ त्विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि | भाः प्रभावे मयूखे चःमास्तु मासे निशाकरे१६ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रह एकस्वरकाण्डः प्रथमः ॥ १॥ अर्को दुभेदे स्फटिके ताने सर्ये विौजसि। अकं दुःखाघयोरङ्को भूषारूपकलक्ष्मसु ॥ १७ चित्राजौ नाटकाद्यशे स्थाने नोडेऽन्तिकागसोः।। एकोऽन्यः केवलः श्रेष्ठः संख्या कल्कोऽघविष्ठयोः ___१. 'नत्वा हरिम्' ख. २. 'क्रमोऽत्रादौ ककारादि' ख. ३. 'क्रमस्ततः' ग. ४. 'उद्देश' ख. ५. 'दर्श्यते' ख; 'दृश्यते' ग, ६. 'प्रकाश्यते' ख-ग. ७. 'नन्त' ख. ८. 'शीर्षऽप्सु च' ख. ९. 'क्' ख. १०. 'चान्द्रमसायने' ख-ग. ११. इतः परम् ‘ता जटायां च राक्षस्यां पतने दुर्भगस्त्रियाम्' इति .ख-पुस्तकेऽधिकः पाठः. १२. 'द्रुः' ग. १३. 'नगरे च' क; 'पत्तने च' ग. १४. 'द्रवे' क. १५. 'वेषे' ग. १६. 'च वौपम्ये' ख. १७. 'द्रष्टरि दर्शनेऽध्यक्षे' ग. १८. 'चित्रादौ' ख, For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy