________________ सामण्णविसेस 652 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस जसत्वापत्तेः / एनामेवाह- सन्निहितार्थदर्शनबलोत्पन्ननिश्चयादपि / सकाशात, पारम्पर्येणार्थान्तरदर्शनशक्तिजत्वाऽऽरेकातः-आशडातः कारणात्, प्रवृत्त्याद्ययोगात्, आदिशब्दात-प्राप्तिपरिग्रहः। एवं तावद भिन्न विषययोः सविकल्पाविकल्पज्ञानयोर्योगपद्यमसंभव्येव निदश्य | साम्प्रतमिदमाह-समानेत्यादि। समानविषययोः पुनरनयोः सविकलाविकल्पज्ञानयोर्भावः,तथा हेतुफलभावेन, भवन्नपि अहिरहि: इत्यादौ, ननो बाधायैनास्माकं बाधार्थम्। कुत इत्याह-अक्रमेणाप्रवृत्तेः-अवग्रहकल्पादविकल्पादवायकल्पसविकल्पभावेन क्रमेण प्रवृत्तेरित्यर्थः / एवं चत्यादि। एवं सति अतीताधर्थगतविकल्पेनापि प्रमात्रा, इन्द्रियज्ञानतो रूपादिग्रहणसिद्धेः' इत्यादि पूर्वपक्षोक्त यावद् 'भिन्नजातीयत्वात्' इत्येतद्, व्युदस्तमपाकृतमवसेयम्। कुतइत्याह-अक्रमप्रवृत्तौ सत्याम्, अतीतादिविकल्परूपादिग्रहणयोरस्यपूर्वपक्षोक्तस्य, साफल्योपपत्तः अन्यथाऽक्रमप्रवृत्तिमन्तरेण वाडवात्रत्वादिति। आह यद्यत्र क्रमः, कथं न संलक्ष्यत इति? उच्यते-उत्पलपत्रशतव्यतिभेदवत् कालसौक्ष्म्यात्, छद्मस्थप्रमातुरनाभोगबहुलत्वात्, अदृष्ट प्रतिबन्धात, वस्तुनोऽनेकधर्मत्वात्, यथाक्षयोपशममबोधप्रवृत्तेः, तस्य च तत्तद्धेतुभेदतो वैचित्र्यादिति। आह-यद्यत्र सविकल्पाविकल्पविज्ञानद्वये, क्रमः, कथन संलक्ष्यते? इति। उच्याले-उत्पलपत्रशतव्यतिभेदवत् कालसौक्ष्म्याद न संलक्ष्यत इति। किमेतदेवमिन्याह-- छद्मस्थप्रमातुरनाभोगबहुलत्वात्। अनाभोगबहुलत्वचादृष्टकर्मप्रतिबन्धात, तथा, वस्तुनः प्रमेयस्यानेकधर्मकत्वात, तथा विभमादिनिबन्धनत्वेन यथाक्षयोपशम यस्य यथा क्षयापशमस्तथाऽवबोधप्रवृत्तः, तस्य च क्षयोपशमस्य, तत्तद्धेतुभेदतो द्रव्यादिभेदन, वैचित्र्यात प्रामान सलक्ष्यत इति। आह-यदि कालसौम्यादत्र क्रमाऽलक्षणम् / एवं तर्हि 'सरः' इत्येवमादिकयोर्वर्णयोरुच्चारणे नितरां कालसौक्ष्म्यमित्यक्रमग्रहणं स्यात् / तथाच क्रमालक्षणात् श्रुतिभेदो न भवेत्, यथा सरो रस इति / इतश्च न भवेद्-युगपदगोचरीभूतविषयेन्द्रियवतोऽविच्छेदेन सर्वोपलब्धौ क्रमपक्षेऽप्यक्रमस्यैव दर्शनात्, स हि वंशादिवादयितूरूपं पश्यति, तदैव ततः शब्दं शृणोति, नीलोत्पलादिगन्धं जिघ्नति, कर्पूरादे रसमास्वादयति आसनादिस्पर्शस्पृशति, चिन्तयति च किञ्चित्, इति तत्त्वतोऽस्यानवरतं सर्वपरिच्छित्तिः / एवं यावदत्राप्ययुगपत्पक्षेऽपि समाश्रीयमाणे पञ्चभिर्विज्ञान य॑वधानेऽपि क्रमभावि सत् तेषामे कै कं विज्ञानमविच्छिन्नमिव प्रतिभाति, तथानुभूतेः। यदैतदेवम्, तदा कथमन्यविज्ञानावृत्तौ वर्णयोर्न सकृच्छुतिः, इत्यविच्छिन्नमेकघनीभूतायतवर्णाकारं दर्शनं न भवति; न च भवति तथाऽप्रतीतेः, इति यत्र क्रमस्तत्र कालसौक्ष्म्येऽप्युपल- | भ्यत एव / न च प्रतीतिं विहाय पदार्थतत्वव्यवस्थापनोपायः, इति यथाप्रत्ययं युगपद्विज्ञानप्रवृत्तिन्यायविदाऽङ्गीकर्तध्या, अन्यथोक्तवद् न्यायोच्छेदप्रसङ्गादिति। आह-यदि कालसौक्ष्म्यादत्र अधिकृते सविकल्पाविक ल्पज्ञानद्वये, क्रमालक्षणम् एवं तर्हि 'सर' इत्येवमादिकयोर्वर्णयोः, आदिशब्दाद्-- रसादिग्रहः, उचारणे नितरां कालसौक्ष्म्यम्, अव्यवधानेनाच्चारणात्, इत्यक्रमग्रहणं सरवर्णयोः स्यात् / तथा चेत्यादि / तथा च सति क्रमालक्षणात कारणात्, श्रुतिभेदः- श्रवण-भेदो भवेत्, यथा सरो रस इति द्विवर्णविषयः / इतश्च न भवेच्छुति-भेदः / कुन इत्याहयुगपदित्यादि। युगपदेकदैव, गोचरीभूतविषयाणि च तानीन्द्रियाणि चेति विग्रहः, तान्यस्य विद्यन्त इति तद्वान्, तस्याऽविच्छेदेन प्रबन्धवृत्त्या, सर्वेषां प्रक्रमाद्विषयाणामुपलब्धिः, सर्वोपलब्धिः, अस्यां सर्वापलब्धी सत्याम्। किमित्याह-क्रमपक्षेऽपि विज्ञानविषये, अक्रमस्येव दर्शनात् एत-देवाक्रमदर्शनमाह-स हीत्यादिना / सहि युगपद्गोचरीभूतविषयेन्द्रियवान्, वंशादिवादयितू रूपं पश्यति, तदैव ततः वंशादेवादयितुः सकाशात्, शब्द शृणोति, तथा, नीलोत्पलादिगन्धं जिनति, तथा कर्पूरादे रसमास्वादयति, एवमासनादिस्पर्श स्पृशति, चिन्तयति च किश्चिन्मनसा, इत्येवं, तत्त्वतोऽस्य युगपद्गोचरीभूतविषरन्द्रि यवतः प्रमातुः। किमित्याह- अनवरतं सर्वपरिच्छित्तिः अनवरतसर्वपरिच्छित्तिरेव, युगपदेवेन्द्रियविषयसंबन्धसिद्धेः। एव तत्त्वव्यवस्थिते सति, यावदत्रापि युगपदनुभवेऽपि तात्विके, अयुगपत्पक्षऽपि समाश्रीयमाणं किमित्याह पञ्चभिर्विज्ञानैर्व्यवधानेऽपि सति अधिकृतन्यायेन, क्रमभावि सद् भवत, तेषां षण्णां विज्ञानानाम्, एकैकं विज्ञान शब्दादिगांचरादि, अविच्छिन्नमिवयुगपदिव. प्रतिभाति / कुत इत्याह-- तधानुभूतेः-- अविच्छेदनानुभूतेः। प्रकृतयोजनामाह-यदेत्यादि। यदैतदेवमनन्तरोदितम्, तदा कथमन्यविज्ञानावृत्तावपान्तराले, वर्णयोः सरादिरूपयाः, न सकृच्छुतिर्न युगपच्छ्रवणमिति। एतदेवाह- अविच्छिन्नम- एकदैव एकधनीभूतश्चासावायतवर्णश्चति विग्रहः, सदाकार दर्शन न भवति / स्यादेतदभवत्येव, इत्याशङ्कानिरासार्थमाह-न च भवति। कुन इत्याहतथाऽप्रतीतेः / इत्येवं, यत्र क्रमस्तत्र कालसौम्येऽप्युपलभ्यत एव यथाऽधिकृतवर्णयोः / न च प्रतीति विहायपरित्यज्य, पदार्थ तत्त्वव्यदस्थापनोपायः, इत्येवं, यथाप्रत्यययथानुभव, युगपद्विज्ञानप्रवृत्तिः षडपेक्षया प्रस्तुतद्वयापेक्षया था, न्यायविदा प्रमात्रा, अङ्गोकर्तव्या, अन्यथैवमनभ्युपगमे, उक्तवद् यथोक्तं तथा न्यायोच्छे इप्रसङ्गात् प्रतीतिबाधेन न्यायानुपपत्तेस्तस्यापि प्रतिबीजवादित्यभिप्राय इति / अत्रोच्यते-यत्किशिदेतत्, वर्णयोः सावयवत्वेनोक्तदोषानुपपत्तेः, सराऽऽदयो हि वर्णाः सावयवत्वे रानेकक्षणलब्धवृत्तयः, तथोपलब्धितस्तत्तत्स्वभावत्वात्, अन्यथा तदनुपपत्तेः, न क्षणिक ज्ञानग्राह्याः, तस्य परमाणुव्य