SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ सिक्खा 811 - अभिधानराजेन्द्रः - भाग 7 सिक्खा एवमाचार्यैरुक्ते शिष्य आतुरदृष्टान्तमाहभन्ते ! जह रोगत्तो, पुच्छति बेजं न संहियं पढइ / इय कम्मामयविज्जे, पुच्छिय तुन्भे करिस्सामि / 347 // भगवन् ! यथा रोगातः पुरुषो वैद्यमेव पृच्छति न पुनवैद्य क-संहितां / पठति,एवमहमपि युष्मान् कर्मामयवैद्यान् कर्मरोगचिकित्सान् पृष्ट्वा / सर्वामपि क्रियां करिष्यामि न पुनः श्रुतं पठिष्यामीति / गुरुराह - भण्णइ न सो सयं चिय, करेति किरियं अपुच्छिओ रोगी।। नायव्वो अहिगारो, तुम पि नाउं तहा कुणसु // 35 // भण्यते अत्रोत्तरम्- यद्यपि नासौ रोगी वैद्यमपृष्ट्वा स्वयमेव क्रियां करोति, तथापि तस्य ज्ञातव्ये क्रिग्रायाः परिज्ञानेऽधिकारोऽस्ति, यथा स वैद्यो भूयो भूयः प्रष्टव्यो न भवति एवं यद्यपि त्वमस्मान् पृष्ट्वा सर्वामपि क्रियां करिष्यसि तथापि सूत्रमधीत्य षट्कायरक्षणविधि जानीहि / ज्ञात्वा च तथा कुरु बहुशः प्रष्टव्यं न भवति / शिष्यः प्रतिभणति - दूरे तस्स तिगिच्छी, आउरपुच्छा उ जुञ्जई तेणं / सारेहिं ति सहीणा, गुरुमादि जतो न हिज्जामि // 346 / / तस्यातुरस्य दूर-दूरवर्ती स चिकित्सी वैद्यःअत आतुरस्य क्रियाया अपरिज्ञाने वैद्यान्तिके पृच्छा युज्यते / मभ पुनर्गुरव आदिशब्दाद्उपाध्यायादयः स्वाधीना एव अतो ज्ञास्यन्ति ते भगवन्तः, स्वयमेव मदीयं स्खलित ज्ञात्वा सम्यग् मां सारयिष्यन्ति / यत एवमत एवाह नाधीये-न पठामीति। सूरिराह - आगाढकारणेहिं, गुरुमादी ते जया न होहिंति / तइया कहं तु काहिसि, जहा व सो अंधलो थेरो // 350 // आगाढैः- कुलादिभिः कारणैर्यदा ते गुर्वादयस्तव स्वाधीना न भविष्यन्ति तदा कथं नाम त्व 'काहिसि' करिष्यसि / यथा वा सः अन्धः स्थविरः। तथाहि - अट्ठसुय थेरअंधल-तणं अत्थि मे बहूणि अच्छीणि / अप्पट्ठणप्पलिते-डहणं अपसत्थगपसत्थे // 351 / / उज्जेणीनाम नगरी / तत्थ सोमिलो नाम बंभणो परिवसति / सो य अधलीभूयो तस्स य अट्ठ पुत्ता, तेसिं अट्ठभज्जओ सो पुत्तेहिं भण्णति, अच्छीणं किरिया कीरउ। सो पडि भणति तुम्भ अट्ठण्ह पुत्ताण सोलस अच्छीणि सुण्हाण वि सोलस, बंभणीए, दोन्नि एते चउतीसं, अन्नस्स य परियणस्स जाणि अच्छीणि ताणि सव्वाणि मम एते चेव पभूया / अन्नया घरं पलित्त तत्थ तेहि अप्पदत्तहिं सो न च तओ नीणिओ तत्थेव रडतो दड्डो। एस अपसत्थो दिठंतो। मा एव डज्झिहिसि संसारे असुभकम्मेहि। इमो पसत्थो तत्थेव अधलयथरो नवर ति ण किरिया कारिया सो मणुस्साणं भोगाणं अभोगी जाओ। एव तुम पि कज्जाकज्ज | वियाणित्ता संसाराता न तिरिहिसि / " अथ गाथाक्षरार्थ:- सोमिलस्थविरस्याष्टौ सुताः परं तस्यान्धत्वं बभूव / गाथायामन्ध शब्दात्"विद्युत्पत्रपीतान्धाल्लः" / / 173aa इति प्राकृते स्वार्थिको | लः प्रत्ययः / स च पुत्रैश्चक्षुश्चिकित्साकारणार्थमुक्तः सन् वक्ति सन्ति मे पुत्रादीनां बहून्यक्षीणि, तैरेव मदीयं कार्यं सेत्स्यति / अन्यदा च ग्रहे प्रदीपनं लग्नं ततस्ते पुत्रादयः 'अप्पटेण' त्ति आत्मरक्षणपरास्त्वरितं प्रनष्टाः, स्थविरान्धस्य प्रदाप्त गृहे दहनम् / एषोऽप्रशस्तो दृष्टान्तः / प्रशस्तस्तु विपरीतः / स चोपदर्शित एव उपनययोजनाऽपि कृतैव / कृतमप्युक्तोऽसौ न प्रतिपद्यते श्रुताध्ययनम्। अतो भयोऽयि करुणापरीतचेतसः सूरयः प्राहुःमा एवमसग्गाहं, गिण्हसु गिबहस सुयं तहयचक्खं / किं वा तुमेऽनिलसुतो, न स्सुयपटवो जवो गया // 352 / / सौम्य ! मैवमसद्ग्राहं गृहाण, गृहाण सूक्ष्मव्यवहिता-दिष्वतीन्द्रियार्थेष तृतीयचक्षुः कल्पं श्रुतं किं वा त्वया न श्रुतपूर्वोऽनिलनरेन्द्रसुतो यवा राजा / बृ०१उ०२ प्रक०। उत्त०। आ०चून आ० क०आव० ('जवराज' शब्दे चतुर्थभागे तत्कथा / ) (श्रुताऽध्ययने अमी गुणा आत्महितादयः 'सुय' शब्दे वक्ष्यन्ते।) ग्रहणासेवनारूपायां शिक्षायाम्, आ० क०। (संपूर्णा कथा 'अणिस्सिओवहाण' शब्दे प्रथमभागे 335 पृष्ठे अवंतिसुकुमाल' शब्दे च 787 पृष्ठ गता।) पञ्चमशिक्षाद्वारमाह - खिइवणउसभकुसग्गं, रायगिहं चंपपाटलीपुत्तं / नद सगडाले थूल-भवसिरिए वरराई अ॥१८३|| आ० क० 4 अ० / आव० ! (कथाः स्वस्वस्थानतोऽवसेयाः / ) ("अहा पंचहिँ ठाणेहिं, जेहिं सिक्खा न लब्भइ। धस्सा कोहप्पमारणं, रोगेणालस्सएण य // 1 // " "बहुस्सुय' शब्दे पञ्चमभागे व्याख्यातैषा / ) पंचहिं ठाणेहिं सुत्तं सिक्खेजा,तंजहा-णाणट्ठयाएदसणट्ठयाए चरित्तट्ठयाए वुग्गहविमोयणट्ठयाए अहत्थे वा भावे जाणिस्सामि त्ति कटु ! (सू०-४६०x) ज्ञान-तत्त्वानां परिच्छेदो दशनम्-तेषामेव श्रद्धानं चारित्रम्सदनुष्ठानं व्युदग्रहो-मिथ्याभिनिवेशस्तस्य तस्माद्वा परेषां विमोचन व्युद्ग्रहविमोचनं तदर्थाय तदर्थतया वा 'अहत्थे ति यथास्थान- यथावस्थितान् यथार्थान् वा-यथाप्रयोजनान् भावान् जीवादीन्यथार्थान्वायथाद्रव्यान् भावान-पर्यायान ज्ञास्यामीति कृत्वा इति हेतोः शिक्षत इति / स्था० 5 ठा०३ उ० / उद्यमेन ग्रहणम् / सूत्र०१ श्रु० 8 अ०। (एण्डको वार्तिकः क्लीवश्च न शिक्षणीय इति 'पव्वजा' शब्दे पञ्चमभागे 756 पृष्ठे गतम।) (लघुवालकं प्रवाज्य तस्मै ग्रहणशिक्षा सा दशवैकालिकादिसूत्रं पाठनीयम्, आसेवनाशिक्षा यत्परिधापनादि शिक्षते इत्यादि 'पव्वजा' शब्दे 775 पृष्ठे उक्तम् / ) शिष्यं यथाचार्यः शिक्षयेत्-गुणसपदयोग्यान् कथेचित्प्रमादिनोऽपि दृष्ट्वा धमानुगतैः मधुरवचोभिराचार्यस्तान् शिक्षयेत्, यथा तेषां मनःप्रसादमेव विशिष्टगुणप्रतिपत्त्यभिमुखमश्नुते न कोषं प्रतिपन्नगुण भंशकारणमिति / उक्तं च- "धम्ममइएहि अइसुं-दरेहि कारणगुणोवणीएहिं पल्हायंतो य मणं, सीसं चोएइ आयइरिओ" ||1|| (अन्ययूथिकं गृहस्थं वा शिक्षयेदिति 'अण्णउत्थिय' शब्दे प्रथमभागे 475 पृष्ठे उक्तम् / ) (अन्तरगृहे शिक्षा न कर्तव्येत्युक्तम्, 'अंतरगिह' शब्दे प्रथमभागे 86 पृष्ठे।) शिक्षयितुं द्वे दिशौ ग्राह्ये प्राचीना, उदीचीना च / स्था० 2 ठा० 5 उ०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy