SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ नित्यनुमानं न निर्विचारम् । तथा च सप्तदशशताब्दीभवगुणविनयगणि-समयसुन्दरादिमिरप्यस्य सूरिवर्यस्य ज्ञानकोशलेखनदक्षत्व-भाण्डागारपोषकत्वादिगुणोऽस्मारि, जेसलमेरुस्थस्यास्य भाण्डागारस्यापि च सरणमकारि । स्थाने स्थाने ज्ञानकोशान् कारयितुरस्य सूरिवर्यस्य जन्म सं. १४५० वर्षे, दीक्षा सं. १४६१ वर्षे, सूरिपदं सं. १४७५ वर्षे, स्वर्गमनं च सं. १५१४ (५) वर्षे समजनि । अनेन दीक्षा खरतरगच्छीयजिनराजसूरिपार्श्वे जगृहे । विद्याध्ययनं तु वाचकशीलचन्द्रगणिपार्श्वेऽकारि (ख.)। सूरिवर्यस्यास्य विद्वत्ता-सच्चरित्रता-जिनमन्दिर-जिनबिम्ब-ज्ञानकोशप्रतिष्ठाकृत्त्व-व्याख्यातृत्व-राजमान्यत्वादिगुणानां वर्णनमत्र (परि०३) विहितमिति नेह पुनः प्रतन्यते । अनेन सुरिणा सुरिपदानन्तरं यावजीवं सं. १५१५ वर्षपर्यन्तं प्रतिष्ठितानि प्रभूतानि जैनबिम्बानि लेखितानि च पुस्तकानि यत्र तत्र प्रेक्षणपथपाथीभवन्ति । सं.१५१८ वर्षे ऊकेशवंशीयेन केनचित् कारिताऽस्य सूरेः प्रतिमा नगरपामे जैनमन्दिरभूमिगृहे स्थापिता वर्तते (भावनगरप्राचीनशोधसङ्ग्रहभा० १, पृ. ७१)। सं. १५२४ वर्षे जिनचन्द्र. सूरेगच्छाधिपत्ये तदादेशात् कमलसंयमोपाध्यायेन प्रतिष्ठिते जिनभद्रसूरिपादुके वैभारगिरी (राजगृहे )च विद्येते (जैनलेखसङ्ग्रहले. २५७)। येन कमलसंयमेन सं.१४७६ वर्षे जिनभद्रसूरिपार्श्वे दीक्षाऽग्राहि, "सं. १५४४ वर्षे जेसलमेरुदुर्गे सर्वार्थसिद्धिसंज्ञिकोत्तराध्ययनसूत्रवृत्तिश्च विनिर्ममे । सं. १४८४ वर्षे पत्तनस्थमेनं जिनभद्रसूरि प्रति जयसागरोपाध्यायः सिन्धुदेशान्त १ श्रीज्ञानकोशलेखनदक्षा जिनभद्रसूरयो मुख्याः । तत्पट्टे सञातास्ततोऽद्युतन् दिव्यगुणजाताः ॥-सम्बोधसप्ततिवृत्तिप्र. अणहिलपत्तन-जेसलमेरुस्थितसमयकोशवीक्षायाः। समवसितगोप्यगम्भीरभावश्रुतनिकरसञ्चाराः॥-विचाररत्नसङ्ग्रहः p. p. ३॥ ३१० २ श्रीमज्जेसलमेरुदुर्गनगरे जावालपुर्या तथा श्रीमद्देवगिरौ तथा अहिपुरे श्रीपत्तने पत्तने । भाण्डागारमबीभरद् वरतरैर्नानाविधैः पुस्तकैः स श्रीमज्जिनभद्रसूरिसुगुरुर्भाग्याद्भुतोऽभूद् भुवि ॥-अष्टलक्षी p. p. ४ । १२० ३ स्थाने स्थाने स्थापितसारज्ञानभाण्डागारश्रीजिनभद्रसूरि-पत्तनीयवाडीपार्श्वनाथमन्दिरप्रशस्तिः (एपिग्राफिआ इण्डिका ११३७ ) स्थाने स्थाने पुस्तकभाण्डागारस्थापकाः श्रीजिनभद्रसूरयः-ख. ४ कीर्तिः श्रीजिनभद्रसूरिसुगुरोः सिद्धान्तकन्दोद्भवा व्याख्यानालवती जनोन्नतिदला......। विश्वद्रहव्या विसिनीव भव्यमधुपैः सौभाग्यसौगन्ध्यभाग् भाग्यादित्यमहोदयाद् विजयते नित्यप्रबुद्धाऽद्रुतम् ॥ षट्-सप्ताम्बुनिधि-क्षपाकरमिते संवत्सरे वैक्रमे तैरस्मि खकरेण मोहजलधिपोतं व्रतं प्राहितः। शास्त्रं वा परमेष्ठिपञ्चकनमस्कारागमं पावितो वात्सल्यं कथयामि वा कियदहं यत् प्रत्यहं तैः कृतम् ॥ -उत्तरा. वृ० प्र० ५ अम्भोधि-वारिनिधि-बाण-शशाङ्कघर्षे श्रीउत्तराध्ययनवृत्तिमिमां चकार । जेसलमेरौ दुर्गे विजयदशम्यां समर्थिता सेयम् । श्रीजिनभद्रमुनीश्वरचरणस्मरणप्रसादेन ॥ -उत्तरा० ३० प्रशस्ति. ६ जलधि-वसु-भुवन-सङ्ख्ये वर्षे माघे सिताष्टमीदिवसे। रविसुतवारे रुचिरे समर्थितोऽयं महालेखः॥ -विज्ञप्तित्रिवेणिप्र० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy