SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 198 • Grammar श्रीवर्धमानजिनराजनिभप्रभावः श्रीहीरहीरविजयाभिधसूरिरासीत् । श्रीसोमसोमविजयाभिधवाचकोभूच्छिष्यस्य गौतमसमानगुणा यदीय:(याः) ॥१॥ तत्पपूर्वगिरिभूषणभानुमाली सूरीश्वरः समभवद्विजयादिसेनः । योऽकब्बरक्षितिपपर्षदिवादिवृंद बादे विजित्य जयकीर्तिकनीमवारीत् ॥२॥ तत्पद्यरत्नसिंहासनभासनसार्वभौमसंकाशाः । उदभूवन्मुनितिलकाः सुरिश्रीविजयतिलकाख्याः ॥३॥ संप्रति तेषां पट्टे विजयंते समयकनककषपट्टाः । विजयानंदमुनींद्रास्तपगणतटिनीरमणचन्द्राः ॥४॥ सौभाग्यभाग्यनिलयाः युगप्रधानाः प्रधानमहिमानः । ये श्रीसुधर्मजंबूप्रभवमुखान् स्मारयति गुणैः ॥५॥ . युग्मम् ॥ एषां परमगुरूणां पदकजहंसेन विजयेन । रचिता सारस्वतमुखवृत्तद्वितयस्य सद्वृत्तिः ॥६॥ शब्दार्थचंद्रिकाव्हा व्याकरणसुचंद्रचंद्रिका रुचिरा । अर्थसुधा संघटिता प्रीतिकरी सञ्चकोराणाम् ॥ ७॥ युग्मम् ॥ वसुगगनमुनींदुमिते (१७०८) वर्ष हर्षेण राधसितषध्याम् । संघटितेयं वृत्तिः प्रबर्हबर्हाणपुरनगरे ॥८॥ स्वपरागमपारीणैर्वरवाचककोटिकोटिकोटीरैः । श्रीविनयविजयवाचकचरणैः संशोधिता प्रतिश्चैषा ॥९॥ गीतिछन्दः ॥ श्रीसिद्धिविजयसुधियामभ्यर्थनया कृतोयमुद्योगः । दद्यादभ्युदयं वः सततमभीष्टार्थसिद्धिं च ॥१०॥ निजगुरुपदकजवाङ्मयभक्तिप्राग्भारपुलकितांगेन। लिखिता प्रथमाद” वृत्तिरियं भानुविजयेन ॥११॥ इयमार्या शिष्यकृता ॥ श्रीशंखेश्वरपार्वतीर्थवसुधाधीशक्रमांभोरुह भक्तिव्यक्तितरंगरंगिमनसा वृत्तिर्मया निर्मिता।
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy