SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ संखडि 46 - अभिधानराजेन्द्रः - भाग 7 संखडि डिं ज्ञात्वा तत्र च केनचित्स्वजनादिना तन्निमित्तमेव किञ्चिद हियमाणंनीयमानं प्रेक्ष्य तत्र भिक्षार्थं न गच्छेद्, यतस्तत्र गच्छतो गतस्य च दोषाः सम्भवन्ति। तांश्च दर्शयति-गच्छतस्तावदन्तरा- अन्तराले तस्य भिक्षोः मार्गाः पन्थानो बहवः प्राणाः-प्राणिनः पतङ्गाकदयो येषु ते तथा, तथा बहु बीजा बहुहरिता बहुवश्याया बहूदका बहूतिङ्गपनकोदक - मृत्तिकामर्कटसन्तानकाः / प्राप्तस्य च तत्र संखडिस्थाने बहवः श्रमणब्राह्मणाऽतिथिकृपणवनीपका उपागता उपागमिष्यन्ति तथोपागच्छन्ति च। तत्राकीर्णा चरकादिभिः-वृत्तिः-वर्तनम् अतोन तत्र प्राज्ञस्य निष्क्रमणप्रवेशाय वृत्तिः कल्पते, नापि प्राज्ञस्य वाचनाप्रच्छनापरिवर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै वृत्तिःकल्पते, नतत्रजनाकीर्ण गीतवादिवसम्भवात् स्वाध्यायादिक्रियाःप्रवर्तन्त इति भावः / स भिक्षुरेवं गच्छगतापेक्षया बहुदोषां तथाप्रकारां मांसप्रधानादिकां पुनः संखडिं पश्चात्संखडि वा ज्ञात्वा तत्प्रतिज्ञया नाभिसन्धारयेद्मनायेति / साम्प्रतमपवादमाह-स भिक्षुरध्वनि क्षीणो ग्लानोत्थितस्तपश्चरणकर्षितो वाऽवमौदर्य वा प्रेक्ष्य दुर्लभद्रव्यार्थी वा स यदि पुनरेवं जानीयात्मांसादिकमित्यादि पूर्ववदालापका यावदन्तरा अन्तराले 'से' तस्य भिक्षोर्गच्छतो मार्गा अल्पप्राणा अल्पबीजा अल्पहरिता इत्यादिव्यत्ययेन पूर्ववदालापकः / तदेवमल्पदोषां संखडिं ज्ञात्वा मांसादिदोषपरिहरणसमर्थः सति कारणे तत्प्रतिज्ञयाऽभिसन्धारयेद्मनायेति। आचा०२ श्रु० 1 चू०१ अ०४ उ०। संखडिप्रलोकनाय न गच्छेत्। सूत्रमसंखडिं वा संखडिपडियातिए (एतुं) एत्तए।॥४८॥ अथाऽस्य सूत्रस्य सम्बन्धमाहदुविहाऽवाता उ विहे, वुत्ता ते होज्ज संखडीए तु। तत्थ दिया विन कप्पति, किमु राती एस संबंधो ||1|| 'दुविहे' ति अध्वनि गच्छता संयमात्मविराधनाभेदाद् द्विविधाः प्रत्यपाया उक्ताः, संखड्यामपिगच्छतांतएव प्रत्यपाया भवेयुः अतस्तत्र दिवाऽपि गन्तुं न कल्पते. किमुत रात्रौ, एष सम्बन्धः / अनेन सम्बन्धेनाथातस्यऽस्य (सूल 48) व्याख्या- 'संखडिं वे' ति वाशब्दान्न कल्पते इत्यादि पदान्यनुवर्तनीयानि। तद्यथा-न केवलमध्वानं रात्रौ वा विकाले वा गन्तुं न कल्पते, किन्तु - संखडिमपि रात्रौ वा विकाले वा संखडिप्रतिज्ञया एतु- गन्तुं न कल्पते. एष सूत्रसंक्षेपार्थः। __ अथ भाष्यकारो विस्तरार्थ बिभणिषुराहसंखंडिजति आऊ-णि जियाणं संखडी स खलु वुचइ। तप्पडिआएँ ण गम्मति, अन्नत्थ गते सिया गमणं IEERI समिति-सामस्त्ये न खण्ड्यन्ते-ताड्यन्ते जीवानां वनस्पतिप्रभृतीनामायूंषि प्राचुर्यण यत्र प्रकरणविशेषे सा खलु संखडिरित्युच्यते। 'सूरेभ्यः' इत्यौणादिक इप्रत्ययः, पृषोदरादित्वादनुस्वारलोपः / ता 'संखडिजति जहिं आऊणि जियाण संखडि' तत्प्रतिज्ञया संखडिमहं गमिष्यामोत्येवंलक्षणया गन्तुंन कल्पते। एवं ब्रुवता सूत्रेणेदं सूचितम्अन्यार्थमपरकार्य निमित्तं संखडिगाम तस्य संखड्यामपि गमनं स्यादिति। राओ व दिवसतो वा, संखडिगमणे हवंतिऽणुग्घाया। संखडिएगमणेगा, दिवसेहिं तहेव पुरिसेहिं / / 663 // रात्रौ वा दिवसतो वा संखड्यां गमने चत्वारोऽनुद्धाताः प्रायश्चित्तम्। सा च संखडी दिवसः पुरूषैश्च एका अनेका च भवति / इदमेव स्पष्टयतिएगो एगदिवसियं, एगो ऽणेगाहियं च कुजाहि। ऽणेगा व एगदिवसि तु, ऽणेगा व अणेगदिवसिं तु |4|| एकः पुरूषः एकदैवसिकी संखडी कुर्यात्, एकोऽनेकाहिकामनेकदेवसिकीम्, अनेके पुरूषाः सभूयैकदैवसिकीम्, अनेके पुरूषा अनेकदैवसिकी संखडिं कुर्वन्ति। एकेक्का सा दुविहा, पुरसंखडि पच्छसंखडी चेव / पुव्यावरसूरम्मि, अहवा वि दिसाविभागेणं / / 665|| एकैका-एकदैवसिकी अनेकदैवसिकी च संखडिः प्रत्येक द्विविधापुरःसंखडी, पश्चात्संखडी च। या पूर्वसूर्यपूर्वदिग् विभागमध्यासीने रवो क्रियते सा पूर्वसंखडी, या पुनरपरसूर्ये सा पश्चात्संखडी / अथवादिग्विभागेनानयोः पुरः पश्वाद्विभागो विज्ञेयः / या विवक्षितग्रामादेः सकाशात्पूर्वस्यां दिशि भवति सा पूर्वसंखडी, या तुतस्यैवापरस्यां दिशि सा पश्चात्संखडी। अत्र प्रायश्चित्तमाहदुविहाऐं विचउगुरु, विसेसिया मिक्खुमादिणं गमणे। गुरुगादिव जा सपयं, पुरिसेगअणेगदिणरातो ||666|| द्विविधायामपि अनन्तरोक्तायां संखड्यां गमने चतुर्गुरूकाः एते च भिक्षुप्रभृतीनां तपःकालविशेषताः, भिक्षोस्तपसा कालेन च लघवः, वृषभस्य तपसा लघवः, उपाध्यायस्य कालेन लघवः, आचार्यस्य तपसा कालेन च गुरवः / अथवा चतुर्गुरूकमादौ कृत्वा एकानेकपुरूषकृतैकानेकदैवसिकसंखडीषु रात्रौ गच्छतः स्वपदं यावत् वेदितव्यम्। तद्यथा-भिक्षुरेकेषुरूषकृतामेकदैवसिकी संखडिं व्रजति चतुर्गुरवः, एकपुरूषकृतोनकदैवसिक्यां षड्लघवः, अनेकपुरूषकृतानकदैवसिक्या छेदः, एवं भिक्षुविषयमुक्तम्। वृषभस्य षड्लधुकादारब्धं मूले, उपाध्यायस्य षड्गुरुकादारब्धमनवस्थाप्ये, आचार्यस्य छेदादारब्धं पाराञ्चिके निष्ठामुपयाति। प्रकारान्तरेण प्रायश्चित्तमेवाहआयरियगमणे गुरुगा, वसभाण असारणम्मि चउलहुगा। दोण्ह वि दोण्णि वि गुरुगा, वसभपलातेतरे सुद्धा / / 667|| आचार्यस्य संखड्यां गच्छाम इति ब्रुवाणस्य चत्वारो गुरवः, तमेवं ब्रुवाण वृषभा न वारयन्ति चतुर्लघुकाः / अथाचार्येण संखडी व्रजाम इत्युक्ते वृषभा अपि व्रजाम इति भणन्ति ततो द्वयोरपि वृषभाचार्ययोः चत्वारो मासास्ते द्वयेऽपि गुरुकाः कर्त्तव्याः, वृषभाणामपि चतुर्गुरूका भवन्तीति भावः / अथ वृषभैर्वारिता अप्याचार्या बलमोडिकया गच्छन्ति ततसते आचार्याः प्रायश्चित्ते लग्नाः। इतरे वृषभास्तु शुद्धान प्रायश्चित्तभाज इति /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy