SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ मर्त्यकाण्डः । ३७२ ३७३ ३७४ ३७५ ३७६ ३८१ ३८२ व्यापादनं विशरणं प्रमयः प्रमापणं निमन्धनं प्रमथनं कदनं निबर्हणम् । निसूदनं विशसनं क्षणनं परासनं प्रोज्जासनं प्रशमनं प्रनिघानं वधः ॥ प्रवासनोद्रासनघातनिर्वासनानि संज्ञप्तिनिशुम्भहिंसाः । निर्वापणालम्भनिसूदनानि निर्यातनोन्मन्थसमापनानि || अपासनं वर्जनमारपिञ्जा निष्कारणाक्राथविशारणानि । स्युः कर्तने कल्पनवर्धने च च्छेदश्च घातोद्यत आततापी० ॥ सशीर्षच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति । प्रमीत उपसंपन्नः परेतप्रेतसंस्थिताः ॥ नाम लेख्ययशः शेषो व्यापन्नोऽपगतो मृतः । परास्तद दानं तदर्थमूर्ध्वदेहिकम् ॥ मृतस्नानमपस्नानं । निवापः पितृतर्पणम् । चितिचित्याचितास्तुल्या ऋजुस्तु प्राञ्जलोऽञ्जसः ॥ दक्षिणे सरलोदारौ। शैठस्तु निकृतोऽनृजुः । क्रूरे नृशंसनिस्त्रिंशपापा धूर्तस्तु वञ्चकः ॥ व्यंसकः कुहको दाण्डाजिनिको मायिजालिकौ । माया तु शठता शाठ्यं कुस्मृतिर्निष्कृतिश्च सा ।। २७७ कपटं कैतवं दम्भः कूटं छद्मोर्पेधिश्छलम् । व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् । व्यलीकमतिसाधनं साधौ सभ्यार्यसज्जनाः ॥ ३७९ दोषैकदृक्पुरोभागी कर्णेजपस्तु दुर्जनः । पिशुनः सूचको नीचो द्विजिहो मत्सरी खलः ।। ३८० व्यसनार्तस्तूप रक्तश्चोरैस्तु प्रतिरोधकः । । दस्युः पीटवर : स्तेनस्तस्कर: पारिपन्थिकः ॥ परिमोषिपरास्कन्धैकागारिकमलिम्लुचाः । यः पश्यतो हरेदर्थं स चौरः पश्यतोहरः ५ ॥ चौर्य तु चौरिका तैलोत्रं त्वपहृतं धनम् । यद्भविष्यो दैवपरोऽथालस्यः शीतकोऽलसः ॥ ३८३ मन्दस्तुन्दपरिमृजोऽनुष्णो'दक्षस्तु पेशलः । पटूष्णोष्णकसूत्थानचतुराश्चाथ तत्परः ॥ आसक्तः प्रवणः प्रह्वः प्रसितश्च परायणः । दातोदारः स्थूललक्षो दानशौण्डो बहुप्रदे ॥ ॥ दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने । विहापितं वितरणं स्पर्शनं प्रतिपादनम् ॥ विश्राणनं निर्वपणमपवर्जनमंहतिः | अर्थव्ययज्ञः सुकलो याचकस्तु वनीपकः || मार्गणोऽर्थी याचनकस्तर्कुकोऽथार्थनैषणा | अर्दना प्रणयो याच्या याचनाध्येषणा सनिः । ॥ २८८ उत्पतिष्णु स्तूत्पतितालंकरिष्णुश्च मण्डनः । भविष्णुर्भविता भूष्णुः समौ वर्तिष्णुवर्तनौ ॥ ३८९ विसृत्व विसृमरः प्रसारी च विसारिणी । लज्जाशीलोऽपत्रपिष्णुः सहिष्णुः क्षमिता क्षमी ३९० तितिक्षुः सहनः क्षन्ता तितिक्षा सहनं क्षमा । ईर्ष्यालुः कुहनोक्षान्तिरीर्ष्या क्रोधी तु रोषणः ॥ ३९१ अमर्षणः क्रोधेनश्च चण्डस्त्वत्यन्तकोपनः । । बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः ॥ ३९२ बुभुक्षायामशनाया जिघत्सा रोचको रुचिः । पिपासुस्तृषितस्तृष्णक्तृष्णा तर्षोऽपलासिका ॥ ३९३ पिपासा तृषोदन्या धीतिः पानेऽथ शोषणम् || रसादानं भक्षकस्तु घस्मरोऽझर अंशिता ॥ ३९४ भक्तमन्नं कूरमन्धो भित्सा दीदिविरोदनः । अशनं जीवनकं च याजो वाजः प्रसादनम् ॥ ३९५ freeटा दग्धिका सर्वरसाम्यं मण्डमत्र तु । दधिजे मस्तु भक्तोत्थे निःस्रावाचाममासराः || ३९६ श्राणाविलेपी तरला यवागूरुणिकापि च । सूपः स्यात्प्रहितं सूदो व्यञ्जनं तु घृतादिकम् || ३९७ तुल्यौ तिलान्ने कृसरत्रिसरावथ पिष्टकः । पूपोऽपूपः । पूलिका तु पोलिकापौलिपूपिकाः ॥ २२३९८ ३८४ ३८५ ३८६ ३८७ For Private and Personal Use Only १९ ३७० ३७१ १. 'शेष' शब्दो नामादिभिः प्रत्येकमन्येति २. और्ध्वदेहिकमपि ३. शण्ठः. ४. उपधापि ५. चौरोऽपि. ६. पटचोरोऽपि. ७. स्तैन्यमपि ८. क्षान्तिरित्यपि. ९. कोपनोऽपि १०. आशिरोऽपि ११. विलेप्यापि.
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy