SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ सव्वजगुजोयग 572 - अभिधानराजेन्द्रः - भाग 7 सव्वजगुजोयग तेषां ज्ञेयत्वमेवासिद्धमिति वाच्यम्, अभावप्रमाणव्यभिचारप्रसङ्गात् / तथाहि-यदि केनापि प्रमाणेन न ज्ञायन्ते तर्हि-'प्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते / वस्त्वसत्तावबोधार्थं , तत्रभावप्रमाणता / / 1 / / इति वचनादभावप्रमाणविषयाः स्युः, अभावाख्य च प्रमा-णमभावसाधनमिष्यते / अथ च ते विशेषाः स्वरूपेणैवावतिष्ठन्ते, ततोऽभावप्रमाणव्यभिचारप्रसङ्गः, तस्माद्विपक्षव्यापकानुप-लब्ध्या विशेषाणां ज्ञेयत्वं प्रत्यक्षविषयतया व्याप्यत इति प्रति-बन्धसिद्धिः / स्यादेतत्ज्ञेयत्वादिति हेतुर्विशेषविरुद्धः, तथाहि-घटादिगतारूपादिविशेष! इन्द्रियप्रत्यक्षेण प्रत्यक्षा उपलब्धाः, ततः तज्ज्ञेयत्वमिन्द्रियप्रत्यक्षविषयतया प्रत्यक्षत्वेन व्याप्तं निश्चितं सत् जलधिजलपलप्रमाणादिष्वपि विशेषेषु प्रत्यक्षत्वमिन्द्रिय-प्रत्यक्षविषयतां साधयति, तच्चानिष्टमिति / तदयुक्तम्, विरुद्ध-लक्षणासम्भवात्, तथाहि-विरुद्धो हेतुः तदा भवति यदा बोधक नोपजायते, 'विरुद्धोऽसति बाधके ' इति वचनाद्, अत्रच बाधकं विद्यते, यदि हि इन्द्रियप्रत्यक्षविषयतया प्रत्यक्षत्वं भवेत ततोऽस्मादृशामपि से प्रत्यक्षा भवेयुः, न च भवन्ति, तस्मादस्मादृशैः प्रत्यक्षत्वेना-संवदेनमेव तेषामिन्द्रियप्रत्यक्षविषयत्वसाधने बाधकमिति न विशेषविरुद्धःा अन्यःप्राह-न विशेषविरुद्धता हेतोदूष-णम्, अन्यथा सकलानुमानोच्छे दप्रसङ्गात्, तथाहि-यथा धूमो - ऽग्नि साधयति, अग्निप्रतिबद्धतया महानसे निश्चितत्वात्, तथा तस्मिन् साध्यधर्मिण्यग्न्यभावमपि साधयति, तेनापि सह महानसे प्रतिबन्धनिश्चयात्, तद्यथा-नात्रत्येनाग्निना अग्निमान् पक्तो धूम-बत्त्वात, महानसवत्,ततश्चैवं न कश्चिदपि हेतुः स्वात्, तस्मात् न विशेषविरुद्धता हेतोर्दोषः। आह च प्रज्ञाकरगुप्तोऽपि- "यदि विशे-षविरुद्धतया क्षितिर्ननु न हेतुरिहास्ति न दूषितः / निखिलहेतुप-राक्रमरोधिनी, न हि न सा सकलेन विरुद्धता / / 1 / / ' यचोक्तम्- अथवा अस्तु तदपि तथापि, सवेमेतावदेव जगति वस्त्विति न निश्चय इत्यादि तदप्पसारं, यतोऽवधिज्ञानं तदावरणकर्मदेशक्ष-योत्थं ततोऽतीन्द्रियमपि तन्न सकलवस्तुविषय, केवलज्ञानं तु निर्मूलसकलज्ञानावरणकर्मपर / माण्वपगमसमुत्थं ततः कथमिव तन्न सकलवस्तुविषयं भवेत? न हातीन्द्रियस्य देशादिविप्रकर्षाः प्रतिबन्धकाः, न च केवलप्रादुर्भाव आवरणदेशस्यापि सम्भवः, ततो यद्वस्तु तत्सर्वं भगवतः प्रत्यक्षमेवेति भवति सर्वज्ञस्यैवमात्मनो निश्चयः-एतावदेव जगति वस्त्विति / यदप्युक्तम्- 'अशुच्यादिरसास्वादप्रसङ्ग इति, तदपि दुरन्तदीर्घपायोदयविजृम्भि-तम्, अज्ञानतो भगवत्यधिक्षेपकरणात्, यो हि यादृगभूतोऽशुच्या-दिरसो येषां च प्राणिनां यादृगभूतां प्रीतिमुत्पादयति येषां च विद्विषं तत्सर्वं तदवस्थतया भगवान् वेत्ति, ततः कथमशुच्यादिरसास्वादप्रसङ्गः? अथ यदि तटस्थतया वेत्ति तर्हि न सम्यक्, सम्यक् चेत् यथास्वरूप वेत्ता तर्हि नियमात् तदास्वादप्रसक्तिः / उक्तं च- / "तटस्थत्वेन वेद्यत्वे, तत्त्वेनाऽवेदनं भवेत्। तदात्मना तु वेद्यत्वेऽशुच्यास्वादः प्रसज्यते / / 1 / / " तदसत्, भवान् हि सकम्मा करणाधीनज्ञानः ततो रसं यथावस्थितमवश्यं जिह्वेन्द्रियव्यापार-पुरस्सरमास्वादत एव जानाति, भगवास्तु करणव्यापारनिरपेक्षो-ऽतीन्द्रियज्ञानी ततो जिहेन्द्रियव्यापारसम्पाद्या-स्वादमन्तरेणैव रसं यथावस्थित तटस्थतया सम्यग् वेत्तीति न कश्चिद्घोषः। एतेन पर-रागादिवेदने रागित्वादिप्रसङ्गापादनमप्यपास्तमवसेयं, पररागा-दीनामपि यथावस्थिततया तटस्थेन सत्तावेदनात् / यदप्युक्तम् - 'कालतोऽनादिरनन्तः ससार' इत्यादि तदप्यसम्यग, युगपत्स-वदनाद्, न च युगपद् सर्ववेदनमसम्भवि, दृष्टत्वात् / तथाहि-सम्यगजिनागमाभ्यासप्रवृत्तस्य बहुशो विचारितधर्माधर्मा-स्तिकायादिस्वरूपस्य सामान्यतः पशास्तिकायविज्ञानं युगपदपि जायमानमुपलभ्यते, एवमशेषविशेषकलितपशास्तिकायविज्ञानमपि भविष्यति / तथा चायमों ऽन्यैरप्युक्तः- "यथा सकलशास्त्रार्थः, स्वभ्यस्तः प्रतिभासते / मनस्यैकक्षणेनैव, तथाऽनन्ता-दिवेदनम् // 1 // " यदप्युच्यते-'कथमतीत भावि वा वेत्ति? विनष्टानुत्पन्नत्वेन तयोरभावा' दिति, तदपि न सम्यक्, यतो यद्यपीदानीन्तनकालापेक्षया ते असती, तथापि यथाऽतीतमतीते कालेऽवतिष्ट यथा च भावि (वाय॑ति) वर्त्तिष्यते तथा ते साक्षात्करोति ततो न कश्चिद्दोषः / स्यादेतत्-यथा भवद्भिर्ज्ञानस्य तारतम्यदर्शनात्प्रकर्षसम्भवोऽनुमीयते तथा तीर्थान्तरीयैरपि, ततो यथा भवत्सम्मततीर्थकरोपदर्शिताः पदार्थराशयः सत्यता-मश्नुवते तथा तीर्थान्तरीयसम्मततीर्थकरोपदर्शिता अपि सत्यतामश्नुवीरन्, विशेषाभावाद्, अन्यथा भवत्सम्भततीर्थकरोपदर्शिता अपि असत्यतामश्नुवीरन् / अथ तीर्थान्तरीयसम्मततीर्थकरो-पदिष्टाः पदार्थराशयोऽनुमानप्रमाणेन बाध्यन्ते ततो न ते सत्याः तदयुक्तम्, अनुमानप्रमाणेनातीन्द्रियज्ञानस्य बाधितुमशक्यत्वात, आह च- "अतीन्द्रियानसंवेद्यान् पश्यन्त्यारेण चक्षुषा / ये भावान वचनं तेषां नानुमानेन बाध्यते // 1 // अथ सम्भवति जगति प्रज्ञालवोन्मेषदुर्विदग्धाः कुतळशास्त्राभ्याससम्पर्श तो वाचालाः तथाविधाद्भुतेन्द्रजालकौशलवशेन दर्शितदेवागमन-भोयान्चामरादिविभूतयः कीर्तिपूजादिलब्धुकामाः स्वयमसर्वज्ञा अपि सर्वज्ञा वयमिति ब्रूवाणाः, तत एतावदेव न ज्ञायते यदुत- तेषां सर्वोत्तमप्रकर्षरूपमतीन्द्रियज्ञानमभूत्, यदि पुनर्यथोक्तस्वरूपम-तीन्द्रियज्ञानमभविष्यत् तर्हि वचनमपि तेषां नाबाधिष्यत, अथ च दृश्यते बाधा ततस्ते कैतवभूमयो न सर्वज्ञा इति प्रतिपत्तव्यम् / तदेतदर्हत्यपि समानम्, न समानम्, अर्हद्वचसि प्रमासंवाददर्शनात्। उक्त च-"जैनेश्वरे हि वचसि, प्रमासंवाद इष्यते / प्रमाणबाधा त्वन्येषामतो द्रष्टा जिनेश्वरः / / 1 // ' अथ पुरुषमात्र समुत्थं प्रमाणमतीन्द्रियविषये न साधकं नापि बाधकमविषयत्वात्, समानकक्षतायां हि बाध्यबाधकभावः, तथा चोक्तम्-" समानविषया यस्माद्बाध्यबाधकसंस्थितिः। अतीन्द्रिये च संसारी, प्रमाण न प्रवर्तते / / 1 / / " ततः कथमुच्यते-अर्हतो वचसि प्रमा-संवाददर्शन प्रमाणबाध्यत्वमन्येषामिति? तदपि न सम्यक् , यतो न भगवान केवलमतीन्द्रियमरमादृशामशक्यपरिच्छेदमेवोपदि-शति, यदि पुनः तथाभूतमुपदिशेत् तर्हि न कोऽपि तद्वचनतः प्रवर्तेत, अतीन्द्रियार्थ वचः
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy