SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ सुत्तफा० 952 - अमिधानराजेन्द्रः - भाग 7 सुत्तफा० जगदि' त्याद्यभूतोद्भावनं, नास्त्यात्मेत्यादिकस्तु भूतनिह्नव 1, उपधातः-सत्त्वघातादिः, तज्जनकं यथा वेदविहिता हिंसा धर्मायेत्यादि 2, निरर्थकं यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते न त्वर्थो, यथा अआ इई इत्यादि डित्थादिवद्वा 3, असम्बद्धार्थकमपार्थकं यथा दशदाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डस्त्वरकीटिके दिशमुदीचिमित्यादि 4, यत्रानिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघातः कर्तुं शक्यते तच्छलं यथा नवकम्बलो देवदत्त इत्यादि५, जन्तूनामहितोपदेशकत्वेन पापव्यापारपोषकं दुहिलं यथा "एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः / भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः // 14 पिव खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते। न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम्॥२॥' इत्यादि६, वेदवचनादियत्तथाविधयुक्तिरहितं परिफल्गु निःसारम् 7, अक्षरपदादिभिरतिमात्रमधिकम् , तैरेव हीनम्,-ऊनम्, अथवा हेतोः दृष्टान्तस्य वाऽऽधिक्ये सत्यधिकं, यथा- अनित्यः शब्दः कृतकत्वप्रयत्नान्तरीयकत्याभ्यां घटपटवदित्यादि, एकस्मिन् साध्ये एक एव हेतुर्दृष्टान्तश्च वक्तव्यः, अत्र च प्रत्येक द्वयाभिधानादाधिक्यमिति भावः / हेतुदृष्टान्ताभ्यामेव हीनम्- ऊनं, यथा अनित्यः शब्दोघटवदिति, यथा अनित्यः शब्दः कृतकत्वादित्यादि 6., पुनरुक्तं द्विधा-शब्दतोऽर्थतश्च, तथाऽर्थादापन्नस्य पुनर्वचनं पुनरुक्तं, तत्र शब्दतः पुनरुक्तं यथा घटो घट इत्यादि, अर्थतः पुनरुक्तं यथा घटः कुट: कुम्भ इत्यादि, अर्थादापन्नस्य पुनर्वचनं यथा--पीनो देवदत्तो दिवा न भुक्ते अर्थादापत्त रात्रौ भुङ्क्ते इति, तत्रार्थापन्नमपि य एतत्साक्षाद् ब्रूयात्तस्य पुनरुक्तता 10, व्याहतं यत्र पूर्वेण परं विहन्यते यथा- 'कर्म चास्तिफलं चास्ति, कर्ता न त्वरित कर्मणा' मित्यादि 11, अयुक्तमनुपपत्तिक्षमं यथा-'तेषां कटतटभृष्टगजानां मदबिन्दुभि' रित्यादि 12, क्रमभिन्नं यत्र क्रमो नाराध्यते यथा--स्पर्शनरसनघ्राणचक्षुः श्रोत्राणामर्थाः स्पर्शरगन्धरूपशब्दा इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि 13, वचनभिन्नं यत्र वचनव्यत्ययो यथा वृक्षाः ऋतौ पुष्पितः इत्यादि 15, विभक्तिभिन्नं यत्र विभक्तिव्यत्ययो यथा वृक्षं पश्य इति वक्तव्ये वृक्षः पश्य इति ब्रूयादित्यादि 15, लिङ्गभिन्नं यत्र लिङ्गव्यत्ययो यथा अयं स्त्रीत्यादि 16, अनभिहितं स्वसिद्धान्तानुपदिष्टं यथा सप्तमः पदार्थो वैशेषिकस्य, प्रकृतिपुरुषाभ्यधिकं साह्यस्य, दुःखसमुदायमार्गनिरोधलक्षणचतुरार्यसत्यातिरिक्तं वा बौद्धस्येत्यादि 17. यत्रान्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानं तदपदम्, यथाऽऽर्यापदेऽभिधातव्ये वैतालीयपदमभिदध्यादित्यादि १८,यत्र वस्तुस्वभावोऽन्यथा स्थितोऽन्यथाऽभिधीयते तत्स्वभावहीनं, यथा शीतो वह्निः मूर्तिमदाकाशमि. त्यादि 16, यत्र प्रकृतं मुक्त्वाऽप्रकृतंव्यासतोऽभिधाय पुनः प्रकृतमुच्यते तद्वयवहितम् 20, कालदोषो यत्रातीतादिकालव्यत्ययो यथा रामो वनं प्रविवेशेति वक्तव्ये रामो वनं प्रविशतीत्याह 21, यतिदोषोऽस्थानविरतिः सर्वथाऽविरतिर्वा 22, छविः-अलङ्कारविशेषस्तेन शून्य छविदोषः 23, समयावरुद्धं स्वसिद्धान्तविरुद्धं यथा साङ्ख्यस्वासत् कारणे कार्यम् | वेशैषिकस्य या सदिति 24, वचनमात्रं निर्हेतुकं, यथा कश्चिद्यथेच्छयर कश्चित्प्रदेश लोकमध्यता जनेभ्यः प्ररूपयति 25, यत्नापित्त्याऽनिष्टमापतति तत्रापित्तिदोषो यथा गुहकुकुटो न हन्तव्य इत्युक्तंऽर्थापत्त्या शेषघातोऽदुष्ट इत्यापतति 26, यत्र समासविधिप्राप्तौ समासं न करोति व्यत्ययेन वा करोति तत्रासमासदोषः 27. उपमादोषो यत्रा हीनोपमा क्रियते, तथा मेरुः सर्षपोपमः अधिकोपमा वा क्रियते, यथा सर्षपो मेरुसन्निभः, अनुपमा वा यथा मेरुः समुद्रोपम इत्यादि२८, रूपकदोषः स्वरूपभूतानामवयवानां व्यत्थयो यथा पर्वते निरूपयितव्ये शिखरादीस्तदवयवान्निरूपयति, अन्यस्य वा समुद्रादः सम्बन्धिनोऽवयवाँस्तत्र निरूपयतीति 26, निर्देशदोषस्तत्र यत्र निर्दिष्टपदानामेक वाक्यता न क्रियते, यथेह देवदत्तः स्थाल्यामोदनं पचतीत्यभिधातव्ये पचतिशब्द नाभिधत्ते 30, पदार्थदोषो यत्र वस्तुनि पर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते यथा सतो भावः सत्तेति कृत्वा वस्तुपर्याय एव सत्ता, साच वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते, तचा युक्तम्, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति 31 यत्र सन्धिप्राप्तौ तंन करोति दुष्ट वा करोति तत्र सन्धिदोषः३२, एते द्वात्रिंशत्सूत्रदोषाः, एतैर्विरहितं यत्तल्लक्षणयुक्तं सूत्रम्। अष्टाभिश्चगुणैरुपेतंयत्तल्लक्षणयुक्तमिति वर्तते। ते चेमे गुणाः- "निद्दोसं सारवंतं च, हेउजुत्तमलंकियं / उवणीयं सोवयारं च, मियं महुरमेव य।।१।।" तत्र निर्दोष सर्वदोषविप्रमुक्तं 1, पारवगोशब्दवद्हुपर्यायम्, 2, हेतवः-अन्वयव्यतिरेकलक्षणास्तैर्युक्तम् 3, उपमोत्प्रेक्षाधलङ्कारैरलकृतम् 4, उपनयोपसंहृतमुपनीतम् 5, ग्राम्यभणितिरहितं सोपचारम् 6, वर्णादिनियतपरिमाणं मितम् 7, श्रवणमनोहरं मधुरम् / अन्यैश्च कैश्वित्पगुणाः सूत्रस्य पठ्यन्ते। तद्यथा-"अप्पक्खरमसंदिद्धं, सारवं विस्सओमुहं। अत्थोभमणवजं च, सुत्तं सव्वण्णुभासियं / / 1 / / यत्राल्पाक्षरम्-मिताक्षरंयथा सामायिकसूत्रम्, असन्दिग्धंसैन्धवशब्दवद्यल्लवणवसनतुरगाधनेकार्थसंशयकारिन भवति, सारवत्त्वं च पूर्ववत्, विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टयव्याख्याक्षमम्, यथाधम्मो 'मंगलमुक्किट्ठ' मित्यादिश्लोके चत्वारोऽप्यनुयोगा व्याख्यायन्ते। अथवा- अनन्तार्थत्वाद् यतो विश्वतोमुखं ततः सारवदित्येवं सारवत्त्वस्यैव हेतुभावेनेदं योज्यते, अस्मिँश्व व्याख्याने पञ्चैवते गुणा भवन्ति,स्तोभकाः-चकारवाशब्दादयो निपातास्तैर्वियुक्तमस्तोभकम्। अनवद्यं कामादिपापव्यापाराप्ररूपकम्, एवंभूतं सूत्रं सर्वज्ञभाषतमिति। यैस्तु पूर्व अष्ट सूत्रगुणाः प्रोक्तास्तेऽनन्तरश्लोकोक्तगुणास्तेष्वेवाष्टसु गुणेष्वन्तर्भावयन्ति, ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणानिच्छन्ति ते अमीभिरेव पूर्वोक्तानामष्टानामपि संग्रहं प्रतिपादयन्तिा एवंसूत्रानुगमेसमस्तदोषविप्रमुक्तेलक्षणयुक्तसूत्रे उच्चारितेततोज्ञास्यते यदुतैतत्स्व-समयगतजीवाद्यर्थप्रतिपादकं पदं स्वसमयपदं, परसमयगतप्रधानेश्वराधर्थप्रतिपादकं पदं परसमयपदम्, अनयो रेख मध्ये परसमयपदं देहिनां कुवासनाहेतुत्वादन्धपदम्, इतस्तु, सरोधकारणत्वात्मोक्षपदमिति तावदेके, अन्येतु
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy