SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ देवकाण्डः । १३ द्वादशाक्षो महातेजाः कुमारः षण्मुखो गुहः । विशाखः शक्तिभृत्कौञ्चतारकांरिः शराग्निर्भूः ॥ २०९ भृङ्गी भृङ्गिरिटिर्भृङ्गिरीटिर्नाड्यस्थिविग्रहः । कुष्माण्डके केलिकिलो नन्दीशे तण्डुनन्दनौ || २१० द्रुहिणो विरिञ्चिद्रुघणो विरिञ्चः परमेष्ठयजोऽष्टश्रवणः स्वयंभूः । कमनः कविः सात्त्विकवेदगर्भो स्थविरः शतानन्दपितामहौ कः ॥ धाता विधाता विधवेधसौ ध्रुवः पुराणगो हंसगविश्वरेतसौ । प्रजापतिर्ब्रह्मचतुर्मुखौ भवान्तकृज्जगत्कैर्तृसरोरुहासनी ॥ २११ २१२ शंभुः शतधृतिः स्रष्टा सुरज्येष्टो विरिञ्चनः । हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ ५६२१३ विष्णुजिष्णुजनार्दनौ हरिषीकेशाच्युताः केशवो दाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुज | विष्वक्सेननरायणौ जलशयो नारायणः श्रीपतिदैत्यारिच पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ गोविन्दषडिन्दुमुकुन्दकृष्णा वैकुण्ठपद्येशयपद्मनाभाः । वृषाकपिर्माधववासुदेव विश्वंभरः श्रीधर विश्वरूपौ || दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः । त्रिविक्रमो जह्रुचतुर्भुजौ पुनर्वसुः शतावर्तग़दाग्रजौ स्वभूः ॥ मुञ्जकेशिवनमालिपुण्डरीकाक्षवभ्रुशशविन्दुवेधसः । पृश्निशृङ्गधरणीधरात्मभूः पाण्डवायन सुवर्णविन्दवः ॥ For Private and Personal Use Only २१४ २१५ २१६ २१७ २१८ २१९ २२० श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः । सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशभूत् । मधुधेनुकचाणूरपूतनायमलार्जुनाः ॥ कालनेमिहयग्रीवशकटारिष्टकैटभाः । कंसः केशिमुरौ साल्वमैन्दद्विविदराहवः ॥ हिरण्यकशिपुर्वाणः कालियो नरको वलिः । शिशुपालश्चास्य वैध्या वैनतेयस्तु वाहनम् || २२१ शङ्खोऽस्य पाञ्चजन्योऽङ्कः श्रीवत्सो सिस्तु नन्दकः । गदा कौमोदकी चापं शार्ङ्ग चक्रं सुदर्शनः ॥ २२२ मणिः स्यमन्तको हस्ते भुजमध्ये तु कौस्तुभः । वसुदेवो भूकश्यपो दुन्दुरानकदुन्दुभिः ॥ ॥ २२३ रामो हली मुसलिसात्त्वतकामपालाः संकर्षणः प्रियमधुर्बल रौहिणेयौ । रुक्मिप्रलम्बयमुनार्भिदैनन्तताललक्ष्मैककुण्डलसितासितरेवतीशाः || २२४ " १. अरिपदं क्रौञ्चेनाप्यन्वेति; यौगिकत्वात् क्रौञ्चदारणः, तारकान्तकः, इत्यादयः २. भूपदं शरेणाप्यन्वेति; यौगिकत्वात् शरजन्मा, अग्निजन्मा, इत्यादयः ३. यौगिकत्वात् विश्वसृट् इत्यादयः ४. भूपदं नाभिनाप्यन्वेति; यौगिकत्वात् नाभिजन्मा, कमलयोनिः, आत्मयोनिः इत्यादयः. ५. यौगिकत्वात् वासवावरजः, इत्यादयः. ६. जलेशयोऽपि. ७. यौगिकत्वात् लक्ष्मीनाथः, इत्यादय: ८. पुरुषपदं पुराणेनाप्यन्वेति ९. यौगिकत्वात् गरुडाङ्कः, इत्यादयः. १०. यौगिकत्वात् महीधरादयः. ११. 'भृत् 'पदं गदादिभिरन्वेति; यौगिकत्वात् गदाधरः, शाङ्ख, चक्रपाणिः, श्रीवत्साङ्कः, शङ्खपाणिः, इत्यादयः १२. मध्वादयो विष्णोर्वध्याः तेन मधुमथनः, धेनुकध्वंसी, चाणूरसूदनः, पूतनादूषणः, यमलार्जुनभञ्जनः कालनेमिहरः, हयग्रीवरिपुः शकटारिः, अरिष्टहा, कैटभारिः, कंसजित् केशिहा, मुरारिः, साल्वारिः, मेन्दमर्दनः, द्विविदारिः, राहुमूर्धहरः, हिरण्यकशिपुदारणः, बाणजित्, कालियदमनः, नरकारिः, बलिबन्धनः, शिशुपालनिषूदनः, इत्यादयः. १३. भित्पदं रुक्मिप्रभृतिनान्वेति ; यौगिकत्वात् रुक्मिवारणः, प्रलम्बघ्नः, कालिन्दीकर्षणः, इत्यादयः.
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy