SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ सागारियपिंड 623 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड अमुकरयां वे लायां नेतव्यमिति निर्दिष्ट द्रव्य कालतश्छिन्नम् / उपलक्षणमिदं तेन नेष्यामीति तत्र भावो-निवृत्तस्तद्भावच्छिन्नम् / अच्छिन्ना त्वाहृतिका चतुर्धाप्येतद्विपरीता। तथा द्वयोर्भङ्ग यो-द्रव्यतः प्रतिगृहीता न भावतः, नापि द्रव्यतो नापि भावतः प्रतिगृहीतत्येवंलक्षणयोर्न सागारिकपिण्डः, परं प्रसङ्गदोषान्न गृह्यते / 'भावओ' त्ति भावतः प्रतिगृहीता न द्रव्यत इत्येवंरूपो यो भङ्गः, पश्चाद् द्रव्यतोऽपि भावतोऽपि प्रतिगृहीता इत्येवलक्षणो द्विविधः प्रतिगृहीतो भगः-एतयोः सागारिकपिण्ड इति कृत्वा न कल्पते। अर्थनामेव नियुक्तिगाथा व्याच - संकप्पियं वा अहवेगपासे, सागारिदि8 अमुगं तु वेलं / नियट्ठभावेन मुगं अदिट्ठ, ___काले न निदेसे अछिन्नभावे // 340 यत् घृतपूरादि तत्र गृहे नयनाय संकल्पितम् / अथवा--यदेकपार्थे विष्वक स्थापित तदेतत् द्रव्यतश्छिन्नम्। सागारिकेण स्वगृहमानीयमानं यत् दृष्ट तत् क्षेत्रतछिन्नम् / अमुकस्यां मध्याह्लादिलक्षणाया वेलाया नेतव्यमिति निर्दिष्ट कालतश्छिन्नम् / यत्र न तेषामिति भावो निवृत्तस्तदावतश्छिन्न व्याख्यातम् / अथाच्छिन्नं व्याख्याति-'अमुगं' इत्यादि, यद् द्रव्यममुक नेतव्यमिति न सकल्पितं न वा पृथक् स्थापित तद् द्रव्यतोऽच्छिन्नम् / या वाऽऽहृतिका सागारिकेण नीयमाना न दृष्टा तत्क्षेत्रतोऽच्छिन्नम् / काले अच्छिन्नं यत् प्रतिनियतायां वेलायां निर्देशो नास्ति / भावे अच्छिन्नं तु यदद्यापि नेष्यामीति भावः अव्यवच्छिन्नो न निवर्त्तते इत्यर्थः। अथात्रैव ग्रहणविधिमाहभावोजावन छिन्नइ, विपरिणतोगेण्हमो त्ति खेत्तं तु। खेत्ते विहोतिगहणं, अदितु वि विप्परिणतम्मि॥३४१॥ भावो यावदद्यापि न व्यवच्छिद्यते, तावन्न कल्पते, यदातुन नेष्यामीति भावो विपरिणतो व्यवच्छिन्नस्तदा क्षेत्रच्छिन्नं तुन कल्पते इति भावः / अर्थतदेव भावयति- 'खेत्ते वि' इत्यादि क्षेत्रच्छिन्नस्यापि ग्रहणं भवति, यदि स तद् द्रव्यं नयन्नपान्तराले न नेष्यामीति परिणतो भवति, तत्त्वसागारिकणादृष्टमदृश्यमानं ग्रहीतव्यम्। ततःपुरतो पसंगपंता, अवियत्तं चेवपुव्वभणियं तु। वितियततियाउ पिंडो, पढमचउत्था पसंगेहिं // 342 / / अथ सागारिकस्य पुरतो गृह्णन्ति ततो भद्रकः प्रसङ्ग तन्निश्रया तत्र प्रक्षेप, प्रान्तश्च निष्काशनादिकं कुर्यात् / अप्रीतिकं च पूर्वभणितं तस्य तथा पश्यतो गृह्यमाणे भवति, ततः पुरतो न गृहीतव्यम् / तथा द्वितीयतृतीयौ भङ्गौ शय्यातरपिण्ड इति कृत्वा परिहर्तव्यो, प्रथमचतुर्थी तु शय्यातरपिण्डः परं प्रसङ्ग दोषभयात्तावपि परिहर्त्तव्यो। अथाचार्यो विनयवर्गव्युत्पादनार्थमाक्षेपपरिहारी निरूपयितुकाम इदमाहकप्पइ अपरिग्गहिया, णिक्खेवे चउदुगं अजाणता। जाणंता वि य केई, संमोहं कातु लोभा वा // 343|| के चिदाचा निक्षेपचतुष्क स्य द्रव्यतः प्रतिगृहीता न भावत इत्यादिलक्षणं भड़ चतुष्टयस्य द्विक प्रथमचतुर्थभङ्ग द्वयमाश्रित्य इदं सूत्रप्रवृत्तमित्येवंविधमवजानतोऽपि तदर्थ केचिदगीतार्थानां संमोहं कृत्वा लोभात खुवते कल्पते सागारिकेणापरिगृहीता आहृतिका। इदमेव स्पष्टयतिजं आहडं होइ परस्स हत्थे, जंनीहडं वावि परस्स दिन्नं / तं सुत्तछंदेण वयंति केई, कप्पं ण मे सुत्तमसुत्तमेवं / / 441 / / यदाहृत प्राघूर्णकं शरयातरगृहमानीय परस्य हस्ते भवति, एतेन प्रस्तुतभव सूत्रं गृहीतं सागारिकगृहान्निष्काशितं परस्य दत्तम्। अनेन वक्ष्यमाणसूत्रमुपात्तम् / तदेवंविधं द्रव्यं सूत्रच्छन्देन-सूत्राभिप्रायेण कल्प्यं-कल्पनीय न-नैव, चेद्यदि आचार्य एवमस्मदुक्तं मन्यसे ततः सूत्रमसूत्रमेव प्राप्नोति अप्रमाणामित्यर्थः, एवं केचिदाचार्यदेशीया वदन्ति। अत्र सूरिः प्रतिवचनमाहसुत्तं पमाणं जति इच्छितं ते, ण सुत्तमत्थं अतिरिच जाति। अत्थो जहा पस्सतिभूतमत्थं, तं सुत्तकारीहंतहा णिबद्धं // 342 / / यदि ते तव सूत्रं प्रमाणत्वेनेष्टमनुमतं तत इदमप्यक्षिणी निमील्य विचारयन्तु देवानांप्रियाः सूत्रं तावदर्थ-व्याख्यानमतिरिच्य न याति-न प्रवर्त्तते, तावदुच्यते इत्यर्थः / एष एवार्थो नियुक्ति-भाष्यादिरूपो यथायेन प्रकारेण भूतं-सद्भूतमर्थमभिधेयं पश्यति, सूत्रकारिभिरपि गणधरस्थविरैः सूत्रं तथा तेनैवाभिप्रायेण निबद्धमवसातव्यम्। अमुमेवार्थ दृढयतिछाया जहा छायवतो णिबद्धा, संपट्ठिए जाति ठितेय ठाति। अत्थो जहा गच्छति पज्जवसु, सुत्तं पि अत्थाणुचरं तहेव // 343 / / छाया प्रतीता सा यथा छायावतः पुरुषादेर्निबद्धा परतन्त्रा सती तस्मिन् संप्रस्थित याति, स्थित च तस्मिन् साऽपि तिष्ठति, यथाऽत्रापि / पुरुषस्थानीयोऽर्थो येषु भइ कादिविषयेषु प्रकारेषु गच्छति / सूत्रमपि छायास्थानीयं तस्यैवार्थस्यानुचरं सत्तथैव तेषु तेषु पर्यायषु गच्छति। इदमेव स्पष्टतरमाहजं केणई इच्छइ पज्जवेण, अत्थेण सेसेहि उपजवेहिं। विहीव सुत्ते तहि वारणा वि, उभे य इच्छंति विकोवणट्ठा // 344 / / अर्था -व्याख्यान विधिर्येन के नचित् पर्यायेण यत्सूत्रग हीतुमिच्छतिन शेष रपरै: पर्याय स्तत्र स एव प्रमाण यितव्यो
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy