________________ सिद्ध 834 - अभिधानराजेन्द्रः - भाग 7 सिद्ध कर्षद्वारमुच्यते- सन्निकर्षों नाम संयोगः, ह्रस्वदीर्घयोरिवविवक्षितं किञ्चित्प्रतीत्य विवक्षितस्याल्पतया बहुत्वेन वाऽवस्थानरूपः सम्बन्धः, उक्तं च-- "संजोग सन्निगासो पडुच सम्बन्ध एगट्ठा" तत्रेयं व्याप्तिः-- यत्र यत्राष्टशतमुपलभ्यते तत्र तत्रोपरितनमष्टकरूपमङ्कमपनीय शेषस्य शतस्य चतुर्भिर्भागो हियते, हृते च भागे लब्धाः पञ्चविंशतिः, तत्र पञ्चविंशति-संख्येयप्रथमचतुर्थभागे क्रमेण संख्येयगुणहा-निर्वक्तव्या। तद्यथा-सर्वबहव एकैकसमयसिद्धाः, ततो द्विकद्विकसिद्धाः संख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धाः संख्येयगुणहीनाः, एवं ताद्वाच्यं यावत्पञ्चविंशतिसिद्धाः संख्येयगुणहीनाः, उक्तं च- "पढमो चउत्थभागो, पणवीसा तत्थ संखेजगुणहाणी / दट्ठव्व' त्ति द्वितीये पुनश्चतुर्थभागे क्रमेणासंख्येयगुणहानिर्वक्तव्या, तद्यथा- पश्चविंशतिसिद्धेभ्यः षड्विंशतिसिद्धाः संख्येयगुणहीनाः, एवमेकैकवृद्धया असंख्येयगुणहानिः, तावद्वक्तव्या यावत्पञ्चाशत, तदुक्तम्- "बिइए चउत्थभागे, असंखगुणहानि जावपन्नासं" ति, तृतीयस्माचतुर्थभागादारभ्य सर्वत्रापि अनन्तगुणहानिर्वक्तव्या, तद्यथा- पञ्चाशत्सिदधेभ्य एकपञ्चाशत्सिद्धाः अनन्तगुहीनाः तेभ्योऽपि द्विपञ्चाशत्सिद्धा अनन्तगुणहीनाः एवमेकैकवृद्धया अनन्तगुणहानिस्तावद्वक्तव्या यावदष्टाधिकशतसिद्धा अनन्तगुणहीनाः, उक्तं च-"तइपयं आइकाऊण चउत्थपयं जाव अट्ठसयं ताव अणंतगुणहाणी एगवन्नाओ आरंभ दट्ठव्वा।" सिद्धप्राभृतसूत्रेऽप्युक्तम्- “पढमे भागे संखा बिइए असंख अणंत तइयाए / " तथा यत्र यत्र विंशतिसिद्धाः तत्र तत्रापि व्याप्तिरियमनुसतव्या, प्रथमे चतुर्थभागे संख्येयगुणहानिः, द्वितीये असंख्येयगुणहानिः, तृतीये चतुर्थे चानन्तगुणहानिः, तद्यथाएकैकसिद्धाः सर्वबहवः तेभ्योऽपि द्विकद्विसिद्धाः संख्येयगुणहीनाः एवं तावद्वाच्यं यावत्पञ्च, ततः षडादिसिद्धा असंख्येयगुणहीना यावदृश, तत एकादशादयः सर्वेऽप्यनन्तगुणहीनाः, एवमधोलोकादिष्वपि विंशतिपृथक्त्वसिद्धा प्रथमे चतुर्थभागे संख्येयगुणहानिः, द्वितीयचतुर्थभागेऽसंख्येयगुणहानिः, तृतीयस्माचतुर्थभागादारभ्य पुनः सर्वत्राप्यनन्तगुणहानिः, येषु तु हरिवर्षादिषु स्थानेषूत्कर्षतो दश दश सिध्यन्ति तत्रैवं व्याप्तिः- त्रिकं यावत्संख्येयगुणहानिः, ततश्चतुष्के पञ्चके चासंख्येयगुणहानिः, ततः षट्कादारभ्य सर्वत्रापि अनन्तगुणहानिः, तद्यथा- “एककसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धाः संख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धाः संख्येयगुणहीनाः, तेभ्योऽपि चतुश्चतुःसिद्धाः असंख्येयगुणहीनाः, तेभ्योऽपि पञ्चपञ्चसिद्धाः असंख्येयगुणहीनाः, ततः षडादयः सर्वेऽप्यनन्तगुणहीनाः यत्र पुनरवगाहना यवमध्यादावुत्कर्षतोऽष्टौ सिध्यन्तः प्राप्तन्ते तत्रैवं व्याप्तिः- चतुष्कं यावत्संख्येयगुणहानिः, ततः परमनन्तगुणहानिः, तद्यथा-एककसिद्धाः सर्वबहवः, तेभ्योऽपि द्विकद्विकसिद्धाः संख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धाः संख्येयगुणहीनाः, तेभ्योऽपि चतुश्चतुःसिद्धाः संख्येयगुणहीनाः, परं पञ्चपञ्चादयोऽनन्तगुणहीनाः, अत्रासंख्येयगुणहानिर्न विद्यते, यत्र पुनरूज़लोकादावुत्कर्षतश्चत्वारः सिध्यन्तः प्राप्यन्ते तत्र एवं व्याप्तिः- एककसिद्धाः सर्वबहबः, तेभ्यो द्विकद्विकसिद्धा असंख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धा अनन्तगुणहीनाः तेभ्योऽपि चतुश्चतुस्सिद्धा अनन्तगुणहीनाः, अत्र संख्येयगुणहानिर्न विद्यते, तदुक्तम्- "जत्थ चत्तारि सिद्धा दिट्ठा तत्थ संखेजगुणहाणी नत्थिं संखेजविवञ्जिय चउक्के" इति वचनादिति। यत्र पुनर्लवणादौ द्वौ द्वावुत्कर्षतः सिध्यन्तौ दृष्टौ तत्रैवं व्याप्तिः-- एककसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धा अनन्तगुणहीनाः, तदुक्तम्- "लवणादौ दो सिद्धा दिट्ठा तत्थ एकगसिद्धा बहुगा, दुगसिद्धा अणंतगुणहीणा।" तदेवमिह सन्निकर्षो द्रव्यप्रमाणे संप्रपञ्च चिन्तितः, शेषेषु द्वारेषु सिद्प्राभृतटीकातो भावनीयः, इह तु ग्रन्थगौरवभयान्नोच्यते-"सिद्धप्राभृतसूत्र, तद्वृत्तिं चोपजीव्य मलयगिरिः / सिद्धस्वरूपमेतन्निरवोचच्छिष्यबुद्धिहितः // 1 // " (नं०।) तीर्थसिद्धादीनां व्याख्यानम्तीर्यते संसारसागरोऽनेनेति तीर्थं यथावस्थितसकल-जीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं, तच्च निराधारं न भवतीति कृत्वा सङ्घः प्रथमगणधरो वा वेदितव्यम्, उक्तं च- "तित्थं भंते ! तित्थं तित्थकरे तित्थं ? गोअमा ! अरहा ताव नियमा तित्थंकरे, तित्थं पुण चाउव्वण्णो समणसंघो पढमगणहरो वा' तस्मिन्नुत्पन्ने ये सिद्धाः ते तीर्थसिद्धाः, तथा तीर्थस्याभावोऽतीर्थ तीर्थस्याभावश्वानुत्पादोऽपान्तराले व्यवच्छेदो वा तस्मिन्ये सिद्धाः तेऽतीर्थसिद्धाः, तत्र तीर्थस्थानूत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत्, तथा तीर्थस्य व्यवच्छेदश्चन्द्रप्रभस्वामिसुविधिस्वाम्यपान्तराले तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्यसिद्धाः ते तीर्थव्यवच्छेसिद्धाः, तथा तीर्थकराः सन्तो ये सिद्धाः ते तीर्थकरसिद्धाः, अन्ये सामान्यकेवलिनः, तथा स्वयम्बुद्धाः सन्तो ये सिद्धाः ते स्वयम्बुद्धसिद्धाः, प्रत्येकबुद्धाः सन्तो ये सिद्धाः ते प्रत्येकबुद्धसिद्धाः, अथ स्वयम्बुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः? उच्यते-- बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहिस्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, स्वयमेव बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः स्वयम्बुद्धा इति व्युत्पत्तेः, ते च द्विधा तीर्थकराः तीर्थकरव्यतिरिक्ताश्च, इह तीर्थकरव्यतिरिक्तैरधिकाराः, आह च चूर्णिणकृम्-"ते दुविहा तित्थयरा, तित्थयरवइरित्ता वा, इह वइरित्तेहिं अहिगारो" इति। प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य बुध्यन्ते, प्रत्येकं-बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धा प्रत्येक बुद्धाः इति व्युत्पत्तेः, तथा च श्रूयते-- बाह्यवृषभादिप्रत्ययसापेक्षा करकण्ड्वादीनां बोधि, बोधिप्रत्ययमपेक्ष्य च बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति, न गच्छवासिन इव संहताः, आह च चूर्णिणकृत्- "पत्तेयं- बाह्य वृषभादिकरणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः बहिः प्रत्यय-प्रतिबुद्धानां च "पत्तेयं नियमा विहारो जम्हा तम्हा य ते पत्तेयबुद्धा" इति, तथा स्वयम्बुद्धानामुपधिज्दशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा-जघन्यतः, उत्कर्षतश्च, तत्रजघन्य