SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ सित 521 - अभिधानराजेन्द्रः - भाग 7 सिद्ध सित-त्रि०(सित) बद्धे, नं०। सित्त-त्रि०) (सिक्त) केवलोदकेवार्दीकृते, ग०१ अधि० / ज्ञा० / भ० / रा० / उदकच्छण्टने कृतसेवने, औ० / जी० / सित्त-पुं० (सित्ति) ऊर्ध्वमधो वा गच्छतः सुखोत्तारावतारहेसौ काष्ठादिमये पथि, व्य०१० उ०। ('भत्तपञ्चक्खाण' शब्दे पञ्चमभागेऽप्रत्यविस्तरो गतः 1) सित्थ-न० ((सिक्थ) 'क-ग-ट-ड-त-द-प-श-ष-स- क -पामूलुक्' // 8 / 277 // एषां संयुक्तवर्णसंबन्धिनामूज़ स्थितानां लुष्मवति / सिक्थं सित्थं / कणे, प्रा० / ग० / आ० म० / अनु० / प्रश्न० / विपा० / मधूच्छिष्टे रज्जुनिर्मिते पदार्थ, नील्याञ्च / भक्तपुलाके, ग्रासे च / पुं० / वाच०। सिद्ध पुं० (सिद्ध) ये येन गुणेन निष्पन्नाः परिनिष्ठिताः सिद्धौदनन्नद्; न पुनः साधनीया इत्यर्थः / ध० 2 अधि० कल्प० / एगे सिद्धे / (सू०४६+) सिद्ध्यति स्म कृतकृत्यो भवेत् सेधयति स्म वा- अगच्छत् अपुनरावृत्त्या लोकाग्र मिति सिद्धः। सितं वा बद्धं कर्म ध्मातं दग्धं यस्य स इति निरुत्कात् सिद्धः / कर्मप्रञ्चनिर्मुक्तः, स च एको द्रव्यार्थतया पर्यायार्थतस्त्वनन्तपर्याय इति, अथवा-सिद्धानामन्तत्वेऽपि तत्सामान्यादेकत्वम् / अथवा कर्मशिल्पविद्यामन्त्रयौगागमार्थयात्राबुद्धितपः कर्मक्षयभेदेननिकत्वेऽप्यस्यैकत्वं / सिद्धशब्दाभिधेयत्वसाम्यादिति। कर्मक्षयसिद्धस्य च परिनिर्वाणम् / स्था० 1 ठा० / कर्मप्रपञ्चनिर्मुक्ते, पा० / अंपगतसकलकर्ममले, चं० प्र०१ पाहु0 1 दशा० / भ० / दश० / आव०। अशेषद्वन्द्रररिते, सूत्र० 1 श्रु० 1 अ० 4 अ०। शुक्लध्यानानलनिर्दग्धक्रमेन्धे मुक्तिपदभाजि जीवे, पा० / अपगतसकतकर्माशेन परमसुखिनि एकान्तकृतकृत्ये आ० म० 1 अ० / कर्मविगमात् कृतकृत्ये, ल०। आव० 2 अ० / निर्दग्धानेकभवकर्मेन्धने, ल०। जी०। सूत्र० सेवा०। पं० सू० / आ० चू० / सिद्ध खेत्तलोगस्स निरवसेसाणं च कम्मपगडीणं जो खाइ भावलोगो तस्स उत्तमा खीणसव्वकम्म त्ति भणितं होति / आ० चू०४ अ० / सिद्धः पञ्चदशविधः। विशे०। अथ सिद्धनमस्कारं व्याचिख्यासुराहसिद्धो जो निप्फन्नो, जेण गुणेण स य चोहसविगप्पो / नेओ नामाईओ, ओयणसिद्धाइओ दव्वे // 3027 // इह 'सिद्ध' इति कोऽर्थः ? उच्यते - "षिध संराद्धौ' राध साध संसिद्धौ षिधू शास्त्र माङ्गल्ये च' सिध्यति स्म सिद्धो यो येन गुणेण निष्पन्नः-परिनिष्ठितः, न पुनः साधनीय इत्यर्थः / स च सिद्धः सामान्यतो नामसिद्धादिभेदाचतुर्दशविधोज्ञयः। तत्र नामस्थापनासिद्धौ सुगमौ। द्रव्यसिद्धस्तु सिद्धोनिष्पन्न ओदनः, आदिशब्दात्पाकोत्तीर्ण घटादिगृह्यते, अस्यौदनादेर्निष्पन्नत्वगुणेन परिनिष्टितत्वात्। अप्रधानत्वेन च द्रव्यत्वात् इति गाथार्थः / शेषानेकादश सिद्धभेदानाह -- कम्मे सिप्पे य विजाए, मंते जोगे य आगमे / अत्थ जत्ता अभिप्पाए, तवे कम्मक्खए इय // 3028|| कर्मसिद्ध शिल्पसिद्धौ, विद्यासिद्धः, मन्त्रसिद्धः, योगसिद्धः, आगमसिद्धः, अर्थसिद्धः, यात्रासिद्धः, अभिप्रायोबुद्धिपर्यायस्ततो बुद्धिसिद्धः, तपःसिद्धः, कर्मक्षयसिद्धः / इति नियुक्तिश्लोकसमासार्थः / एतेषां च कर्मादिसिद्धानां स्वरूपप्रतिपादनपराः 'कम्मं जमणाईओ' इत्यादिकाः 'न किलम्मइ जो तवसा' इतिगाथापर्यन्ता एकचत्वारिंशद् गाथाः सकथानकभावार्था मूलावश्यकटीकातोऽवसेया इति / अथ कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिपादयन्नाहदीहकालरयं जंतु-कम्मं से सियमहहा / सियं धंतं ति सिद्धस्य, सिद्धत्तमुवजायइ // 3026 / व्याख्या-दाघः संतानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तद् दीर्घकालम्, निसर्गनिर्मलजीवस्यानुरञ्जनाद् मालिन्यापादनाद् रजः, अथवा-स्नेहेन बन्धनयोग्यं भवतीति साम्याद्रजः सूक्ष्मत्वसाम्याद् वा रज इति कर्मण एव विशेषणम्, दीर्घकालं च तद् रजश्चेति दीर्घ कालरजः 'नं तु कम्मति' दीर्घकालरजोरूपं यत्कर्म दीर्घकालस्थिातकं रजोरूपं यत् कर्मेत्यर्थः, एतचैवंविधं कर्म, तुशब्दस्य विशेषणार्थत्वादत्र भव्यस्य, संबन्धि गृह्यते, नाभव्यस्य, तस्य वक्ष्यमाणध्मातत्वायोगात्, अथवा भव्यसंबन्धित्वमिह कर्मणो ध्मातत्वसामर्थ्यादेव लभ्यते। यच्छब्दोऽपि साक्षादुपात्ते कर्मणि न तथाविधं साफल्यमनुभवति; अतः 'जंतुकम्म' इत्येतदन्यथा व्याख्यायतेजन्तु-जीवस्तस्य कर्म जन्तुकर्म / अनेनाबद्धकर्मव्यवच्छेदमाह - वद्धं यत् कर्मेत्यर्थः / कथंभूतं यत्कर्म जन्तुकर्म वा ? इत्याह- 'से सियमट्टह' त्ति झानावरणाद्यष्टप्रकारैः पूर्व 'से' तस्य सितं बद्धमित्यर्थः / अथवा 'से सियं' ति अनाभोगनिर्वर्तितयथाप्रवृत्तकरणेन सम्यग्ज्ञानाद्युपायतश्च क्रमेण शेषितं शेष कृतं, स्थित्यनुभवादिभिरल्पीकृतमित्यर्थः / तद् दीर्घकालस्थितिक रजोरूपं भव्यस्य संबन्धि यत्कर्म जन्तुकर्म वा पूर्वमष्टधा बद्धं तत् कर्म शेषितं सत्, किम् ? इत्याह - "सियं धंतं ति' ति सितमित्थं बद्धं ध्मातं तीव्र ध्यानानलेन दग्धं क्षपितं महाग्निना लोहमलवदस्येति सिद्ध इति निरुक्तिः / एवं च कर्मदहनान्तरं सिद्धस्यैव सतः सिद्धत्वमुपजायते नासिद्धस्य, 'नेरइएसु उववजई' इत्यादि-निश्चयनयमताश्रयणादिति। उपजायत इति तदात्मनः स्वाभाविकं सत्सिद्धत्वमनादिकर्मावृतं तदावरणविगमेनाविर्भवत्येव, न पुनरसदुपजायत इति प्रतिपत्तव्यम्, असतः खरविषाणस्येव जन्मायोगादिति। अथवा सिद्धस्य सिद्धत्वं __सद्भावरूपमुपजायते न तु प्रदीपनिर्वाणकल्पमभावरूपमिति। एवं नयम
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy