SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ सरीर 540 - अभिधानराजेन्द्रः - भाग 7 सरीर मणुस्साणं भंते ! केवइया ओरालियसरीरगा पण्णत्ता? गोयमा! दुविहा पण्णत्ता, तं जहा-बद्धेल्लगा य मुक्के लगा य / तत्थ णं जे ते बद्धेल्लगा ते णं सिय संखिज्जा सिय असंखिज्जा। जह-प्रणपदे संखेज्जा संखेज्जाओ कोडाकोडीओ तिजमलपयस्स उवरिं चउजमलपयस्स हिट्ठा, अहव णं छट्टो वग्गो अहवणं छण्णउईछे यणगदाइरासी, उक्कोसपए असंखिजा / असंखि-जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो रूवपक्खित्तेहिं मणुस्से हिं सेढी अवहीरइ। तीसे सेढीए आकासखेत्तेहिं अवहारो मग्गिजइ असंखेज्जा असंखेज्जाहि उस्सप्पिणीओसप्पिणीहिं कालतो, खेत्ततो अंगुलपढमवगमूलं तइयवग्गमूलपडुप्पण्णं,तत्थणं जे ते मुक्केल्लगा ते जहा ओरालिया ओहिया मुक्के लगा। वेउदिव्याणं भंते ! पुच्छा, गोयमा ! दुविहा पण्णत्ता, तं जहा- बद्धलगा, मुक्के लगा। तत्थ णं जे ते बद्धेलगाते णं संविज्जा, समए समए अवहीरमाणे 2 संखेजेणं कालेणं अवहीरंति, नो चेवणं अवहीरिया सिया, तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरालिया ओहिया, आहारगसरीरा जहा ओहिया, तेयाकम्मगा जहा एतेसिं चेव ओरालिया। वाणमंतराणं जहा नेरइयाणं ओरालिया आहारगा य। वेउव्वियसरीरगा जहा नेरइयाणं, नवरं तासिणं सेढीणं विक्खंभसूई असंखेज्जजोअणसयवग्गपलिभागो पयरस्स, मुक्के लया जहा ओरालिया, आहारगसरीरा जहा असुर-कुमाराणं तेयाकम्मया जहा एतेसि णं चेव वेउव्विता। तासिणं सेढीणं विक्खंभसूई वि छप्पन्नंगुलसयवग्गपलिभागो पयर-स्स,वेमाणियाणं एवं चेव, नवरं तासि णं सेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं तइयवग्गमूलपडुप्पन्नं अहव णं अंगुल-तइयवग्गमूलघणप्पमाणमेत्ताओ सेढीओ,सेसं तं चेव। (सू०-१९०४) सरीरपयं सम्मत्तं / / 12 / / असुरकुमाराणामौदारिकशरीराणि नैरपिकवत, वैक्रियाणि बद्धान्यसंख्येयानि, तदेवासंख्ययत्वं कालक्षेत्राभ्यां प्ररूपयति-सत्र कालसूत्र पागवत्, क्षेत्रता संख्येयाः श्रेणयः,असंख्येयासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीत्यर्थः,ताश्च श्रेणयः प्रतरस्यासंख्येयो भागः, प्रतरासंख्येयभागप्रमिता इत्यर्थः, तत्र नारकचिन्तायामपि प्रतरासंख्ययभागप्रमिता उक्ताः / ततो विशेषतरं परिमाणमाह- 'तारिस ज' मित्यादि, तासा श्रेणीनां परिमाणाय या विष्कम्भसूचिः सा अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनः प्रथमवर्गमूलस्य संख्येया भागः / किमुक्तं भवति-अङ्गुलमात्रक्षेत्रप्रदेशराशेरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्य यत्प्रथमवर्गमूलं षोडशलक्षणं तस्य संख्येयतमे भागे यावन्त आकाशप्रदेशा असत्कल्पनया पञ्च षड्वा तावत्प्रदेशात्मिका श्रेणिः परिमाणाय विष्कम्भसूचिरवसातव्या. एवं च नैरयिकापेक्षयाऽमीषां | विष्कम्भसूचिरसंख्येयगुणहीना। तथाहि-नैरयिकाणा श्रणिपरिमाणाय विष्कम्भसूचिरगुलप्रथमवर्गमूलं द्वितीयवर्गमूलप्रत्युत्पन्नं यावद् भवति तावत्प्रदेशात्मिका द्वितीयं च वर्गमूलं तत्त्वतोऽसंख्यातप्रदेशात्मकं ततोऽसंख्येयगुणप्रथमवर्गमूलप्रदेशात्मिका। नैरयिकाणां च सूचिरमीषां त्वड्गुलप्रथमवर्गमूलसंख्ययभागप्रदेशात्मिके ति, युक्तं चैतत्. यस्मान्महादण्डके सर्वेऽपि भवनपतयो रत्नप्रभानरयिकेभ्योऽप्यसंख्येयगुणहीना उक्तास्ततः सर्वनैरयिकापेक्षया सुतरामसंख्येयगुणहीना भवन्ति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत, तेजसकार्मणानि बद्धानि बद्धवैक्रियवत्, मुक्तान्यौधिकमुक्तवत्, यथा चासुरकुमारणामुक्तं तथा शेषाणामपि भवनपतीनां वाच्यं, यावत्स्तनितकुमाराणाम् / पृथिव्यप्तेजःसूत्रेषु बद्धान्यौदारिकशरीराणि असंख्येयानि, तत्रापि कालतः परिमाणचिन्तायां प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतः परिमाणचिन्तायामसंख्येया लोका:-आत्मीयादगाहनाभिरसंख्येया लोका व्याप्यन्ते, मुक्तान्यौधिकमुक्तवत्, तैजसकार्मणानि बद्धानि बद्धोदारिकवत, मुक्तान्यौधिकमुक्तवत्, वातकायस्याप्यौदारिकशरीराणि पृथिव्यादिवत्, वैक्रियाणि बद्धान्यसंख्येयानि, तानि च प्रतिसमयमेकैकशरीरपहारे पल्यापमासंख्येयभागेन निःशेषतोऽपहियन्ते। किमुक्तं भवति?पल्योपमासंख्येयभागे यावन्तः समयास्तावत्प्रमाणानीति न पुनरभ्यधिकानि स्युः, तथाहि- वायुकायिकाश्चतुर्विधाः, तद्यथा-सूक्ष्मा, बादराश्च एकैके द्विधाः-पर्याप्ता, अपर्याप्ताश्च / तत्र बादरपर्याप्तव्यतिरिक्ताः शेषास्थयोऽपि प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणाः, ये तु बादरपर्याप्तास्ते प्रतरासंख्येयभागप्रमाणाः, तत्र त्रयाणा राशीना वैक्रियलब्धिरेव नास्ति, बादरपर्याप्तानामपि संख्येयभागमात्राणां लब्धिः न शेषाणाम्। आह च चूर्णिकृत्-"तिण्हं ताव रासीणं वेउब्वियलद्धी चेव नस्थि, बायरपजत्ताणं पि संखेजइभागमत्ताणं लद्धी अस्थि ति। ततः पल्योपमासंख्येयभागसमयप्रमाणा एव पृच्छासमये वायवो वैक्रियवर्तिनाऽवाप्यन्ते नाधिका इति / इह केचिदाचक्षतेसर्वे वायवो वैक्रियवर्त्तिन एव, अवैक्रियाणां चेष्टाया एवासम्भवात्, तदसमीचीन, वस्तुगतेरपरिज्ञानात्, वायवो हि स्वभावाचलास्ततोऽवैक्रिया अपि ते वान्ति इति प्रतिपत्तव्यं वाताद्वायुरिति व्युत्पत्तेः / आह च चूर्णिकृत्"जेण सव्येसु चेव लोगागासेसु चला वायवो वायंति तम्हा अवेउब्विया वि वाया वायतीति चित्तव्य' मिति, मुक्तानि वैक्रियाण्यौधिकमुक्तवत्, तैजसकार्मणानि बद्धानि बद्धौदारिकवत् मुक्तान्यौधिकमुक्तवत्, वनस्पतिकायिकचिन्तायामादौरिकाणि पृथिव्यादिवत्, तैजसकार्मणान्यौधिकतैजसकार्मणवत्। वीन्द्रियसूत्रे बद्धान्यौदारिकशरीराणि असंख्येयानि, ततः कालतः परिमाणचिन्तायामसख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते असंख्यातासूत्साप्पिण्यवसप्पिणीषुयावन्तः समयास्तावत्
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy