SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts [ 29 APPENDIX 2 (Copies of inscriptions) तस्यानुजन्मा भवदुग्रकर्मा स श्रीपतिः श्रीपतिसक्तचेताः । अन्याङ्गनासोदरताव्रतं यो दधौ सुधासंघमिवामृतांशुः ।।१८।। श्रीमत्परशुनागाख्यगोत्राब्धेरिदिरोपमा । नवश्रीरिति विख्याता भार्या नरपतेरभूत् ॥१६॥ एकस्मिन्नेव दिवसे स्नात्वा शुद्धसुधाम्बुधौ। ताम्रकांस्यादिवस्तूनां ददौ सा दशधां तुलाम् ।।२०।। वाचस्पतौ सिंहगते गौतम्यां स्नातया यया। सुवर्णशृंग्यो विप्रेभ्यो वितीर्णा धेनवः शतम् ॥२१॥ व्यावलाकुंडलाश्चारुनेत्राः भूतिविभूषिताः । बभूवुस्तात् सुताः पंच महेश्वरमुखोपमाः ॥२२॥ तेषु ज्येष्ठो(ठः) पद्मसिंहो निरीहो दोषव्यूहेष्वस्ति यत्कीतिहंस्या । प्रत्यथिस्त्रीवक्त्रपात्रान्निपोतं हास्यक्षीरं तदृगंतो विमुक्तम् ।।२३।। यदतिललितरूपं दृष्ट्वा स्मरज्वरतप्तया सुसरसि तथा स कृत्स्ने कयापि मृगीदृशा। तदुदकभरैरुष्णीभूतै शं परितापितः, सकलसकुलव्यूहो बाह्ये मृता निपतन् यया ॥२४॥ परिज्ञातसप्ताश्च (श्व) मंत्रैकसारो बभूव द्वितीयश्च धीरूरुदारः। प्रियाम्भोजपुंजस्थिति योऽत्र लक्ष्मी मधा....."हस्तब्जगामेव शुष्मी ॥२५॥ लोलस्त्रितीयस्त्रिपुरापराय॑पादाब्जपूजाधिगतप्रसादः । भानूद्भवात्तोयतरंगसंगो हंसाश्रयं विभ्रदसंभ्रमोभूत् ।।२६॥ चतुर्थो भूनाथः स्तुतविविधदेशोद्भवलिपि प्रबोधप्रावीण्यः समजनि स लक्ष्मीधर इति । यमाजग्मुर्विद्या युगपदनवि(व)द्या द्विजहितं शुकादीनां माला बहुफलरसालद्र ममिव ।।२७।। सत्वरं गत्वरं मत्वा वित्तं वा.........."सेवया । पात्रसात् कृतसर्वस्वो वदान्यान् व्यसिस्मयत् ॥२८॥ सोमः स पंचमो जीयादपूर्वं यन्मुखाम्बुजम् । समस्थितबहिर्लक्ष्मीरंतर्देवि सरस्वती ॥२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy