SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ [31 Santinātha Jain Bhandāra, Cambay आदिः ॥ नमः श्रीवर्द्धमानाय ॥ श्रीवर्द्धमानमानम्य व्याख्या काचिद् विधीयते । प्रश्नव्याकरणांगस्य वृद्धव्याख्यानुसारतः ॥ अज्ञा वयं शास्त्रमिदं गभीरं प्रायोऽस्य कूटानि च पुस्तकानि । सूत्रं व्यवस्थाप्यमतो विमृश्य व्याख्यानकल्पादित एवं नैव ॥ अथ प्रश्नव्याकरणाख्यं दशमांगं व्याख्यायते । अथ कोऽस्याभिधानस्यार्थः । अंत: सत्पुरुषतीरितानि निर्वाणगमनस्वर्गप्रणायकानि पंचापि संवरद्वाराणि समाप्तानीति ब्रवीमीति ॥ छ । समाप्ता प्रश्नव्याकरणटीका ॥ छ । नमः श्रीवर्द्धमानाय श्रीपार्श्वप्रभवे नमः। नमः श्रीमत्सरस्वत्यै सहायेभ्यो नमो नमः ॥ १ ॥ इह हि गमनिकार्थं यन्मयाऽभ्यूहयोक्तं किमपि समयहीनं तद्विशोध्यं सुधीभिः । न हि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा दयितजिनमतानां तायिनां चांगिवर्गे ॥२॥ परेषां दुर्लक्षा भवति हि विवक्षा स्फुटमिदं विशेषाद् वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां मादृशजनैस्ततः शास्त्रार्थे मे वचनमनघं दुर्लभमिह ॥३॥ ततः सिद्धांततत्वज्ञैः स्वयमूह्यः प्रयत्नतः ।। न पुनरस्मदाख्यात एव ग्राह्यो नियोगतः ॥ ४ ॥ तथैवं माऽस्तु मे पापं संघमत्युपजीवनात् । वृद्धन्यायानुसारित्वाद्भितार्थं च प्रवृत्तितः ॥ ५ ॥ स्रो जैताभिमतं प्रमाणामनघं व्युत्पादयामासिवान् प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादिसंबंधि तत् । नानावृत्तिकथाः कथापथमतिकान्तं च चक्रे तपो ___ निःसंबंधविहारमप्रतिहतं शास्त्रानुसारात्तथा ॥ ६ ॥ तस्याचार्यजिनेश्वरस्य सदवद्वादिप्रतिस्पर्द्धिन स्तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि । छन्दोबन्धनिबद्धबंधुरवचःशब्दादिसलक्ष्मणः श्रीसंविनविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ ७ ॥ शिष्येणाभयदेवाख्यसूरिणा विकृतिः कृता। प्रश्नव्याकरणांगस्य श्रुतभक्त्या समासतः ॥ ८॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy