________________ सिवभूइ 874 - अभिधानराजेन्द्रः - भाग 7 सिवभूइ ल्ले, यः प्रव्रज्य वोटिकनिहवानस्थापयत् / आ० म०१ अ०। / भाष्यम् - उवहिविभागं सोउं, सिवभूई अज्जकण्हगुरुमूले / जिणकप्पियाइयाणं, भणइ गुरुं कीस नेयाणिं ||25532 / / जिणकप्पोऽणुचरिज्जइ, नोच्छिन्नो त्ति भणिए पुणो भणइ / तदसत्तस्सोच्छिज्जउ, वुच्छिज्जइ किं समत्थस्स ? ||2554|| पुच्छस्स पुष्वमणापुच्छ, छिण्णकंबलकसायकलुसिओ चेव / सो बेइ परिग्गहओ, कसाय मुच्छा भयाईया // 2555|| दोसा जओ सुबहुया, सुए य भणियमपरिग्गहत्त ति। जमचेलाय जिणिंदा, तदमिहिओ जंच जिणकप्पो // 2556 / जं च जियाचेलपरि-सहो मुणी जं च तीहि ठाणेहिं। वत्थं धरिज नेगं-तओ तओऽचेलया सेया // 2557|| सर्वा अप्युक्तार्था एव, नवरं जं च जिणा चेले' त्यादि, यस्माच 'जिताचेलपरिषहो मुनिः' इत्यागमेऽभिहितम्। जिताचेलपरिषहत्वं च किल त्यक्तवस्त्रस्यैव भवतीत्यभिप्रायः। यस्माच त्रिभिरेव स्थानैर्वस्त्रधारणमनुज्ञातमाग-मेनैकान्ततः,तथा घागमवचनम्- "तिहिं ठाणेहिं वत्थं धरिजा-हीरिवत्तियं, दुगंधावत्तिय, परीसहवत्तियं" / तत्र हीर्लज्जा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य तत् तथा, जुगुप्सालोकविहिता निन्दा सा प्रत्ययो यस्य तत्तथा, एवं परीषहाःशीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथा / उपसंहरन्नाह-ततस्तस्मादुक्तयुक्तिभ्योऽचेलतैव श्रेयस्करीति पूर्वपक्षः। अत्रोत्तरपक्षमभिधित्सुराह || गुरुणाऽमिहिओ जइ जं, कसायहेऊ परिग्गहो सो ते / तो सो देहो चिय ते, कसायउप्पत्तिहेउ त्ति / / 2558|| गुरुणा-आर्यकृष्णेनाभिहितः शिवभूतिः- यदि हन्त ! यद् यत् कषायहेतुः, तत् तत् ते तव परिग्रहः, स च मुमुक्षुणा परिहर्तव्य एवेत्येकान्तः। 'तो सो' इत्यादि ततस्तर्हि स्वकीयो देह एव 'ते' तव स्वस्थात्मनोऽपि कषायोत्पत्तिहेतुरिति परिग्रहः परिहरणीयश्च प्राप्नोति। अतोऽपरिग्रहत्वस्य परिग्रहाणां चोत्सन्ना कथेति। अथवा-किमेको देह एव, ननु व्याप्त्यापि ब्रूमः, तद्यथा // अत्थि व किं किंचि जए, जस्स व तस्स व कसायबीयं जं / वत्थु न होज एवं, धम्मो वि तुमे न घेत्तव्वो // 2556 / / जेण कसायनिमित्तं, जिणो वि गोसालसंगमाईणं / धम्मो धम्मपरा विय, पडिणीयाणं जिणमयं च ||2560 / / किं हि नामैतावति जगति तद् वस्तु, यद् यस्य वा तस्य वा कषायाणां बीजं कारणं न भवेत् ? एवं च सति श्रुत-चारित्रभेदभिन्नो धर्मोऽपि त्वया न ग्रहीतव्यः, तस्यापि कस्यचित् कषायहेतुत्वात् / कुतः ? इत्याह 'जेणेत्यादि' येन यस्मा दास्तां तत्प्रणीतो धर्मः, किन्तु–स त्रिभुवनबन्धुः- निष्कारणवत्सलः सर्वसत्त्वानां जिनोऽपि भगवान् तीर्थकरोऽपि क्लिष्टकर्मणां गोशालकसंगमकादीनां कषायनिमित्तं संजातः। एवं धर्मस्तत्प्रणीतः, तदुक्तधर्मपरा अपि तदेकनिष्ठाः साधवः, जिनमतंच द्वादशाङ्गीरूपम्, सर्वमप्येतद्गुरुकर्मणां दुःखैकरूपदीर्घभवभ्रमणभाजा प्रत्यनीकानां जिनशासन-प्रतिकूलवर्तिनां कषायनिमित्तमेव, इत्येतदप्यग्राह्ये प्राप्नोति, न चैतदस्ति / तस्मात् 'यत् कषायहेतुस्तत् परिहर्तव्यम्' इत्यनेकान्त एवेति। अथैतद्दोषपरिजिहीर्षोः परस्याभिप्रायमाशङ्कय परिहरन्नाहअह ते न मोक्खसाहण-मईएँ गंथो कसायहेऊ दि। वत्थाइमोक्खसाहण-मईएँ सुद्धं कहं गंथो ?||2561|| अथ मन्येथाः-- ते देहादयो जिनमतान्ताः पदार्थाः कषायहेतवोऽपि सन्तो न ग्रन्थो-न परिग्रहः, मोक्षसाधनमत्या गृह्यमाणत्वादिति / हन्त ! यद्येवम्, तर्हि वस्त्रपात्रादिकमप्युपकरणं शुद्धमेषणीयं मोक्षसाधनबुद्ध्या गृह्यामाणं कथं ग्रन्थः ? न कथञ्चिदित्यर्थः, न्यायस्य समानत्वादिति। तदेवं कषायहेतुत्वादग्राह्यं वस्त्रादिकमित्येतद् निराकृतम् / अथ मूच्छहितुत्वेन तत् परिहरणीयमित्येतदपाकर्तुमाहमुच्छाहेऊ गंथो, जइ तो देहाइओ कहमगंथो। मुच्छावओ कहं वा, गंथो वत्थादसंगस्स ? // 2562|| अह देहाऽऽहाराइसु, न मोक्खसाहणमई ते मुच्छा। का मोक्खसाहणेसुं, मुच्छा वत्थाइएसुं तो ? // 2563 / / अह कुणसि थुल्लवत्था-इएसु मुच्छं धुबं सरीरे वि। अक्केज दुल्लमयरे, काहिसि मुच्छं विसेसेणं // 2564|| वत्थाइगंथरहिया, देहाऽऽहाराइमित्तमुच्छाए। तिरिय सबरादओ नणु, हवंति निरओवगा बहुसो // 2565 / / अपरिग्गहा वि परसं-तिएसु मुच्छाकसायदोसेहिं / अविणिग्गहियप्पाणो, कम्ममलमणंतमजंति / / 2566|| देहत्थवत्थमल्लाऽ--णुलेवणाऽऽभरणाध रिणो के इ। उवसग्गाइसु मुणओ, निस्संगा केवलमुर्विति / / 2567 / / एताः सुगमा एव, नवरं यदि यो मू हेतुः स ग्रन्थः परिग्रहः, परिग्रहत्वादेव च त्याज्यः; ततस्तर्हि 'मुच्छावउ' ति- मूवितो वक्ष्यमाणयुक्त्या मूर्छायुक्तस्य देहाऽऽहारादिकस्तव हन्त ! कथमग्रन्थः? अपि तु ग्रन्थ एव, ततः सोऽपि परित्याज्यः प्राणोति / कथं वा ममत्वमूरिहितत्वेनासङ्गस्य-सङ्गविप्रमुक्तस्य साधोर्वस्वादिकं ग्रन्थो गीयते भवता? न भवत्येव तथाभूतस्य तद् ग्रन्थ इति / अथ देहाऽऽहरादिषु ते- तव मूर्छा नास्ति, मोक्षसाधनमत्या तेषां ग्रहणात्, तर्हि मोक्षसाधनत्वेन तुल्येष्वपि वस्वादिषु तव हन्त ! का मूर्छा ? इति / अथ स्थूलेषु बाह्यत्वात्, क्षणमात्रेणैवानित स्करायुपद्रवगम्यत्वात्, सुलभत्वात्, कतिपयदिनान्ते स्वयमेव विनाशधर्मकचात् शरीरा नितरां निःसारेषु वस्त्रादिषु मूर्छा करोपि त्वम्, तर्हि ध्रुवंनि