SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-१० लिङ्गानुशासनम् । प्रकृतेलिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित् । प्रकृतिहरीतक्यादिर्न लिङ्गमतिवर्तते ॥ १३५ वचनं तु खलतिकादिर्बर्थात्येऽति पूर्वपदभूता। स्त्रीपुनपुंसकानां सह वचने स्यात्परं लिङ्गम् ॥ १३६ नान्ता संख्या डतिर्युष्मदस्मञ्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं चेत्यसंख्यं च तद्बहुलम् ॥ १३७ निःशेषनामलिङ्गानुशासनान्यभिसमीक्ष्य संक्षेपात् । आचार्यहेमचन्द्रः समभदनुशासनानि लिङ्गानाम् ॥ १३८ इत्याचार्यश्रीहेमचन्द्रविरचितं लिङ्गानुशासनं समाप्तम् ॥ द्रव्योपाधिः-दण्डी दण्डिनी दण्डि । क्रियोपाधिः-पाचकः पाचिका पाचकम्। इत्यादि । अस्त्रीति किम् । धवनाम्नो योगात्तद्भार्यायामध्यारोपेऽप्याश्रयलिङ्गतैव प्रष्ठस्य भार्या स एवायमित्यभेदोपचारेऽपि प्रष्ठी । एवं वरुणानी इन्द्रानी इत्यादयः. १. यथा-द्रखा कुटी कुटीरः. २. हरीतक्याः फलानि हरीतक्यः. ३. खलतिकस्यादूरभवानि वनानि खलतिकं वनानि. ४. बह्वर्था पूर्वपदभूता प्रकृतिर्वचनं नात्येति । यथा-पञ्चालाः कुरवः. ५. स्त्रीपुंसयोः पुंलिङ्गं यथा-स च शाटी च तौ । स्त्रीनपुंसकयोर्नपुंसकम् । पुनपुंसकयोर्नपुंसकम् । स्त्रीपुनपुंसकानां नपुंसकम् ।। For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy