SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । उद्भिदः खञ्जनाश्वोपपादुका देवनारकाः । रसयोनय इत्यष्टावुद्भिदुद्भिज्जमुद्भिदम् ॥ १३५७ इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां तिर्यकाण्डश्चतुर्थः ॥ ४ ॥ स्युर्नारकास्तु परेतप्रेतयात्यातिवाहिकाः । आजूविष्टिर्यातना तु कारणा तीव्रदेवना ॥ नरकस्तु नारकः स्यान्निरयो दुर्गतिश्च सः । घनोदधिधनवाततनुवातनभःस्थिताः ॥ १३५९ रत्नशर्करावालुकापङ्कधूमतमःप्रभाः। महातमःप्रभा चेत्यधोधो नरकभूमयः ॥ १३६० क्रमात्पृथुतराः सप्ताथ त्रिंशत्पञ्चविंशतिः । पञ्च पञ्चदश त्रीणि लक्षाण्यूनं च पञ्चभिः ॥ १३६१ लक्षं पञ्चैव नरकावासाः सीमन्तकादयः । एतासु स्युः क्रमेणाथ पातालं वडवामुखम् ॥ १३६२ बलिवेश्माधोभुवनं नागलोको रसातलम् । रन्धं विलं नियंथनं कुहरं शुषिरं शुषिः ॥ १३६३ छिद्रं रोपं विवरं च निम्नं रोकं वपान्तरम् । गर्तश्वभ्रावटागाधदरास्तु विवरे भुवः ॥ १३६४ __इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां नरककाण्डः पञ्चमः ॥ ५ ॥ स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत् । जीवाजीवाधारक्षेत्रं लोकोऽलोकस्ततोऽन्यथा ॥१३६५ क्षेत्रज्ञ आत्मा पुरुषश्चेतनः स पुनर्भवी । जीवः स्यादसुमान्सत्वं देहेभृज्जन्युजन्तवः ॥ १३६६ उत्पत्तिर्जन्मजनुषी जननं जनिरुद्भवः । जीवेऽसुजीवितप्राणा जीवातुर्जीवनौषधम् ॥ १३६७ श्वासस्तु श्वसितं सोऽन्तर्मुख उच्छास आहरः । आनो बहिर्मुखस्तु स्यान्निःश्वासः पान एतनः॥१३६८ आयुर्जीवितकालोऽन्तःकरणं मानसं मनः । हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले ॥ १३६९ मनसः कर्म संकल्पः स्यादथो,शर्मनिर्वृतिः । सातं सौख्यं सुखं दुःखं खसुखं वेदना व्यथा।।१३७० पीडा बाधातिराभीलं कृच्छं कष्टं प्रसूतिजम् । आमनस्यं प्रगाढं स्यादाधिः स्यान्मानसी व्यथा॥१३७१ सपत्राकृतिनिष्पत्राकृती त्वत्यन्तपीडने । भुज्जाठराग्निजा पीडा व्यापादो द्रोहचिन्तनम् ॥ १३७२ उपज्ञा ज्ञानमाद्यं स्याचर्चा संख्या विचारणा । वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥१३७३ निर्णयो निश्चयोऽन्तः संप्रधारणा समर्थनम् । अविद्याहंमत्यज्ञाने भ्रान्तिर्मिथ्यामतिर्धमः ॥ १३७४ संदेहद्वापरारेका विचिकित्सा तु संशयः । परभागो गुणोत्कर्षों दोषे त्वादीनवाश्रवौ ॥ १३७५ खाद्रूपं लक्षणं भावश्चात्मप्रकृतिरीतयः । सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत् ॥ १३७६ शीलं सतत्त्वं संसिद्धिरवस्था त दशा स्थितिः । स्नेहः प्रीतिः प्रेम हार्दै दाक्षिण्यं त्वनुकूलता॥१३७७ विप्रेतिसारोऽनुशयः पश्चात्तापोऽनुतापश्च । अवधानसमाधानप्रणिधानानि तु समाधौ स्युः ॥ १३७८ धर्मः पुण्यं वृषः श्रेयः सुकृते नियतौ विधिः । दैवं भाग्यं भागधेयं दिष्टं चायस्तु तच्छुभम् ॥१३७९ अलक्ष्मीनितिः कालकर्णिका स्यादथाशुभम् । दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः । अंहः कल्कमधं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ त्रिवर्गा धर्मकामार्थाश्चतुर्वर्गः समोक्षकाः । बलतूर्याश्चतुर्भद्रं प्रमादोऽनवधानता ॥ १३८२ छन्दोऽभिप्राय आकृतं मतभावाशया अपि । हृषीकमक्षं करणं स्रोतः खं विषयीन्द्रियम् ॥ १३८३ बुद्धीन्द्रियं स्पर्शनादि पाण्यादि तु क्रियेन्द्रियम् । स्पर्शादयस्त्विन्द्रियार्थी विषया गोचरा अपि ॥१३८४ १. यौगिकत्वात्-नारकिक-नैरयिक-नारकीयादयः. २. प्रभाशब्दः प्रत्येकं रतादिभिरन्वयः. ३. दन्त्यादिरित्येके. ४. जीवोऽपि. ५. यौगिकत्वात्-देहभाक् शरीरीत्यादयः ६. अदन्तोऽपि. ७. जीवातुरपि. ८. अनिन्द्रियमपि. ९. विकल्पोऽपि. १०. शर्ममपि. ११. स्वशब्दो रूपादिभिरन्वेति. १२. विप्रतीसारोऽपि. ११. अर्था अपि. For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy