SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ सामण्णविसेस 674 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस गन्तृत्वाभावात्, वस्तुरूपस्य अध्यक्षत एव अभिगमात्, स्वाधिगमस्य च इतरत्रापि भावात्, तदन्यस्य च इतरत्रापि अभावादिति / एवं प्रवर्तकत्वादि अपि अस्य समानमितरेण, तत्रापि रूपादिनिश्चयादेव प्रवृत्तेः / व्यवहारे प्रमाणमेवाऽयमिति चेत्, क्व तर्हि अप्रमाणमिति? रूपादावेव इति चेत्,कुतोऽयं तत्राऽकारणो द्वेषः? प्रागेव तदधिगमादिति चेत्, समानोऽयं त्वन्नीत्या अनित्यत्वादी, तथापि न तद्वत् तदर्शनमिति चेत्, न तर्हि प्राक् तद्वत् तदधिगमोऽन्यथा रूपादिनिश्चयवत् स्यात् तदा एवाऽयं निमित्ताविशेषात्, तदधिगमस्यैव तत्त्वतस्तन्निमित्तत्वात् वाधकानुपपत्तेः विशेषेण भावात् एकान्तैकत्वात्, अन्यथा तदनुपपत्तेः। तथा च आह-न हि प्रत्यक्ष भागशो-भागेन उत्पद्यते, कुत इत्याह-. तस्य निरंशत्वात्-सुलक्षणमेतद् इति निरंशम्, सत्यं नोत्पद्यते भागशः प्रत्यक्षम् , इति- अस्मात् अनुमानविकल्पपरामर्शाऽऽलम्बनम् अपि, तत्र वस्तुनि, गृहीतमेव-प्रक्रमाद् प्रत्यक्षेण, केवलं गृहीतेऽपिसति, येषु आकारेषु-अनित्यत्वादिषु, न तदनन्तरमेव-न दर्शनाऽनन्तरमेव, निश्चयोत्पत्तिः, भूयसा--बाहुल्येन, व्याप्ति दर्शनात्तु-अविनाभावदर्शनन पुनर्भवति, तद्विषय एवअनित्यत्वादिविषय एव, अनधिगतार्थाधिगन्तृत्वात् कारणात्, प्रमा-णमनुमानविकल्पो नेतरो-रूपादिविकल्प इति / एतदाशङ्कयाह यत् किञ्चिदेतत्-अनन्तरोदितमसारमित्यर्थः / कुत इत्याह- अनालोचिताभिधानत्वात् कारणात्, अनालोचिताभिधानत्वं च ग्राह्ये वस्तुनि आकाराभावात्, अभावश्च सर्वथा--एकान्तेन, एकस्वभावत्वाभ्युपगमाद् वस्तुन इति, परिकल्पितास्ते इति / एतदपोहाय आह- परिकल्पितानाम्- आकाराणाम्, असत्त्वात् तत्त्वेन, तत्सत्त्वेपरिकल्पिताऽऽकारसत्त्वे, नियमतो –नियमेन, अतिप्रसङ्गात् परिकल्पनया विरोध्याऽऽकारभावेनतथा युक्तितो न्यायतः, व्याप्त्यसिद्धेः कारणात्, असिद्धिश्च तद्भावस्यव्याप्ति-भावस्य,कथश्चिद् भेदनिमित्तत्वात् व्याप्यव्यापकयोरिति प्रक्रमः किमित्येतदेवमित्याहअन्यथा-एवमनभ्युपगमे, व्याप्यव्यापकयोः एकान्ताभेदादी इत्यर्थः, तदयोगात्- व्याप्तिभावायोगात् / एतदेव भावयति- नहीत्यादिना न यस्मात्, अभेदवत एव एकान्तै-कस्य एव इत्यर्थः, अनित्यत्वस्य स्वात्मना अनित्यत्वेन एव व्याप्तिः,अनित्यत्वस्य अनित्यत्वेन व्याप्तिरिति व्यवहाराऽयोगाद् / न च भिन्नयोरेव एकान्तेन हिमवद्विन्ध्ययोरिति भावनीयम्। तथा अनधिगतार्थाऽधिगन्तृत्वाऽभावाद् अनुमानविकल्पस्य। अभावश्च वस्तुरूपस्य अध्यक्षत एव-प्रत्यक्षेण एव इत्यर्थः, अधिगमात्, ततश्च आत्मानमेव अधिगच्छति अनुमानविकल्प इति पराभ्युपगमः। एनमेवाधिकृत्य आह-स्वाधिगमस्य च इतरत्रापि रूपादिविकल्पे भावात्, तदन्यस्य च अनधिगतस्य, इतरत्राऽपि अनुमानविकल्पेऽपि अभावात्, इति अनालोचिताऽभिधानत्वमिति / एवं प्रवर्तकत्वादि अपि अस्य प्रक्रमाद अनुमानविकल्पस्य समानम्, इतरेण रूपादिविकल्पेन / कुत इत्याह-तत्राऽपिरूपादिविकल्पे सति, रूपादिनिश्चयादेव प्रवृत्तेरिति, व्यवहारे-प्रवृत्त्यादिरूपे, प्रमाणमेवाऽय, रूपादिविकल्प इति चेत् / एतदाशङ्कयाह-वतर्हि अप्रमाणमिति? रूपादौ एव इति चेत् अप्रमाणम, कुतोऽयं तत्र रूपादौ, अकारणो द्वेषः? प्रागेव अविकल्पेन, तदधिगमात्रूपाद्यधिगमात् इति चेत् / एतदाशङ्कयाह- समानोऽयम्-अधिगमः, त्वन्नीत्या अनित्यत्वादौ अनुमेये तथाऽपि एवमपि, नतद्वद्-रूपादिवद् तद्दर्शनम्-नित्यत्वादिदर्शनमिति चेत्। एतदा-शक्याह-न तर्हि प्राग् अविकल्पेन, तद्वद्-रूपादिवत्, तदधि-गमः-अनित्यत्वाद्यधिगमः, अन्यथा यदि स्यात, ततो रूपादि-निश्चयवत्, स्यात्, तदा एवाय नित्यत्वादिनिश्चयः / कुत इत्याह-निमित्ताऽविशेषात् अविशेषश्च तदधिगमस्य एव अविकल्पेन रूपाद्यधिगमस्य एव, तत्त्वतः-परमार्थेन, तन्निमित्तत्वात-अनित्यादिनिश्चयनिमित्तत्वात्, बाधकानुपपत्ते: रूपादिनिश्चयानुमानेन, तथा च आह-अविशेषेण भावात् रूपाद्यधिगमवद् अनित्यत्वाद्यधिगमत्वेन भावात्, भावश्च एकान्तैकत्वात् अधिकृताधिगमस्य / इत्थं च एतदङ्गीकर्तव्यमित्याह-अन्यथा तदनुपपत्तेः / एकान्तै-कत्वाऽनुपपत्तेरधिकृतानुभवस्य रूपादिनिश्चयवत् स्यात् तदा एव अयमिति स्थितम्। दूषणान्तरमभिधातुमाहकिश्च-अयमधिकृ ताधिगमः किं स्वगृहीतनिश्चयजननस्वभावः? उतसमारोपजननस्वभावः? आहोस्विद्-उभयजननस्वभावः? उताहो-अनुभयजननस्वभाव इति? यदि स्वगृहीतनिश्चयजननस्वभावः, निरवकाशः समारोपः, न चासौ अन्यनिमित्तोऽनिमित्तो वा / अथ समारोपजननस्वभावः, कुतोऽस्माद् निश्चयजन्म, अतत्स्वभावभावे अतिप्रसङ्गात् / उभयजननस्वभावत्वे विरोधः,न्यायाऽविरोधेऽपि अभ्युपगमबाधा। अनुभयजननस्वभावत्वे तदुभयाभावः, तथा च प्रतीतिविरोध इति / एकान्तेन च निर्विकल्पकप्रत्यक्षवादिनो न न्यायतो रूपादिनिश्चयाऽनुमान-निश्चययोर्भ द इति सूक्ष्मधिया भावनीयम्। कि होत्यादि। किश-अयमधिकृताधिगमः अविकल्परूपः, किं स्वगृहीतनिश्चयजननस्वभवः? उतसमारोपजननस्वभावः? आहोस्विद् उभयजननस्वभावः? उताहो-अनुभयजननस्वभाव इति? किश्चातः? सर्वथाऽपि दोष इति। आह च-यदि स्वगृहीतनिश्वयजनन स्वभावः / ततः किमित्याह-निरवकाशः समारोपः तन्निमित्ताधिगमस्य स्वगृहीतनिश्चयजननस्वभाव चात्, न च असौ-समारोपः अन्यनिमित्तोऽनिमित्तो वा, किं तर्हि : अधिकृताधिगमनिमित्त एव, तदा अन्यस्य अभावात्। अथ समारोपजनन
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy