SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-१० लिङ्गानुशासनम् । मन्दाक्षवीक्षमथ सक्थि शैयातु यातु स्वाद्वाशु तुम्बुरु कशेरु शलालु चालु । संयत्ककुन्महदहानि पृषत्पुरीतत्पर्वाणि रोम च भसञ्च जगल्ललाम ॥ ७४ . इति नपुंसकलिङ्गाधिकारः । पुंस्त्रीलिङ्गचतुर्दशेऽङ्के शङ्कुर्निरये च दुर्गतिः । दोर्मूले कक्ष आकरे गो भूरुहि बाणपिप्पलौ ॥७५ नाभिः प्राण्यङ्गके, प्रधिर्नेमौ, कचन बलिहे कुटः । श्रोण्यौषध्योः कटो, भ्रमो मोहे, पिण्डो वृन्दगोलयोः ॥ भकनीनिकयोस्तारो भेऽश्लेषहस्तश्रवणाः । कणः स्फुलिङ्गे लेशे च वराटो रज्जुशस्त्रयोः ॥ कुम्भः कलशौ तरणिः समुद्रार्कीशुयष्टिषु । भागधेयो राजदेये मेरुजम्ब्वां सुदर्शनः ॥ करेणुर्गजहस्तिन्योरल्याख्यापत्यतद्धितः । लाजवस्त्रदशौ भूम्नीहाद्याः प्रत्ययभेदतः ॥ शुण्डिकचर्मप्रसेवको सल्लकमल्लकवृश्चिका अपि । शल्यकधुटिको पिपीलिकश्चुलुकहुडुकतुरुष्कतिन्दुकाः॥ शुङ्गोऽथ लैंञ्च जसाटसटाः सृपाटः कीटः किटस्फटघटा वरटः किलाटः। चोटश्चपेटफटशुण्डगुडाः सशोणीः स्युर्वारिपर्णफणगतरथाजमोदाः ॥ विधकूपर्कलम्बजित्योः सहचरमुद्गरनालिकेरहाराः । बहुकरकृसरौ कुठारशारौ वल्लरशफरमसूरकीलरालाः ॥ पटोलः कम्बलो भल्लो दंशो गैण्डूषवेतसौ । लालसो रभसो वर्तिवितस्तिकुटयछुटिः ॥ ८३ ऊर्मिशम्यौ रत्न्यरत्नी अवीचिलव्यण्याणिश्रेणयः श्रोण्यरण्यौ । पाणिशल्यौ शाल्मलिर्यष्टिमुष्टी योनीमुन्यौ स्वातिगव्यूतिवस्त्यः । मेथिर्मेधिमशी मषीषुधी ऋष्टिपाटलिजाटली । पृश्निस्तिथ्यशनी मणिः सृणिौलिः केलिहलीमरीचयः॥ हन्वाखूकर्कन्धुसिन्धुमृत्युमन्ववारूरुः । कन्दुः काकुः किष्कुर्बाहुगवेधू रौं गौर्भाः ॥ ८६ इति पुंस्त्रीलिङ्गाः। पुनपुंसकलिङ्गोऽब्जः शङ्ख पद्मोऽब्जसंख्ययोः । कंसो पुंसि कुशो बर्हिर्बालो ह्रीवेरकेशयोः ॥ ८७ द्वापरः संशये छेदे पिप्पलो विष्टरोतरौ । अब्दो वर्षे दरखासे कुकूलस्तुषपावके ॥ ८८ परीवादपर्ययोजन्यतल्पौ तपोधर्मवत्सानि माघोष्णहृत्सु । वटस्तुल्यतागोलभक्ष्येषु वर्णः सितादिस्वराद्यो रणे संपरायः ॥ १. अथेकारान्ताः. २. अथोकारान्ताः. ३. अथ व्यञ्जनान्ताः. ४. 'एकदशशत-' इत्यादिगणनायां चतुर्दशेऽङ्के. ५. अलेभ्रमरस्य नामानि. ६. अथ कान्ताः. ७. गान्तः. ८. चान्तः. ९. जान्ताः. १०. टान्ता:. ११. डान्ताः, १२. णान्ताः. १३. तान्तः. १४. थान्ताः. १५. दान्तः. १६. धान्तः. १७. पान्तः. १८. बान्तः. १९. यान्तः. २०. रान्ताः. २१. लान्ताः. २२. शान्तः. २३. षान्तः, २४. सान्ताः. २५. अथ हवेकारान्ता यथालाभं ड्यन्ता अपि. २६. अथोकारान्ताः. २७. ऐकारान्तः, २८. ओकारान्तः. २९, व्यञ्जनान्तः. ३०. यथासंख्येन. ३१. यथासंख्येन. २८ २४ For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy