________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
अभिधानसंग्रहः-६.अभिधानचिन्तामणिः । धपो वृक्षात्कृतिमाच तुरुष्कः सिल्हपिण्डकौ । पायसस्तु वृक्षधूपः श्रीवासः सरलद्रवः ॥ ६४८ स्थानात्स्थानान्तरं गच्छन्धूपो गन्धपिशाचिका । स्थासकस्तु हस्तबिम्बमलंकारस्तु भूषणम् ॥६४९ परिष्काराभरणे च चूडामणिः शिरोमणिः । नायकस्तरलो हारान्तर्मणिमुकुटं पुनः ॥ ६५० मौलिः किरीटकोटीरमुष्णीषं पुष्पदाम तु । मूनि माल्यं माला स्रक्स्वगर्भकः केशमध्यगम् ॥ ६५१ प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं लैंलामकम् । तिर्यग्वक्षसि वैकक्षं प्रालम्बमृजुलम्बि यत् ॥ ६५२ संदर्भो रचना गुम्फः सन्थनं ग्रन्थनं समाः। तिलके तमालपत्रचित्रपुण्ड्रविशेषकाः ॥ ६५३ आपीडशेखरोत्तंसाः वतंसाः शिरसः सजि । उत्तरौ कर्णपूरेऽपि पत्रलेखा तु पत्रतः॥ ६५४ भङ्गिवल्लीलताङ्गुल्यः पत्रपाश्या ललाटिका । वालपाश्या पारितथ्याकर्णिका कर्णभूषणम् ॥ ६५५ ताडङ्कस्तु ताडपत्रं कुण्डलं कर्णवेष्टकः । उक्षिप्तिका तु कर्णान्दुर्खालीका कर्णपृष्ठगा॥ ६५६ प्रैवेयकं कण्ठभूषा लम्बमाना ललम्बिका । प्रालम्बिका कृता हेनोरःसूत्रिका तु मौक्तिकैः ॥ ६५७ हारो मुक्तातःप्रालम्बस्रकलापावलीलता । देवच्छन्दः शतं साष्टं विन्द्रच्छन्दःसहस्रकम् ॥ ६५८ तद(विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् । अर्ध रश्मिकलापोऽस्य द्वादश वर्धमाणवः ॥ ६५९ द्विादशार्धगुच्छः स्यात्पश्च हारफलं लताः । अर्धहारश्चतुःषष्टिर्गुच्छमाणवमन्दराः ॥ ६६० अपि गोस्तनगोपुच्छावर्धमधु यथोत्तरम् । इति हारायष्टिभेदादेकावल्येकयष्टिका ॥ कण्ठिकाप्यथ नक्षत्रमाला तत्संख्यमौक्तिकैः ।। केयूरमङ्गदं बाहुभूषाथ करभूषणम् ॥ ६६२ कटको वलयं पारिहार्यावापौ तु कङ्कणम्।। हस्तसूत्रं प्रतिसर ऊर्मिका त्वङ्गुलीयकम् ॥ ६६३ साक्षराङ्गलिमुद्रा सा कटिसूत्रं तु मेखला । कलापो रशना सा रसनं काञ्ची च सप्तकी॥ ६६४ सा शृङ्खलं पुंस्कटीस्था किंकिणी क्षुद्रघण्टिका।। नूपुरं तु तुलाकोटिः पादतः कटकाङ्गदे ॥ ६६५ मञ्जीरं हंसकं शिञ्जिन्यंशुकं वस्त्रमम्बरम् । सिचयो वसनं चीराच्छादौ सिक्चेलवाससी ॥ ६६६ पटः प्रोतोऽञ्चलोऽस्यान्तो वर्तिर्वस्तिश्च तद्दशाः । पत्रोण धौतकौशेयमुष्णीषो मूर्धवेष्टनम् ॥ ६६७ तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोयुगम् । त्वक्फलकृमिरोमभ्यः संभवत्वाच्चतुर्विधम् ॥ क्षौमकार्पासकौशेयराङ्कवादिविभेदतः । क्षौमं दुकूलं दुगूलं स्यात्कार्पासं तु बादरम् ॥ ६६९ कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् । कम्बलः पुनरुर्णायुराविकौरभ्ररल्लकाः ॥ नवं वासोऽनाहतं स्यात्तत्रकं निष्प्रवाणि च । प्रच्छादनं प्रावरणं संव्यानं चोत्तरीयकम् ॥ ६७१ वैकक्षे प्रावारोत्तरासङ्गौ बृहतिकापि च । वराशिः स्थूलशाटः स्यात्परिधानं त्वधोंशुकम् ॥ ६७२ अन्तरीयं निवसनमुपसंव्यानमित्यपि । तद्ग्रन्थिरुच्चयो नीवीवरख्योरुकांशुकम् ॥ चण्डातकं चलनकं चलनी वितरस्त्रियाः । चोलः कञ्चलिका कूर्पासकोङ्गिका च कचुके ॥ ६७४ शाटी चोट्यथ नीशारो हिमवातापहांशुके । कच्छा कच्छाटिका कक्षा परिधानापराञ्चले ॥ ६७५ कक्षापटस्तु कौपीनं समौ नक्तककर्पटौ । निचोल: प्रच्छदपटो निचुलश्चोत्तरच्छदे ॥ ६७६ उत्सवेषु सुहृद्भिर्यद्वलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ॥ ६७७ तत्तु स्यादाप्रपदीनं व्याप्नोस्याप्रपदं हि यत् । चीवरं भिक्षुसंघाटी जीर्णवस्त्रं पटचरम् ॥ ६७८
१. तेन वृक्षधूपः, कृत्रिमधूपः. २. यावनोऽपि. ३. चूडारत्नशिरोरत्ने अपि. ४. ललाम नान्तमदन्तं च. ५. चित्रकमपि. ६. उत्तंसावतंसौ. ७. तेनत्पत्रभङ्गिः, पत्रवलिः, पत्राङ्गुलिः; एवं पत्रवल्लरी-पत्रमञ्जरीत्यादयोऽपि. ८. मुक्ताशब्दात्परं प्रालम्बादिलतान्ताः. ९. परिहार्यमपि. १०. कङ्कणीत्येके. ११. पादकटकम्, पादाङ्गदम.
६७०
For Private and Personal Use Only