SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ सामण्णविसेस 665 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस स्वभावः, अपि तु तथाविलम्चितादित्वेन समयापेक्षितस्मृतिपूर्वकत्वेन, जलगतभिधेयपरिणामापेक्षी, तदभिधानस्वभावोऽपिजलाभिधानस्वभावोऽपि / कुत इत्याह तथा तत्प्रतीत:-तथा-विलम्बितादित्वेन जलप्रतीतेरिति / तद्वैचित्र्येण-प्रक्रमादनलशब्दस्वभाववैचित्र्येण, दोषाभावात्पूर्वोक्तदोषनिवृत्तेरित्यर्थः / क्षयोपशमवैचित्र्यतः कारणात, तथाप्रवृत्तेः- जलेऽनलशब्दसमयप्रवृत्तेः। अन्यथैवमनभ्युपगमे, अहेतुकत्वेन. तदभावप्रसङ्गात्-तथा प्रवृत्त्यभावप्रसङ्गादिति। एतेनाऽनन्तरोदितेन, तथानुभवसिद्धेनोक्तनीत्या, समयाद् जलेऽप्यनलशब्दात, प्रतीतिभावतः संवेदनसिद्धेन शब्दार्थक्षयोपशमानां स्वभाववैचित्र्येण, किमित्याह- एतदपि प्रत्युक्तम् / यदुक्तं परैः, किं तदित्याहशब्देन्द्रियार्थयोः शब्दश्चेन्द्रिय च शब्देन्द्रिये, तयोरी -विषयो तयोर्भेद एव / कुत इत्याह-- अव्यावृतेन्द्रियस्य पुंसः, अन्यवाग्मात्रेणैव-अन्यस्माद् वाग्मानं तेनैव, इन्द्रियार्थाऽविभावनात्- इन्द्रियार्थाऽदर्शनाद्, विभावनंदर्शन, तथाहि-प्रतीतमेतत्, न शब्दादेव पश्यतीति।तथेन्द्रियादेव च सकाशात्, शब्दार्थाप्रतीतेनहि पनस पश्यन्नप्यकृतसमयो वाह्नकः पनसमित्यवतीत्यादि। आदिशब्दात्-"अन्यदेवेन्द्रियग्राह्य-- मन्यः शब्दस्य गोचरः / शब्दात् प्रत्येति भिन्नाक्षो, न तु प्रत्यक्षमीक्षते" / / 1 / / इत्याद्येतत् समानं गृह्यते, इत्येतदपि प्रत्युक्तम् / यथा प्रत्युक्तम्, तथा मन्दमतिहिताय मनागुपप्रदर्शयन्नाह-नखल्वित्यादिना। न खलुनैव, अव्यापृतेन्द्रियोऽपि पुमान् / किं विशिष्ट इत्याह- तत्क्षयोपशमयुक्तः-प्रक्रमात्, इन्द्रियज्ञानावरणक्षयोपशमयुक्तः, अन्यवाइमात्रेण हेतुना, - विभावयत्येव-न पश्यत्येव, मत्याभोगेनेन्द्रियार्थम. "द्वी प्रतिषेधौ प्रकृतमर्थं गमयतः" इति कृत्वा, किं तु विभावयत्येव / कुत इत्याह-तपूर्णमानचिह्नादिनिश्चितेः तस्येन्द्रियार्थस्य, वर्णः-कृष्णादिः, मानं-प्रमाणं महदल्पादि, चिह्न खण्डादि,आदिशब्दात्-मसृणत्वादिग्रहः, एतन्निश्चितः / तथाहि-कृष्णं महान्तं खण्ड मसृणमपूर्वमपवरकाद् घटमानयेत्युक्ते तज्ज्ञानावरणक्षयोपशमयुक्तः पुमानध्यक्षमिवमत्यातथैव प्रतिपद्यते। कथमेतदेवम्? इत्याह-तदन्यतुल्यजातीयमध्येऽपि तदाऽऽनयनाय तं प्रति भेदेन प्रवर्तनात्। न ह्यसौ तथा भोगशून्यः प्रवर्तत इति भावनीयम्। तथा क्वचित् प्रतिबन्धाभावे, तत्प्राप्तेः प्रक्रमात् / तस्यान्यवाइमात्रोक्तस्य प्राप्तः, तथा निवेदनात्-तथाऽन्यवाड्मात्रबोधितत्वन निवेदनात्, नैव-न विभावयति इन्द्रियार्थमिति। तथाऽस्पष्ट तु तद्विभावनम्, साक्षात्कारेणाऽक्षव्यापारवैकल्यात्, नत्वेतद्विषयत्वेनन पुनरिन्द्रयार्थाविषयत्वेन, प्रणिधानव्यापारेण तत्रेन्द्रियव्यापारादिति। एवमिन्द्रियादपि सकाशात् क्वचित् न सर्वत्र, तथाविधक्षयोपशमभावे सङ्केतानपेक्ष-शब्दार्थविभावनफलक्षयोपशमभावे, सङ्कतमन्तरेणाऽपि, किमित्याह-- भवति शब्दार्थविभावनम् / कुत इत्याह- तथाऽन्तजल्पाकारादिबोधसिद्धेः किमिदमित्यालोचयतस्तदिदं पूर्वोक्तलिङ्गवत् पनसमिति बोधसिद्धेरित्यर्थः, सिद्धिश्च लोकानुभवप्रा-- माण्यादिति। स्यादेतत्, इत्थमनेकस्वभावत्वे वस्तुनोऽनेकस्यैवाऽनेकप्रमातृभिरवसायः, तथाहि-यदि य एव तत्स्वभाव एकावसायस्य निमित्तं स एवापरावसायस्य, ततस्तयोरैक्यं सर्वथैकनिमित्तत्वात, इतरेतरस्वात्मवत्, तदभेदेऽपितदवसायभेदे, तदेकस्वभावतापत्तिः, तदन्यकार्याणामपि तत्तथातयाऽविरोधादिति / अत्रोच्यते-एकान्तवादिन एवायं दोषः नानेकान्तवादिनः तस्य ह्यचित्रमेवैकम्। न चानेककार्यजननैकस्वभावतां विहाय ततोऽनेकं भवति, अनेककार्यजनने च नाचित्रमेकत्वं, तद्भावेऽपि कात्स्न्ये नैकेन तद्ग्रहात् तदपरावसायग्रहणप्रसङ्गः,तस्य तज्जननस्वतत्त्वस्याऽन्यथा ग्रहणायोगात्, तत्सावधिकत्वात् न निरवधिकं ग्रहणं तद्ग्रहणमिति भावनीयम् / मलसामर्थ्यात् तदग्रहणं, तदग्रहणमेव सर्वथैकत्वात्, अन्यथाऽस्य ग्रहणाग्रहणप्रसङ्गः,तथा च सत्यस्मन्मतानुवाद एव गृह्यमाणागृह्यमाणयोरेक त्वविरोधादिति / तच्चित्रतयैव कथंचित् तद्ग्रहणादेकस्याप्यनेक प्रमातृभिरवसायः, नान्यथा, इत्युक्तदोषानतिवृत्तेरित्यलं प्रसङ्गेन। स्यादतत्, इत्थम्-उक्तनीत्याऽने कस्वभावत्वे, वस्तुनःइन्द्रियादिः, नैकरयेवाऽनेकप्रमातृभिरवसायः / एतदेव भाव-यतितथाहीत्यादिना / तथाहि- यदि य एव तत्स्वभावो वस्तुस्वभावः, एकावसायस्येति-एकस्य प्रमातुरिति प्रक्रमः, अवसाय एकावसायस्तस्य, निमित्ते स एवाऽपराऽवसायस्य प्रमात्रन्तरावसायस्य, ततस्तयोरवसाययोरेक्यम् / कुत इत्याह- सर्वथैकनिमित्तत्वात्, अधिकृतवस्तुस्वभावकत्वेन इतरेतरस्वात्मवदिति निदर्शनम् / एतच्च 'यतः स्वभावतो जातमेकम्' इत्यादिना त्वयाऽव्युक्तमेव / तदभेदेऽपितत्स्वभावाभेदेऽपि, तदवसायभेदे-एकाऽपरप्रमात्रवसायभेदे, तदेकस्वभावतापत्तिः-तस्य वस्तुनः एकस्वभावतापत्तिः। कुत इत्याह-तदन्यकार्याणामपि- तस्माद् विवक्षितस्वभावादन्ये तदन्ये स्वभावा इति प्रक्रमः, तेषा कार्याणि-सदादिविज्ञानादीनि तत्कार्याणि तेषामपि, तत्तथा तया-तस्य वस्तुनः, तथाता एकजातीयविज्ञाना-पेक्षया एकस्वभावा अनेक कार्यजननैकस्वभावता, तया, सामान्येनाऽप्येकस्वभावापेक्षया सदाद्यनेकविज्ञानादिकार्यजननैकस्वभावतया, अविरोधात् तदेकस्वभावतापत्तिरिति। एतदाशड्क्याह- अत्रोच्यते-एकान्तवादिन एवायमनन्तरोदितः- 'ततस्तयोरैक्यम्' इत्यादिलक्षणो दोषः नानेकान्तवादिनः।कुतएतदित्याह-तस्येत्यादि।तस्य एकान्तवादिनः, यस्मात्, चित्रमेवेकमेकान्तैकरूपम् / यदि नामेवं ततः किमित्याहन चानेककार्यजननकस्वभावतां विहाय तत एकस्मात्, इह प्रक्रमे, अधिकृतकस्वभावात्, अनेक भवत्येकापरविज्ञानादि। यदि नामैवं ततः किमित्याह- अनेककार्यजनने वा नाऽचित्रमेकत्वम् / अनेकगर्भकत्वस्य सर्वथैकत्वविरोधात्। दोषान्तरमाह-तद्भावेऽपीत्यादिना। तद्भावेऽपि-अचित्रकस्वभावेऽपि, कात्स्न्ये नसामस्त्येन,एकेन प्र
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy