SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ सीस १०८-अभिधानराजेन्द्रः - भाग 7 सीस शोभावात्, उपलस्यैवंविधत्वादेवेति। तदेवं चालन्युदाहरणस्य स्वरूपमुक्तम्, शैलच्छिद्रधटचालन्युदाहरणानां परस्परं विशेषश्चाभिहितः। अथ चालनीप्रतिपक्षमाहतावसखउर कठिणयं, चालणिपडिवक्खों न सवइ दव्वं पि। परिपूणगम्मि, उगुणा, गलंति दोसाय चिटुंति॥१४६५।। चालनीप्रतिपक्षः भवति' इति शेषः / कीदृशः ? इत्याहतापसानां भोजनादिनिमित्तमुपकरणविशेषः 'खउरकठिणकं' उच्यते। तच किल वंशे शुम्बादिकं च द्रव्यमतिश्लक्ष्णं कुट्टयित्वा कमठकाकारं क्रियते। इदं चातिनिविडत्वात् द्रव्यं, जलमपि प्रक्षिप्तं नस्रवति, किन्तु सम्यग् धरति एवं शिष्योऽपि यो गुरुभिराख्यातं सर्वमेव धरति, न विस्मरति, सग्राह्यः, चालनीसमस्त्वग्राह्य इति भावः / अथ परिपूणकोदाहरणमाह-- 'परिपूणग' - इत्याद्युत्तरार्धम्। परिपूणको नाम सुघरीचिटिकाविरचितो नीडविशेषः, तेन च किल घृतं गाल्यते, ततस्तत्र कचवरमवतिष्ठते, घृतं गलित्वाऽधः पतति, एवं परिपूणकसदृशः शिष्योऽप्युपचारात्परिपूणकः / तत्र हि श्रुतसम्बन्धिनो गुणाः सर्वेऽपिघृतवद् गलन्ति, दोषास्तुधृतगतकचवरवदवतिष्ठन्ते, श्रुतस्य दोषानेव गृह्णाति, गुणांस्तु सर्वथा परिहरत्यसौ, अतोऽयोग्य इति भाव इति। अत्र प्रेर्यमुत्थाप्य परिहरन्नाह --- सवण्णुप्पामन्ना, दोसा हुन संति जिणमए केइ / जं अणुवउत्तकहणं, अपत्तमासज्ज व हवेज।।१४६६|| ननु सर्वज्ञप्रामाण्यात् सर्वज्ञोऽस्य प्रवर्तक इति हेतोर्जिनमते दोषाः केचिदपि न सन्तीत्यर्थः, तत् कथमस्य कोऽपि दोषान् ग्रहीष्यति, असत्त्वादेव? इति भावः। सत्यम्, किन्तु यद्यपि जिनमतेदोषान सन्ति, तथाऽप्यनुपयुक्तस्य गुरोर्यत् कथनं व्याख्याविधानं तदाश्रित्य दोषा भवेयुरिति सम्बन्धः / अथवा-अपात्रम्-अरोग्यं शिष्यमङ्गीकृत्य जिनमतेऽपि तदुत्प्रेक्षिता दोषा भवेयुः, निर्दोषेऽपि जिनमतेऽपात्रभूताः शिष्या असतोऽपि दोषानुद्भावयन्त्येवेत्यर्थः / तथा च ते वक्तारोभवन्ति। तद्यथा"पागयभासनिबद्धं, को वा जाणइ पणीय केणेयं / किं वा चरणेणं णु, दाणेण विणा उ हवइ त्ति / / 1 / / कायावया य तच्चिय, ते चेव पमायअप्पमाया च। मोक्खाहिगारियाणं, जोइसजोणीहिँ किं कजं ?||2|| को आउरस्स कालो, मइलंबरधोयणे य को कालो ? जइ मोक्खहेउ नाणं, को कालो तस्सऽकालो वा ?||3||" इत्यादि। असन्तश्च सर्वेऽप्यमी दोषाः, "बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकाङ्क्षिणाम्। अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः॥१॥" "पुव्वभणियं पिजंवत्थु, भण्णएतत्थकारणंअत्थिा पडिसेहोयअणुन्ना, वत्थुविसेसोवलंभो वा // 1 // " इत्यादिना शास्त्रान्तरे विस्तरेण निराकृतत्वादिति। अथ हंसोदाहरणव्याख्यामाहअंबत्तणेण जीहाए, कूचिया होइ खीरमुदगम्मि। हंसो मुत्तूण जलं, आवियइ पयं तहसुसीसो // 1467 / / दुग्धं च जलं च मिश्रयित्वा भाजने व्यवस्थाप्य कोऽपि हंसस्य पानार्थमुपनयति, सचतन्मध्ये चञ्चुं प्रक्षिपति। तस्य च जिलास्वभावत एवाम्ला भवति। तेन च जिह्वाया आम्लत्वेन हेतुभूतेनोदकमध्यगतं दुग्धं विलित्वा कूचिका बिन्दुरूपा बुदबुदा भवन्तीत्यर्थः / ततश्च जलं मुक्त्वा तबुबुदीभूतं दुग्धमापिबति हंसः। तथा सुशिष्योऽपि गुरोर्जलस्थानीयान् दोषान् परित्यज्य दुग्धस्थानीयान् गुणान् गृह्णातीत्यर्थ इति। अथ महिषोदाहरणं विवृण्वन्नाहसयमवि न पियइ महिसो, न य जूहं पियइ लोडियं उदगं। विग्गहविगहाहि तहा, अत्थकुपुच्छाहि य कुसीसो॥१४६८॥ स्वयूथेन समं वनमहिषो जलाशये क्वचिद् गत्वा तन्मध्ये च प्रविश्योद्वर्त्तनपरावर्तनादिभिस्तथा तज्जलमालोडयति यथा कलुषितं सद् नस्वयं पिबति, नापितधूथम्। एवं कुशिष्योऽपि व्याख्यामण्डलिकायामुपविष्टो, गुरुणा, अन्येन वा शिष्येण सह विग्रहं कलहमुदीरयति, विकथाप्रबन्धं वा किञ्चिचालयति, संबद्धासंबद्धरूपाभिरनवरतमुपर्युपरिपृच्छाभिश्च तथा कथञ्चिद्व्याख्यानमालोडयति, यथा नात्मनः किञ्चिद् पर्यवस्यति, नापि शेषविनेयानामिति। मेषोदाहरणमाहअविगोपयम्मि, वि पिवे, सुढिओ तणुयत्तणेण तुंडस्स। न करइ कलुसं तोयं, मेसो एवं सुसीसो वि।।१४६६।। जलभृते क्वधिद् गोष्पदेऽपि 'सुढिओ' त्ति-संकुचित्ताङ्गो मेष ऊरणकः पिवेजलम्, न च तत्कलुषं करोति। केन हेतुना ? इत्याह-तनुकत्वेनाग्रभागेश्लक्ष्णत्वेन तुण्डस्य-मुखस्येति। अग्रपादाभ्यामवनम्य तीक्ष्णेन मुखेनतथासौजलं पिवति तथा सर्वथैव कलुषंनभवति। एवं सुशिष्योऽपि तथा गुरोः सकाशाद् निभृतः श्रुतं गृह्णाति तथा तस्य परिषदो वा न कस्यचिद् मनोबाधादिकं कालुष्यं भवतीति। मशकजलूकोदाहरणद्वयविवृतिमाहमसउ व्व तुदं जचा-इ एहि निच्छुभए कुसीसो वि। जलुगाव अदूमंतो, पिबइ सुसीसो वि सुयनाणं / / 1470 / / यथा मशको जन्तूंस्तुदते-व्यथयति। ततश्च वस्त्राञ्चलादिभिस्तिरस्कृत्य दूरीक्रियते, तथा कुशिष्योऽपि जात्यादिदोषोद्धाटनैर्गुरुं तुदन्व्यथयमानो निष्कास्यते परिहियत इति। जलूका पुनर्यथाऽसृग् पिबति, नचासृग्मन्तं व्यथयति, तथा सुशिष्योऽपि गुरुभ्यः श्रुतज्ञानं पिबतिगृह्णातिन तु जात्युद्धाटनादिना दुनोतीति। बिडालयुदाहरणमाहछड्डेउं भूमीए, खीरं जह पियइ दुट्ठमारी।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy